chevron_left द्रोण पर्व अध्याय ६०
सञ्जय़ उवाच:
तथा सम्भाषतां तेषां प्रादुरासीद्धनञ्जय़ः |
१ क
सञ्जय़ उवाच:
दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम् ||
१ ख
सञ्जय़ उवाच:
तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम् |
२ क
सञ्जय़ उवाच:
समुत्थाय़ार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः ||
२ ख
सञ्जय़ उवाच:
मूर्ध्नि चैनमुपाघ्राय़ परिष्वज्य च वाहुना |
३ क
सञ्जय़ उवाच:
आशिषः परमाः प्रोच्य स्मय़मानोऽभ्यभाषत ||
३ ख
सञ्जय़ उवाच:
व्यक्तमर्जुन सङ्ग्रामे ध्रुवस्ते विजय़ो महान् |
४ क
सञ्जय़ उवाच:
यादृग्रूपा हि ते छाय़ा प्रसन्नश्च जनार्दनः ||
४ ख
सञ्जय़ उवाच:
तमव्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम् |
५ क
सञ्जय़ उवाच:
दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् ||
५ ख
सञ्जय़ उवाच:
ततस्तत्कथय़ामास यथादृष्टं धनञ्जय़ः |
६ क
सञ्जय़ उवाच:
आश्वासनार्थं सुहृदां त्र्यम्वकेन समागमम् ||
६ ख
सञ्जय़ उवाच:
ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः |
७ क
सञ्जय़ उवाच:
नमस्कृत्य वृषाङ्काय़ साधु साध्वित्यथाव्रुवन् ||
७ ख
सञ्जय़ उवाच:
अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना |
८ क
सञ्जय़ उवाच:
त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय़ निर्ययुः ||
८ ख
सञ्जय़ उवाच:
अभिवाद्य तु राजानं युय़ुधानाच्युतार्जुनाः |
९ क
सञ्जय़ उवाच:
हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् ||
९ ख
सञ्जय़ उवाच:
रथेनैकेन दुर्धर्षौ युय़ुधानजनार्दनौ |
१० क
सञ्जय़ उवाच:
जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् ||
१० ख
सञ्जय़ उवाच:
तत्र गत्वा हृषीकेशः कल्पय़ामास सूतवत् |
११ क
सञ्जय़ उवाच:
रथं रथवरस्याजौ वानरर्षभलक्षणम् ||
११ ख
सञ्जय़ उवाच:
स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः |
१२ क
सञ्जय़ उवाच:
वभौ रथवरः कॢप्तः शिशुर्दिवसकृद्यथा ||
१२ ख
सञ्जय़ उवाच:
ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः |
१३ क
सञ्जय़ उवाच:
कृताह्निकाय़ पार्थाय़ न्यवेदय़त तं रथम् ||
१३ ख
सञ्जय़ उवाच:
तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत् |
१४ क
सञ्जय़ उवाच:
वाणवाणासनी वाहं प्रदक्षिणमवर्तत ||
१४ ख
सञ्जय़ उवाच:
ततो विद्यावय़ोवृद्धैः क्रिय़ावद्भिर्जितेन्द्रिय़ैः |
१५ क
सञ्जय़ उवाच:
स्तूय़मानो जय़ाशीभिरारुरोह महारथम् ||
१५ ख
सञ्जय़ उवाच:
जैत्रैः साङ्ग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम् |
१६ क
सञ्जय़ उवाच:
अभिमन्त्रितमर्चिष्मानुदय़ं भास्करो यथा ||
१६ ख
सञ्जय़ उवाच:
स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः |
१७ क
सञ्जय़ उवाच:
विवभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः ||
१७ ख
सञ्जय़ उवाच:
अन्वारुरोहतुः पार्थं युय़ुधानजनार्दनौ |
१८ क
सञ्जय़ उवाच:
शर्यातेर्यज्ञमाय़ान्तं यथेन्द्रं देवमश्विनौ ||
१८ ख
सञ्जय़ उवाच:
अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः |
१९ क
सञ्जय़ उवाच:
मातलिर्वासवस्येव वृत्रं हन्तुं प्रय़ास्यतः ||
१९ ख
सञ्जय़ उवाच:
स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः |
२० क
सञ्जय़ उवाच:
सहितो वुधशुक्राभ्यां तमो निघ्नन्यथा शशी ||
२० ख
सञ्जय़ उवाच:
सैन्धवस्य वधप्रेप्सुः प्रय़ातः शत्रुपूगहा |
२१ क
सञ्जय़ उवाच:
सहाम्वुपतिमित्राभ्यां यथेन्द्रस्तारकामय़े ||
२१ ख
सञ्जय़ उवाच:
ततो वादित्रनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः |
२२ क
सञ्जय़ उवाच:
प्रय़ान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः ||
२२ ख
सञ्जय़ उवाच:
सजय़ाशीः सपुण्याहः सूतमागधनिस्वनः |
२३ क
सञ्जय़ उवाच:
युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् ||
२३ ख
सञ्जय़ उवाच:
तमनुप्रय़तो वाय़ुः पुण्यगन्धवहः शुचिः |
२४ क
सञ्जय़ उवाच:
ववौ संहर्षय़न्पार्थं द्विषतश्चापि शोषय़न् ||
२४ ख
सञ्जय़ उवाच:
प्रादुरासन्निमित्तानि विजय़ाय़ वहूनि च |
२५ क
सञ्जय़ उवाच:
पाण्डवानां त्वदीय़ानां विपरीतानि मारिष ||
२५ ख
सञ्जय़ उवाच:
दृष्ट्वार्जुनो निमित्तानि विजय़ाय़ प्रदक्षिणम् |
२६ क
सञ्जय़ उवाच:
युय़ुधानं महेष्वासमिदं वचनमव्रवीत् ||
२६ ख
सञ्जय़ उवाच:
युय़ुधानाद्य युद्धे मे दृश्यते विजय़ो ध्रुवः |
२७ क
सञ्जय़ उवाच:
यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुङ्गव ||
२७ ख
सञ्जय़ उवाच:
सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः |
२८ क
सञ्जय़ उवाच:
यिय़ासुर्यमलोकाय़ मम वीर्यं प्रतीक्षते ||
२८ ख
सञ्जय़ उवाच:
यथा परमकं कृत्यं सैन्धवस्य वधे मम |
२९ क
सञ्जय़ उवाच:
तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे ||
२९ ख
सञ्जय़ उवाच:
स त्वमद्य महावाहो राजानं परिपालय़ |
३० क
सञ्जय़ उवाच:
यथैव हि मय़ा गुप्तस्त्वय़ा गुप्तो भवेत्तथा ||
३० ख
सञ्जय़ उवाच:
त्वय़ि चाहं पराश्वस्य प्रद्युम्ने वा महारथे |
३१ क
सञ्जय़ उवाच:
शक्नुय़ां सैन्धवं हन्तुमनपेक्षो नरर्षभ ||
३१ ख
सञ्जय़ उवाच:
मय़्यपेक्षा न कर्तव्या कथञ्चिदपि सात्वत |
३२ क
सञ्जय़ उवाच:
राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वय़ा ||
३२ ख
सञ्जय़ उवाच:
न हि यत्र महावाहुर्वासुदेवो व्यवस्थितः |
३३ क
सञ्जय़ उवाच:
किञ्चिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् ||
३३ ख
सञ्जय़ उवाच:
एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा |
३४ क
सञ्जय़ उवाच:
तथेत्युक्त्वागमत्तत्र यत्र राजा युधिष्ठिरः ||
३४ ख