धृतराष्ट्र उवाच:
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संय़ुगे |
१ क
धृतराष्ट्र उवाच:
पाण्डवाः सृञ्जय़ाश्चैव किमकुर्वत सञ्जय़ ||
१ ख
सञ्जय़ उवाच:
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संय़ुगे |
२ क
सञ्जय़ उवाच:
सिंहेनेव महाराज मत्तं वनगजं वने ||
२ ख
सञ्जय़ उवाच:
प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः |
३ क
सञ्जय़ उवाच:
पाञ्चालाः सृञ्जय़ाश्चैव निहते कुरुनन्दने ||
३ ख
सञ्जय़ उवाच:
आविध्यन्नुत्तरीय़ाणि सिंहनादांश्च नेदिरे |
४ क
सञ्जय़ उवाच:
नैतान्हर्षसमाविष्टानिय़ं सेहे वसुन्धरा ||
४ ख
सञ्जय़ उवाच:
धनूंष्यन्ये व्याक्षिपन्त ज्याश्चाप्यन्ये तथाक्षिपन् |
५ क
सञ्जय़ उवाच:
दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीः ||
५ ख
सञ्जय़ उवाच:
चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताः |
६ क
सञ्जय़ उवाच:
अव्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः ||
६ ख
सञ्जय़ उवाच:
दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम् |
७ क
सञ्जय़ उवाच:
कौरवेन्द्रं रणे हत्वा गदय़ातिकृतश्रमम् ||
७ ख
सञ्जय़ उवाच:
इन्द्रेणेव हि वृत्रस्य वधं परमसंय़ुगे |
८ क
सञ्जय़ उवाच:
त्वय़ा कृतममन्यन्त शत्रोर्वधमिमं जनाः ||
८ ख
सञ्जय़ उवाच:
चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः |
९ क
सञ्जय़ उवाच:
दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् ||
९ ख
सञ्जय़ उवाच:
वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम् |
१० क
सञ्जय़ उवाच:
अशक्यमेतदन्येन सम्पादय़ितुमीदृशम् ||
१० ख
सञ्जय़ उवाच:
कुञ्जरेणेव मत्तेन वीर सङ्ग्राममूर्धनि |
११ क
सञ्जय़ उवाच:
दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वय़ा ||
११ ख
सञ्जय़ उवाच:
सिंहेन महिषस्येव कृत्वा सङ्गरमद्भुतम् |
१२ क
सञ्जय़ उवाच:
दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वय़ानघ ||
१२ ख
सञ्जय़ उवाच:
ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम् |
१३ क
सञ्जय़ उवाच:
मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा ||
१३ ख
सञ्जय़ उवाच:
अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च |
१४ क
सञ्जय़ उवाच:
भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ||
१४ ख
सञ्जय़ उवाच:
एवं नूनं हते वृत्रे शक्रं नन्दन्ति वन्दिनः |
१५ क
सञ्जय़ उवाच:
तथा त्वां निहतामित्रं वय़ं नन्दाम भारत ||
१५ ख
सञ्जय़ उवाच:
दुर्योधनवधे यानि रोमाणि हृषितानि नः |
१६ क
सञ्जय़ उवाच:
अद्यापि न विहृष्यन्ति तानि तद्विद्धि भारत |
१६ ख
सञ्जय़ उवाच:
इत्यव्रुवन्भीमसेनं वातिकास्तत्र सङ्गताः ||
१६ ग
सञ्जय़ उवाच:
तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह |
१७ क
सञ्जय़ उवाच:
व्रुवतः सदृशं तत्र प्रोवाच मधुसूदनः ||
१७ ख
सञ्जय़ उवाच:
न न्याय़्यं निहतः शत्रुर्भूय़ो हन्तुं जनाधिपाः |
१८ क
सञ्जय़ उवाच:
असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः ||
१८ ख
सञ्जय़ उवाच:
तदैवैष हतः पापो यदैव निरपत्रपः |
१९ क
सञ्जय़ उवाच:
लुव्धः पापसहाय़श्च सुहृदां शासनातिगः ||
१९ ख
सञ्जय़ उवाच:
वहुशो विदुरद्रोणकृपगाङ्गेय़सृञ्जय़ैः |
२० क
सञ्जय़ उवाच:
पाण्डुभ्यः प्रोच्यमानोऽपि पित्र्यमंशं न दत्तवान् ||
२० ख
सञ्जय़ उवाच:
नैष योग्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः |
२१ क
सञ्जय़ उवाच:
किमनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा ||
२१ ख
सञ्जय़ उवाच:
रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः |
२२ क
सञ्जय़ उवाच:
दिष्ट्या हतोऽय़ं पापात्मा सामात्यज्ञातिवान्धवः ||
२२ ख
सञ्जय़ उवाच:
इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः |
२३ क
सञ्जय़ उवाच:
अमर्षवशमापन्न उदतिष्ठद्विशां पते ||
२३ ख
सञ्जय़ उवाच:
स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम् |
२४ क
सञ्जय़ उवाच:
दृष्टिं भ्रूसङ्कटां कृत्वा वासुदेवे न्यपातय़त् ||
२४ ख
सञ्जय़ उवाच:
अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तत् |
२५ क
सञ्जय़ उवाच:
क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत ||
२५ ख
सञ्जय़ उवाच:
प्राणान्तकरणीं घोरां वेदनामविचिन्तय़न् |
२६ क
सञ्जय़ उवाच:
दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दय़त् ||
२६ ख
सञ्जय़ उवाच:
कंसदासस्य दाय़ाद न ते लज्जास्त्यनेन वै |
२७ क
सञ्जय़ उवाच:
अधर्मेण गदाय़ुद्धे यदहं विनिपातितः ||
२७ ख
सञ्जय़ उवाच:
ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रय़च्छता |
२८ क
सञ्जय़ उवाच:
किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः ||
२८ ख
सञ्जय़ उवाच:
घातय़ित्वा महीपालानृजुय़ुद्धान्सहस्रशः |
२९ क
सञ्जय़ उवाच:
जिह्मैरुपाय़ैर्वहुभिर्न ते लज्जा न ते घृणा ||
२९ ख
सञ्जय़ उवाच:
अहन्यहनि शूराणां कुर्वाणः कदनं महत् |
३० क
सञ्जय़ उवाच:
शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः ||
३० ख
सञ्जय़ उवाच:
अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते |
३१ क
सञ्जय़ उवाच:
आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मम ||
३१ ख
सञ्जय़ उवाच:
स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान् |
३२ क
सञ्जय़ उवाच:
पात्यमानस्त्वय़ा दृष्टो न चैनं त्वमवारय़ः ||
३२ ख
सञ्जय़ उवाच:
वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च |
३३ क
सञ्जय़ उवाच:
घटोत्कचे व्यंसय़थाः कस्त्वत्तः पापकृत्तमः ||
३३ ख
सञ्जय़ उवाच:
छिन्नवाहुः प्राय़गतस्तथा भूरिश्रवा वली |
३४ क
सञ्जय़ उवाच:
त्वय़ा निसृष्टेन हतः शैनेय़ेन दुरात्मना ||
३४ ख
सञ्जय़ उवाच:
कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषय़ा |
३५ क
सञ्जय़ उवाच:
व्यंसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै ||
३५ ख
सञ्जय़ उवाच:
पुनश्च पतिते चक्रे व्यसनार्तः पराजितः |
३६ क
सञ्जय़ उवाच:
पातितः समरे कर्णश्चक्रव्यग्रोऽग्रणीर्नृणाम् ||
३६ ख
सञ्जय़ उवाच:
यदि मां चापि कर्णं च भीष्मद्रोणौ च संय़ुगे |
३७ क
सञ्जय़ उवाच:
ऋजुना प्रतिय़ुध्येथा न ते स्याद्विजय़ो ध्रुवम् ||
३७ ख
सञ्जय़ उवाच:
त्वय़ा पुनरनार्येण जिह्ममार्गेण पार्थिवाः |
३८ क
सञ्जय़ उवाच:
स्वधर्ममनुतिष्ठन्तो वय़ं चान्ये च घातिताः ||
३८ ख
वासुदेव उवाच:
हतस्त्वमसि गान्धारे सभ्रातृसुतवान्धवः |
३९ क
वासुदेव उवाच:
सगणः ससुहृच्चैव पापमार्गमनुष्ठितः ||
३९ ख
वासुदेव उवाच:
तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ |
४० क
वासुदेव उवाच:
कर्णश्च निहतः सङ्ख्ये तव शीलानुवर्तकः ||
४० ख
वासुदेव उवाच:
याच्यमानो मय़ा मूढ पित्र्यमंशं न दित्ससि |
४१ क
वासुदेव उवाच:
पाण्डवेभ्यः स्वराज्यार्धं लोभाच्छकुनिनिश्चय़ात् ||
४१ ख
वासुदेव उवाच:
विषं ते भीमसेनाय़ दत्तं सर्वे च पाण्डवाः |
४२ क
वासुदेव उवाच:
प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते ||
४२ ख
वासुदेव उवाच:
सभाय़ां याज्ञसेनी च कृष्टा द्यूते रजस्वला |
४३ क
वासुदेव उवाच:
तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रपः ||
४३ ख
वासुदेव उवाच:
अनक्षज्ञं च धर्मज्ञं सौवलेनाक्षवेदिना |
४४ क
वासुदेव उवाच:
निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे ||
४४ ख
वासुदेव उवाच:
जय़द्रथेन पापेन यत्कृष्णा क्लेशिता वने |
४५ क
वासुदेव उवाच:
यातेषु मृगय़ां तेषु तृणविन्दोरथाश्रमे ||
४५ ख
वासुदेव उवाच:
अभिमन्युश्च यद्वाल एको वहुभिराहवे |
४६ क
वासुदेव उवाच:
त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे ||
४६ ख
दुर्योधन उवाच:
अधीतं विधिवद्दत्तं भूः प्रशास्ता ससागरा |
४७ क
दुर्योधन उवाच:
मूर्ध्नि स्थितममित्राणां को नु स्वन्ततरो मय़ा ||
४७ ख
दुर्योधन उवाच:
यदिष्टं क्षत्रवन्धूनां स्वधर्ममनुपश्यताम् |
४८ क
दुर्योधन उवाच:
तदिदं निधनं प्राप्तं को नु स्वन्ततरो मय़ा ||
४८ ख
दुर्योधन उवाच:
देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः |
४९ क
दुर्योधन उवाच:
ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मय़ा ||
४९ ख
दुर्योधन उवाच:
ससुहृत्सानुवन्धश्च स्वर्गं गन्ताहमच्युत |
५० क