युधिष्ठिर उवाच:
सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन |
१ क
युधिष्ठिर उवाच:
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ||
१ ख
सञ्जय़ उवाच:
वासुदेवोऽपि तद्युक्तं पर्यपृच्छद्युधिष्ठिरम् |
२ क
सञ्जय़ उवाच:
ततः क्षत्ता प्रकृतय़ो न्यवेदय़दुपस्थिताः ||
२ ख
सञ्जय़ उवाच:
अनुज्ञातश्च राज्ञा स प्रावेशय़त तं जनम् |
३ क
सञ्जय़ उवाच:
विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् ||
३ ख
सञ्जय़ उवाच:
शिखण्डिनं यमौ चैव चेकितानं च केकय़ान् |
४ क
सञ्जय़ उवाच:
युय़ुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् ||
४ ख
सञ्जय़ उवाच:
एते चान्ये च वहवः क्षत्रिय़ाः क्षत्रिय़र्षभम् |
५ क
सञ्जय़ उवाच:
उपतस्थुर्महात्मानं विविशुश्चासनेषु ते ||
५ ख
सञ्जय़ उवाच:
एकस्मिन्नासने वीरावुपविष्टौ महावलौ |
६ क
सञ्जय़ उवाच:
कृष्णश्च युय़ुधानश्च महात्मानौ महाद्युती ||
६ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम् |
७ क
सञ्जय़ उवाच:
अव्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः ||
७ ख
सञ्जय़ उवाच:
एकं त्वां वय़माश्रित्य सहस्राक्षमिवामराः |
८ क
सञ्जय़ उवाच:
प्रार्थय़ामो जय़ं युद्धे शाश्वतानि सुखानि च ||
८ ख
सञ्जय़ उवाच:
त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रिय़ाम् |
९ क
सञ्जय़ उवाच:
क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः ||
९ ख
सञ्जय़ उवाच:
त्वय़ि सर्वेश सर्वेषामस्माकं भक्तवत्सल |
१० क
सञ्जय़ उवाच:
सुखमाय़त्तमत्यर्थं यात्रा च मधुसूदन ||
१० ख
सञ्जय़ उवाच:
स तथा कुरु वार्ष्णेय़ यथा त्वय़ि मनो मम |
११ क
सञ्जय़ उवाच:
अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता ||
११ ख
सञ्जय़ उवाच:
स भवांस्तारय़त्वस्माद्दुःखामर्षमहार्णवात् |
१२ क
सञ्जय़ उवाच:
पारं तितीर्षतामद्य प्लवो नो भव माधव ||
१२ ख
सञ्जय़ उवाच:
न हि तत्कुरुते सङ्ख्ये कार्तवीर्यसमस्त्वपि |
१३ क
सञ्जय़ उवाच:
रथी यत्कुरुते कृष्ण सारथिर्यत्नमास्थितः ||
१३ ख
वासुदेव उवाच:
सामरेष्वपि लोकेषु सर्वेषु न तथाविधः |
१४ क
वासुदेव उवाच:
शरासनधरः कश्चिद्यथा पार्थो धनञ्जय़ः ||
१४ ख
वासुदेव उवाच:
वीर्यवानस्त्रसम्पन्नः पराक्रान्तो महावलः |
१५ क
वासुदेव उवाच:
युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् ||
१५ ख
वासुदेव उवाच:
स युवा वृषभस्कन्धो दीर्घवाहुर्महावलः |
१६ क
वासुदेव उवाच:
सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति ||
१६ ख
वासुदेव उवाच:
अहं च तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः |
१७ क
वासुदेव उवाच:
धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवोत्थितः ||
१७ ख
वासुदेव उवाच:
अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम् |
१८ क
वासुदेव उवाच:
अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः ||
१८ ख
वासुदेव उवाच:
तस्याद्य गृध्राः श्येनाश्च वडगोमाय़वस्तथा |
१९ क
वासुदेव उवाच:
भक्षय़िष्यन्ति मांसानि ये चान्ये पुरुषादकाः ||
१९ ख
वासुदेव उवाच:
यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाप्यसौ |
२० क
वासुदेव उवाच:
राजधानीं यमस्याद्य हतः प्राप्स्यति सङ्कुले ||
२० ख
वासुदेव उवाच:
निहत्य सैन्धवं जिष्णुरद्य त्वामुपय़ास्यति |
२१ क
वासुदेव उवाच:
विशोको विज्वरो राजन्भव भूतिपुरस्कृतः ||
२१ ख