सञ्जय़ उवाच:
ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः |
१ क
सञ्जय़ उवाच:
अविध्यद्भृशसङ्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ||
१ ख
सञ्जय़ उवाच:
कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः |
२ क
सञ्जय़ उवाच:
अवाकिरदमेय़ात्मा सर्वलोकस्य पश्यतः ||
२ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा सोदर्यैः परिवारितः |
३ क
सञ्जय़ उवाच:
सौमदत्तिं रणे यत्तः समन्तात्पर्यवारय़त् ||
३ ख
सञ्जय़ उवाच:
तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे |
४ क
सञ्जय़ उवाच:
परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः ||
४ ख
सञ्जय़ उवाच:
भीमसेनस्तु सङ्क्रुद्धो गदामुद्यम्य भारत |
५ क
सञ्जय़ उवाच:
दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारय़त् ||
५ ख
सञ्जय़ उवाच:
रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः |
६ क
सञ्जय़ उवाच:
नन्दकस्तव पुत्रस्तु भीमसेनं महावलम् |
६ ख
सञ्जय़ उवाच:
विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः ||
६ ग
सञ्जय़ उवाच:
दुर्योधनस्तु समरे भीमसेनं महावलम् |
७ क
सञ्जय़ उवाच:
आजघानोरसि क्रुद्धो मार्गणैर्निशितैस्त्रिभिः ||
७ ख
सञ्जय़ उवाच:
ततो भीमो महावाहुः स्वरथं सुमहावलः |
८ क
सञ्जय़ उवाच:
आरुरोह रथश्रेष्ठं विशोकं चेदमव्रवीत् ||
८ ख
सञ्जय़ उवाच:
एते महारथाः शूरा धार्तराष्ट्रा महावलाः |
९ क
सञ्जय़ उवाच:
मामेव भृशसङ्क्रुद्धा हन्तुमभ्युद्यता युधि ||
९ ख
सञ्जय़ उवाच:
एतानद्य हनिष्यामि पश्यतस्ते न संशय़ः |
१० क
सञ्जय़ उवाच:
तस्मान्ममाश्वान्सङ्ग्रामे यत्तः संय़च्छ सारथे ||
१० ख
सञ्जय़ उवाच:
एवमुक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव |
११ क
सञ्जय़ उवाच:
विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः |
११ ख
सञ्जय़ उवाच:
नन्दकं च त्रिभिर्वाणैः प्रत्यविध्यत्स्तनान्तरे ||
११ ग
सञ्जय़ उवाच:
तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महावलम् |
१२ क
सञ्जय़ उवाच:
त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ||
१२ ख
सञ्जय़ उवाच:
भीमस्य च रणे राजन्धनुश्चिच्छेद भास्वरम् |
१३ क
सञ्जय़ उवाच:
मुष्टिदेशे शरैस्तीक्ष्णैस्त्रिभी राजा हसन्निव ||
१३ ख
सञ्जय़ उवाच:
भीमस्तु प्रेक्ष्य यन्तारं विशोकं संय़ुगे तदा |
१४ क
सञ्जय़ उवाच:
पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ||
१४ ख
सञ्जय़ उवाच:
अमृष्यमाणः सङ्क्रुद्धो धनुर्दिव्यं परामृशत् |
१५ क
सञ्जय़ उवाच:
पुत्रस्य ते महाराज वधार्थं भरतर्षभ ||
१५ ख
सञ्जय़ उवाच:
समादत्त च संरव्धः क्षुरप्रं लोमवाहिनम् |
१६ क
सञ्जय़ उवाच:
तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् ||
१६ ख
सञ्जय़ उवाच:
सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव |
१७ क
सञ्जय़ उवाच:
अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ||
१७ ख
सञ्जय़ उवाच:
सन्धत्त विशिखं घोरं कालमृत्युसमप्रभम् |
१८ क
सञ्जय़ उवाच:
तेनाजघान सङ्क्रुद्धो भीमसेनं स्तनान्तरे ||
१८ ख
सञ्जय़ उवाच:
स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत् |
१९ क
सञ्जय़ उवाच:
स निषण्णो रथोपस्थे मूर्छामभिजगाम ह ||
१९ ख
सञ्जय़ उवाच:
तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः |
२० क
सञ्जय़ उवाच:
नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः ||
२० ख
सञ्जय़ उवाच:
ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् |
२१ क
सञ्जय़ उवाच:
पातय़ामासुरव्यग्राः पुत्रस्य तव मूर्धनि ||
२१ ख
सञ्जय़ उवाच:
प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महावलः |
२२ क
सञ्जय़ उवाच:
दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ||
२२ ख
सञ्जय़ उवाच:
शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः |
२३ क
सञ्जय़ उवाच:
रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपय़ाद्रणात् ||
२३ ख
सञ्जय़ उवाच:
प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश |
२४ क
सञ्जय़ उवाच:
सेनापतिः सुषेणश्च जलसन्धः सुलोचनः ||
२४ ख
सञ्जय़ उवाच:
उग्रो भीमरथो भीमो भीमवाहुरलोलुपः |
२५ क
सञ्जय़ उवाच:
दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ||
२५ ख
सञ्जय़ उवाच:
विसृजन्तो वहून्वाणान्क्रोधसंरक्तलोचनाः |
२६ क
सञ्जय़ उवाच:
भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ||
२६ ख
सञ्जय़ उवाच:
पुत्रांस्तु तव सम्प्रेक्ष्य भीमसेनो महावलः |
२७ क
सञ्जय़ उवाच:
सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा |
२७ ख
सञ्जय़ उवाच:
सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ||
२७ ग
सञ्जय़ उवाच:
जलसन्धं विनिर्भिद्य सोऽनय़द्यमसादनम् |
२८ क
सञ्जय़ उवाच:
सुषेणं च ततो हत्वा प्रेषय़ामास मृत्यवे ||
२८ ख
सञ्जय़ उवाच:
उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि |
२९ क
सञ्जय़ उवाच:
पातय़ामास भल्लेन कुण्डलाभ्यां विभूषितम् ||
२९ ख
सञ्जय़ उवाच:
भीमवाहुं च सप्तत्या साश्वकेतुं ससारथिम् |
३० क
सञ्जय़ उवाच:
निनाय़ समरे भीमः परलोकाय़ मारिष ||
३० ख
सञ्जय़ उवाच:
भीमं भीमरथं चोभौ भीमसेनो हसन्निव |
३१ क
सञ्जय़ उवाच:
भ्रातरौ रभसौ राजन्ननय़द्यमसादनम् ||
३१ ख
सञ्जय़ उवाच:
ततः सुलोचनं भीमः क्षुरप्रेण महामृधे |
३२ क
सञ्जय़ उवाच:
मिषतां सर्वसैन्यानामनय़द्यमसादनम् ||
३२ ख
सञ्जय़ उवाच:
पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् |
३३ क
सञ्जय़ उवाच:
शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भय़ार्दिताः |
३३ ख
सञ्जय़ उवाच:
विप्रद्रुता दिशो राजन्वध्यमाना महात्मना ||
३३ ग
सञ्जय़ उवाच:
ततोऽव्रवीच्छान्तनवः सर्वानेव महारथान् |
३४ क
सञ्जय़ उवाच:
एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ||
३४ ख
सञ्जय़ उवाच:
यथाप्राग्र्यान्यथाज्येष्ठान्यथाशूरांश्च सङ्गतान् |
३५ क
सञ्जय़ उवाच:
निपातय़त्युग्रधन्वा तं प्रमथ्नीत पार्थिवाः ||
३५ ख
सञ्जय़ उवाच:
एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः |
३६ क
सञ्जय़ उवाच:
अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनं महावलम् ||
३६ ख
सञ्जय़ उवाच:
भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते |
३७ क
सञ्जय़ उवाच:
अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः ||
३७ ख
सञ्जय़ उवाच:
आपतन्नेव च रणे भीमसेनं शिलाशितैः |
३८ क
सञ्जय़ उवाच:
अदृश्यं समरे चक्रे जीमूत इव भास्करम् ||
३८ ख
सञ्जय़ उवाच:
अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः |
३९ क
सञ्जय़ उवाच:
भीमस्याच्छादनं सङ्ख्ये स्ववाहुवलमाश्रिताः ||
३९ ख
सञ्जय़ उवाच:
त एनं शरवर्षेण समन्तात्पर्यवारय़न् |
४० क
सञ्जय़ उवाच:
गजं च शरवृष्ट्या तं विभिदुस्ते समन्ततः ||
४० ख
सञ्जय़ उवाच:
स शस्त्रवृष्ट्याभिहतः प्राद्रवद्द्विगुणं पदम् |
४१ क
सञ्जय़ उवाच:
प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ||
४१ ख
सञ्जय़ उवाच:
सञ्जातरुधिरोत्पीडः प्रेक्षणीय़ोऽभवद्रणे |
४२ क
सञ्जय़ उवाच:
गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ||
४२ ख
सञ्जय़ उवाच:
स चोदितो मदस्रावी भगदत्तेन वारणः |
४३ क
सञ्जय़ उवाच:
अभ्यधावत तान्सर्वान्कालोत्सृष्ट इवान्तकः |
४३ ख
सञ्जय़ उवाच:
द्विगुणं जवमास्थाय़ कम्पय़ंश्चरणैर्महीम् ||
४३ ग
सञ्जय़ उवाच:
तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः |
४४ क
सञ्जय़ उवाच:
असह्यं मन्यमानास्ते नातिप्रमनसोऽभवन् ||
४४ ख
सञ्जय़ उवाच:
ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे |
४५ क
सञ्जय़ उवाच:
आजघान नरव्याघ्र शरेण नतपर्वणा ||
४५ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः |
४६ क
सञ्जय़ उवाच:
मूर्छय़ाभिपरीताङ्गो ध्वजय़ष्टिमुपाश्रितः ||
४६ ख
सञ्जय़ उवाच:
तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्छितम् |
४७ क
सञ्जय़ उवाच:
ननाद वलवन्नादं भगदत्तः प्रतापवान् ||
४७ ख
सञ्जय़ उवाच:
ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथागतम् |
४८ क