chevron_left आदि पर्व अध्याय १३
शौनक उवाच:
किमर्थं राजशार्दूलः स राजा जनमेजय़ः |
१ क
शौनक उवाच:
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ||
१ ख
शौनक उवाच:
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः |
२ क
शौनक उवाच:
मोक्षय़ामास भुजगान्दीप्तात्तस्माद्धुताशनात् ||
२ ख
शौनक उवाच:
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् |
३ क
शौनक उवाच:
स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ||
३ ख
सूत उवाच:
महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज |
४ क
सूत उवाच:
सर्वमेतदशेषेण शृणु मे वदतां वर ||
४ ख
शौनक उवाच:
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् |
५ क
शौनक उवाच:
आस्तीकस्य पुराणस्य व्राह्मणस्य यशस्विनः ||
५ ख
सूत उवाच:
इतिहासमिमं वृद्धाः पुराणं परिचक्षते |
६ क
सूत उवाच:
कृष्णद्वैपाय़नप्रोक्तं नैमिषारण्यवासिनः ||
६ ख
सूत उवाच:
पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः |
७ क
सूत उवाच:
शिष्यो व्यासस्य मेधावी व्राह्मणैरिदमुक्तवान् ||
७ ख
सूत उवाच:
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् |
८ क
सूत उवाच:
इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ||
८ ख
सूत उवाच:
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः |
९ क
सूत उवाच:
व्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ||
९ ख
सूत उवाच:
जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः |
१० क
सूत उवाच:
याय़ावराणां धर्मज्ञः प्रवरः संशितव्रतः ||
१० ख
सूत उवाच:
अटमानः कदाचित्स स्वान्ददर्श पितामहान् |
११ क
सूत उवाच:
लम्वमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् ||
११ ख
सूत उवाच:
तानव्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् |
१२ क
सूत उवाच:
के भवन्तोऽवलम्वन्ते गर्तेऽस्मिन्वा अधोमुखाः ||
१२ ख
सूत उवाच:
वीरणस्तम्वके लग्नाः सर्वतः परिभक्षिते |
१३ क
सूत उवाच:
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ||
१३ ख
पितर ऊचुः:
याय़ावरा नाम वय़मृषय़ः संशितव्रताः |
१४ क
पितर ऊचुः:
सन्तानप्रक्षय़ाद्व्रह्मन्नधो गच्छाम मेदिनीम् ||
१४ ख
पितर ऊचुः:
अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः |
१५ क
पितर ऊचुः:
मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः ||
१५ ख
पितर ऊचुः:
न स पुत्राञ्जनय़ितुं दारान्मूढश्चिकीर्षति |
१६ क
पितर ऊचुः:
तेन लम्वामहे गर्ते सन्तानप्रक्षय़ादिह ||
१६ ख
पितर ऊचुः:
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा |
१७ क
पितर ऊचुः:
कस्त्वं वन्धुरिवास्माकमनुशोचसि सत्तम ||
१७ ख
पितर ऊचुः:
ज्ञातुमिच्छामहे व्रह्मन्को भवानिह धिष्ठितः |
१८ क
पितर ऊचुः:
किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ||
१८ ख
जरत्कारुरु उवाच:
मम पूर्वे भवन्तो वै पितरः सपितामहाः |
१९ क
जरत्कारुरु उवाच:
व्रूत किं करवाण्यद्य जरत्कारुरहं स्वय़म् ||
१९ ख
पितर ऊचुः:
यतस्व यत्नवांस्तात सन्तानाय़ कुलस्य नः |
२० क
पितर ऊचुः:
आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ||
२० ख
पितर ऊचुः:
न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः |
२१ क
पितर ऊचुः:
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ||
२१ ख
पितर ऊचुः:
तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु |
२२ क
पितर ऊचुः:
पुत्रकास्मन्निय़ोगात्त्वमेतन्नः परमं हितम् ||
२२ ख
जरत्कारुरु उवाच:
न दारान्वै करिष्यामि सदा मे भावितं मनः |
२३ क
जरत्कारुरु उवाच:
भवतां तु हितार्थाय़ करिष्ये दारसङ्ग्रहम् ||
२३ ख
जरत्कारुरु उवाच:
समय़ेन च कर्ताहमनेन विधिपूर्वकम् |
२४ क
जरत्कारुरु उवाच:
तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ||
२४ ख
जरत्कारुरु उवाच:
सनाम्नी या भवित्री मे दित्सिता चैव वन्धुभिः |
२५ क
जरत्कारुरु उवाच:
भैक्षवत्तामहं कन्यामुपय़ंस्ये विधानतः ||
२५ ख
जरत्कारुरु उवाच:
दरिद्राय़ हि मे भार्यां को दास्यति विशेषतः |
२६ क
जरत्कारुरु उवाच:
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ||
२६ ख
जरत्कारुरु उवाच:
एवं दारक्रिय़ाहेतोः प्रय़तिष्ये पितामहाः |
२७ क
जरत्कारुरु उवाच:
अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ||
२७ ख
जरत्कारुरु उवाच:
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय़ वै |
२८ क
जरत्कारुरु उवाच:
शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ||
२८ ख
सूत उवाच:
ततो निवेशाय़ तदा स विप्रः संशितव्रतः |
२९ क
सूत उवाच:
महीं चचार दारार्थी न च दारानविन्दत ||
२९ ख
सूत उवाच:
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् |
३० क
सूत उवाच:
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ||
३० ख
सूत उवाच:
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा |
३१ क
सूत उवाच:
न स तां प्रतिजग्राह न सनाम्नीति चिन्तय़न् ||
३१ ख
सूत उवाच:
सनाम्नीमुद्यतां भार्यां गृह्णीय़ामिति तस्य हि |
३२ क
सूत उवाच:
मनो निविष्टमभवज्जरत्कारोर्महात्मनः ||
३२ ख
सूत उवाच:
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः |
३३ क
सूत उवाच:
किंनाम्नी भगिनीय़ं ते व्रूहि सत्यं भुजङ्गम ||
३३ ख
वासुकिरु उवाच:
जरत्कारो जरत्कारुः स्वसेय़मनुजा मम |
३४ क
वासुकिरु उवाच:
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ||
३४ ख
सूत उवाच:
मात्रा हि भुजगाः शप्ताः पूर्वं व्रह्मविदां वर |
३५ क
सूत उवाच:
जनमेजय़स्य वो यज्ञे धक्ष्यत्यनिलसारथिः ||
३५ ख
सूत उवाच:
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः |
३६ क
सूत उवाच:
स्वसारमृषय़े तस्मै सुव्रताय़ तपस्विने ||
३६ ख
सूत उवाच:
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा |
३७ क
सूत उवाच:
आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ||
३७ ख
सूत उवाच:
तपस्वी च महात्मा च वेदवेदाङ्गपारगः |
३८ क
सूत उवाच:
समः सर्वस्य लोकस्य पितृमातृभय़ापहः ||
३८ ख
सूत उवाच:
अथ कालस्य महतः पाण्डवेय़ो नराधिपः |
३९ क
सूत उवाच:
आजहार महाय़ज्ञं सर्पसत्रमिति श्रुतिः ||
३९ ख
सूत उवाच:
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय़ वै |
४० क
सूत उवाच:
मोचय़ामास तं शापमास्तीकः सुमहाय़शाः ||
४० ख
सूत उवाच:
नागांश्च मातुलांश्चैव तथा चान्यान्स वान्धवान् |
४१ क
सूत उवाच:
पितृंश्च तारय़ामास सन्तत्या तपसा तथा |
४१ ख
सूत उवाच:
व्रतैश्च विविधैर्व्रह्मन्स्वाध्याय़ैश्चानृणोऽभवत् ||
४१ ग
सूत उवाच:
देवांश्च तर्पय़ामास यज्ञैर्विविधदक्षिणैः |
४२ क
सूत उवाच:
ऋषींश्च व्रह्मचर्येण सन्तत्या च पितामहान् ||
४२ ख
सूत उवाच:
अपहृत्य गुरुं भारं पितृणां संशितव्रतः |
४३ क
सूत उवाच:
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ||
४३ ख
सूत उवाच:
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः |
४४ क
सूत उवाच:
जरत्कारुः सुमहता कालेन स्वर्गमीय़िवान् ||
४४ ख
सूत उवाच:
एतदाख्यानमास्तीकं यथावत्कीर्तितं मय़ा |
४५ क
सूत उवाच:
प्रव्रूहि भृगुशार्दूल किं भूय़ः कथ्यतामिति ||
४५ ख