वैशम्पाय़न उवाच:
पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः |
१ क
वैशम्पाय़न उवाच:
आधाय़ विपुलं क्रोधं पुनरेवेदमव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान् |
२ क
वैशम्पाय़न उवाच:
मन्यते तद्भय़ं व्येतु भवतो राजसत्तम ||
२ ख
वैशम्पाय़न उवाच:
अकामद्वेषसंय़ोगाद्द्रोहाल्लोभाच्च भारत |
३ क
वैशम्पाय़न उवाच:
उपेक्षय़ा च भावानां देवा देवत्वमाप्नुवन् ||
३ ख
वैशम्पाय़न उवाच:
इति द्वैपाय़नो व्यासो नारदश्च महातपाः |
४ क
वैशम्पाय़न उवाच:
जामदग्न्यश्च रामो नः कथामकथय़त्पुरा ||
४ ख
वैशम्पाय़न उवाच:
नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन |
५ क
वैशम्पाय़न उवाच:
कामाल्लोभादनुक्रोशाद्द्वेषाच्च भरतर्षभ ||
५ ख
वैशम्पाय़न उवाच:
यदि ह्यग्निश्च वाय़ुश्च धर्म इन्द्रोऽश्विनावपि |
६ क
वैशम्पाय़न उवाच:
कामय़ोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुय़ुः ||
६ ख
वैशम्पाय़न उवाच:
तस्मान्न भवता चिन्ता कार्यैषा स्यात्कदाचन |
७ क
वैशम्पाय़न उवाच:
दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत ||
७ ख
वैशम्पाय़न उवाच:
अथ चेत्कामसंय़ोगाद्द्वेषाल्लोभाच्च लक्ष्यते |
८ क
वैशम्पाय़न उवाच:
देवेषु देवप्रामाण्यं नैव तद्विक्रमिष्यति ||
८ ख
वैशम्पाय़न उवाच:
मय़ाभिमन्त्रितः शश्वज्जातवेदाः प्रशंसति |
९ क
वैशम्पाय़न उवाच:
दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः ||
९ ख
वैशम्पाय़न उवाच:
यद्वा परमकं तेजो येन युक्ता दिवौकसः |
१० क
वैशम्पाय़न उवाच:
ममाप्यनुपमं भूय़ो देवेभ्यो विद्धि भारत ||
१० ख
वैशम्पाय़न उवाच:
प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च |
११ क
वैशम्पाय़न उवाच:
लोकस्य पश्यतो राजन्स्थापय़ाम्यभिमन्त्रणात् ||
११ ख
वैशम्पाय़न उवाच:
चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च |
१२ क
वैशम्पाय़न उवाच:
विनाशाय़ समुत्पन्नं महाघोरं महास्वनम् ||
१२ ख
वैशम्पाय़न उवाच:
अश्मवर्षं च वाय़ुं च शमय़ामीह नित्यशः |
१३ क
वैशम्पाय़न उवाच:
जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पय़ा ||
१३ ख
वैशम्पाय़न उवाच:
स्तम्भितास्वप्सु गच्छन्ति मय़ा रथपदातय़ः |
१४ क
वैशम्पाय़न उवाच:
देवासुराणां भावानामहमेकः प्रवर्तिता ||
१४ ख
वैशम्पाय़न उवाच:
अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् |
१५ क
वैशम्पाय़न उवाच:
तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामय़े ||
१५ ख
वैशम्पाय़न उवाच:
भय़ानि विषय़े राजन्व्यालादीनि न सन्ति मे |
१६ क
वैशम्पाय़न उवाच:
मत्तः सुप्तानि भूतानि न हिंसन्ति भय़ङ्कराः ||
१६ ख
वैशम्पाय़न उवाच:
निकामवर्षी पर्जन्यो राजन्विषय़वासिनाम् |
१७ क
वैशम्पाय़न उवाच:
धर्मिष्ठाश्च प्रजाः सर्वा ईतय़श्च न सन्ति मे ||
१७ ख
वैशम्पाय़न उवाच:
अश्विनावथ वाय़्वग्नी मरुद्भिः सह वृत्रहा |
१८ क
वैशम्पाय़न उवाच:
धर्मश्चैव मय़ा द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् ||
१८ ख
वैशम्पाय़न उवाच:
यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमोजसा |
१९ क
वैशम्पाय़न उवाच:
न स्म त्रय़ोदश समाः पार्था दुःखमवाप्नुय़ुः ||
१९ ख
वैशम्पाय़न उवाच:
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः |
२० क
वैशम्पाय़न उवाच:
शक्तास्त्रातुं मय़ा द्विष्टं सत्यमेतद्व्रवीमि ते ||
२० ख
वैशम्पाय़न उवाच:
यदभिध्याम्यहं शश्वच्छुभं वा यदि वाशुभम् |
२१ क
वैशम्पाय़न उवाच:
नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभय़ोः ||
२१ ख
वैशम्पाय़न उवाच:
भविष्यतीदमिति वा यद्व्रवीमि परन्तप |
२२ क
वैशम्पाय़न उवाच:
नान्यथा भूतपूर्वं तत्सत्यवागिति मां विदुः ||
२२ ख
वैशम्पाय़न उवाच:
लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् |
२३ क
वैशम्पाय़न उवाच:
आश्वासनार्थं भवतः प्रोक्तं न श्लाघय़ा नृप ||
२३ ख
वैशम्पाय़न उवाच:
न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन |
२४ क
वैशम्पाय़न उवाच:
असदाचरितं ह्येतद्यदात्मानं प्रशंसति ||
२४ ख
वैशम्पाय़न उवाच:
पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकय़ैः सह |
२५ क
वैशम्पाय़न उवाच:
सात्यकिं वासुदेवं च श्रोतासि विजितान्मय़ा ||
२५ ख
वैशम्पाय़न उवाच:
सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः |
२६ क
वैशम्पाय़न उवाच:
तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वय़ाः ||
२६ ख
वैशम्पाय़न उवाच:
परा वुद्धिः परं तेजो वीर्यं च परमं मय़ि |
२७ क
वैशम्पाय़न उवाच:
परा विद्या परो योगो मम तेभ्यो विशिष्यते ||
२७ ख
वैशम्पाय़न उवाच:
पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा |
२८ क
वैशम्पाय़न उवाच:
अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मय़ि विद्यते ||
२८ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा सञ्जय़ं भूय़ः पर्यपृच्छत भारत |
२९ क
वैशम्पाय़न उवाच:
ज्ञात्वा युय़ुत्सुः कार्याणि प्राप्तकालमरिन्दम ||
२९ ख