chevron_left कर्ण पर्व अध्याय ६०
सञ्जय़ उवाच:
ततः कर्णः कुरुषु प्रद्रुतेषु; वरूथिना श्वेतहय़ेन राजन् |
१ क
सञ्जय़ उवाच:
पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो; महेषुभिर्वात इवाभ्रसङ्घान् ||
१ ख
सञ्जय़ उवाच:
सूतं रथादञ्जलिकेन पात्य; जघान चाश्वाञ्जनमेजय़स्य |
२ क
सञ्जय़ उवाच:
शतानीकं सुतसोमं च भल्लै; रवाकिरद्धनुषी चाप्यकृन्तत् ||
२ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं निर्विभेदाथ षड्भि; र्जघान चाश्वं दक्षिणं तस्य सङ्ख्ये |
३ क
सञ्जय़ उवाच:
हत्वा चाश्वान्सात्यकेः सूतपुत्रः; कैकेय़पुत्रं न्यवधीद्विशोकम् ||
३ ख
सञ्जय़ उवाच:
तमभ्यधावन्निहते कुमारे; कैकेय़सेनापतिरुग्रधन्वा |
४ क
सञ्जय़ उवाच:
शरैर्विभिन्नं भृशमुग्रवेगैः; कर्णात्मजं सोऽभ्यहनत्सुषेणम् ||
४ ख
सञ्जय़ उवाच:
तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त; प्रसह्य वाहू च शिरश्च कर्णः |
५ क
सञ्जय़ उवाच:
स स्यन्दनाद्गामपतद्गतासुः; परश्वधैः शाल इवावरुग्णः ||
५ ख
सञ्जय़ उवाच:
हताश्वमञ्जोगतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः |
६ क
सञ्जय़ उवाच:
प्रच्छाद्य नृत्यन्निव सौतिपुत्रः; शैनेय़वाणाभिहतः पपात ||
६ ख
सञ्जय़ उवाच:
पुत्रे हते क्रोधपरीतचेताः; कर्णः शिनीनामृषभं जिघांसुः |
७ क
सञ्जय़ उवाच:
हतोऽसि शैनेय़ इति व्रुवन्स; व्यवासृजद्वाणममित्रसाहम् ||
७ ख
सञ्जय़ उवाच:
स तस्य चिच्छेद शरं शिखण्डी; त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम् |
८ क
सञ्जय़ उवाच:
शिखण्डिनः कार्मुकं स ध्वजं च; च्छित्त्वा शराभ्यामहनत्सुजातम् ||
८ ख
सञ्जय़ उवाच:
शिखण्डिनं षड्भिरविध्यदुग्रो; दान्तो धार्ष्टद्युम्नशिरश्चकर्त |
९ क
सञ्जय़ उवाच:
अथाभिनत्सुतसोमं शरेण; स संशितेनाधिरथिर्महात्मा ||
९ ख
सञ्जय़ उवाच:
अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः |
१० क
सञ्जय़ उवाच:
अपाञ्चाल्यं क्रिय़ते याहि पार्थ; कर्णं जहीत्यव्रवीद्राजसिंह ||
१० ख
सञ्जय़ उवाच:
ततः प्रहस्याशु नरप्रवीरो; रथं रथेनाधिरथेर्जगाम |
११ क
सञ्जय़ उवाच:
भय़े तेषां त्राणमिच्छन्सुवाहु; रभ्याहतानां रथय़ूथपेन ||
११ ख
सञ्जय़ उवाच:
विस्फार्य गाण्डीवमथोग्रघोषं; ज्यया समाहत्य तले भृशं च |
१२ क
सञ्जय़ उवाच:
वाणान्धकारं सहसैव कृत्वा; जघान नागाश्वरथान्नरांश्च ||
१२ ख
सञ्जय़ उवाच:
तं भीमसेनोऽनु यय़ौ रथेन; पृष्ठे रक्षन्पाण्डवमेकवीरम् |
१३ क
सञ्जय़ उवाच:
तौ राजपुत्रौ त्वरितौ रथाभ्यां; कर्णाय़ यातावरिभिर्विमुक्तौ ||
१३ ख
सञ्जय़ उवाच:
अत्रान्तरे सुमहत्सूतपुत्र; श्चक्रे युद्धं सोमकान्सम्प्रमृद्नन् |
१४ क
सञ्जय़ उवाच:
रथाश्वमातङ्गगणाञ्जघान; प्रच्छादय़ामास दिशः शरैश्च ||
१४ ख
सञ्जय़ उवाच:
तमुत्तमौजा जनमेजय़श्च; क्रुद्धौ युधामन्युशिखण्डिनौ च |
१५ क
सञ्जय़ उवाच:
कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन ||
१५ ख
सञ्जय़ उवाच:
ते पञ्च पाञ्चालरथाः सुरूपै; र्वैकर्तनं कर्णमभिद्रवन्तः |
१६ क
सञ्जय़ उवाच:
तस्माद्रथाच्च्यावय़ितुं न शेकु; र्धैर्यात्कृतात्मानमिवेन्द्रिय़ाणि ||
१६ ख
सञ्जय़ उवाच:
तेषां धनूंषि ध्वजवाजिसूतां; स्तूणं पताकाश्च निकृत्य वाणैः |
१७ क
सञ्जय़ उवाच:
तान्पञ्चभिः स त्वहनत्पृषत्कैः; कर्णस्ततः सिंह इवोन्ननाद ||
१७ ख
सञ्जय़ उवाच:
तस्यास्यतस्तानभिनिघ्नतश्च; ज्यावाणहस्तस्य धनुःस्वनेन |
१८ क
सञ्जय़ उवाच:
साद्रिद्रुमा स्यात्पृथिवी विशीर्णा; इत्येव मत्वा जनता व्यषीदत् ||
१८ ख
सञ्जय़ उवाच:
स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान्सृजन् |
१९ क
सञ्जय़ उवाच:
वभौ रणे दीप्तमरीचिमण्डलो; यथांशुमाली परिवेषवांस्तथा ||
१९ ख
सञ्जय़ उवाच:
शिखण्डिनं द्वादशभिः पराभिन; च्छितैः शरैः षड्भिरथोत्तमौजसम् |
२० क
सञ्जय़ उवाच:
त्रिभिर्युधामन्युमविध्यदाशुगै; स्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ ||
२० ख
सञ्जय़ उवाच:
पराजिताः पञ्च महारथास्तु ते; महाहवे सूतसुतेन मारिष |
२१ क
सञ्जय़ उवाच:
निरुद्यमास्तस्थुरमित्रमर्दना; यथेन्द्रिय़ार्थात्मवता पराजिताः ||
२१ ख
सञ्जय़ उवाच:
निमज्जतस्तानथ कर्णसागरे; विपन्ननावो वणिजो यथार्णवे |
२२ क
सञ्जय़ उवाच:
उद्दध्रिरे नौभिरिवार्णवाद्रथैः; सुकल्पितैर्द्रौपदिजाः स्वमातुलान् ||
२२ ख
सञ्जय़ उवाच:
ततः शिनीनामृषभः शितैः शरै; र्निकृत्य कर्णप्रहितानिषून्वहून् |
२३ क
सञ्जय़ उवाच:
विदार्य कर्णं निशितैरय़स्मय़ै; स्तवात्मजं ज्येष्ठमविध्यदष्टभिः ||
२३ ख
सञ्जय़ उवाच:
कृपोऽथ भोजश्च तवात्मजस्तथा; स्वय़ं च कर्णो निशितैरताडय़त् |
२४ क
सञ्जय़ उवाच:
स तैश्चतुर्भिर्युय़ुधे यदूत्तमो; दिगीश्वरैर्दैत्यपतिर्यथा तथा ||
२४ ख
सञ्जय़ उवाच:
समानतेनेष्वसनेन कूजता; भृशाततेनामितवाणवर्षिणा |
२५ क
सञ्जय़ उवाच:
वभूव दुर्धर्षतरः स सात्यकिः; शरन्नभोमध्यगतो यथा रविः ||
२५ ख
सञ्जय़ उवाच:
पुनः समासाद्य रथान्सुदंशिताः; शिनिप्रवीरं जुगुपुः परन्तपाः |
२६ क
सञ्जय़ उवाच:
समेत्य पाञ्चालरथा महारणे; मरुद्गणाः शक्रमिवारिनिग्रहे ||
२६ ख
सञ्जय़ उवाच:
ततोऽभवद्युद्धमतीव दारुणं; तवाहितानां तव सैनिकैः सह |
२७ क
सञ्जय़ उवाच:
रथाश्वमातङ्गविनाशनं तथा; यथा सुराणामसुरैः पुराभवत् ||
२७ ख
सञ्जय़ उवाच:
रथद्विपा वाजिपदातय़ोऽपि वा; भ्रमन्ति नानाविधशस्त्रवेष्टिताः |
२८ क
सञ्जय़ उवाच:
परस्परेणाभिहताश्च चस्खलु; र्विनेदुरार्ता व्यसवोऽपतन्त च ||
२८ ख
सञ्जय़ उवाच:
तथा गते भीममभीस्तवात्मजः; ससार राजावरजः किरञ्शरैः |
२९ क
सञ्जय़ उवाच:
तमभ्यधावत्त्वरितो वृकोदरो; महारुरुं सिंह इवाभिपेतिवान् ||
२९ ख
सञ्जय़ उवाच:
ततस्तय़ोर्युद्धमतीतमानुषं; प्रदीव्यतोः प्राणदुरोदरेऽभवत् |
३० क
सञ्जय़ उवाच:
परस्परेणाभिनिविष्टरोषय़ो; रुदग्रय़ोः शम्वरशक्रय़ोर्यथा ||
३० ख
सञ्जय़ उवाच:
शरैः शरीरान्तकरैः सुतेजनै; र्निजघ्नतुस्तावितरेतरं भृशम् |
३१ क
सञ्जय़ उवाच:
सकृत्प्रभिन्नाविव वाशितान्तरे; महागजौ मन्मथसक्तचेतसौ ||
३१ ख
सञ्जय़ उवाच:
तवात्मजस्याथ वृकोदरस्त्वर; न्धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत् |
३२ क
सञ्जय़ उवाच:
ललाटमप्यस्य विभेद पत्रिणा; शिरश्च काय़ात्प्रजहार सारथेः ||
३२ ख
सञ्जय़ उवाच:
स राजपुत्रोऽन्यदवाप्य कार्मुकं; वृकोदरं द्वादशभिः पराभिनत् |
३३ क
सञ्जय़ उवाच:
स्वय़ं निय़च्छंस्तुरगानजिह्मगैः; शरैश्च भीमं पुनरभ्यवीवृषत् ||
३३ ख