जनमेजय़ उवाच:
देवानां दानवानां च यक्षाणामथ रक्षसाम् |
१ क
जनमेजय़ उवाच:
अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् ||
१ ख
जनमेजय़ उवाच:
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् |
२ क
जनमेजय़ उवाच:
जन्म कर्म च भूतानामेतेषामनुपूर्वशः ||
२ ख
वैशम्पाय़न उवाच:
मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः |
३ क
वैशम्पाय़न उवाच:
प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ||
३ ख
वैशम्पाय़न उवाच:
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः |
४ क
वैशम्पाय़न उवाच:
जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः ||
४ ख
वैशम्पाय़न उवाच:
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः |
५ क
वैशम्पाय़न उवाच:
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ||
५ ख
वैशम्पाय़न उवाच:
संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः |
६ क
वैशम्पाय़न उवाच:
स शल्य इति विख्यातो जज्ञे वाह्लीकपुङ्गवः ||
६ ख
वैशम्पाय़न उवाच:
अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः |
७ क
वैशम्पाय़न उवाच:
धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः ||
७ ख
वैशम्पाय़न उवाच:
यस्तु राजञ्शिविर्नाम दैतेय़ः परिकीर्तितः |
८ क
वैशम्पाय़न उवाच:
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ||
८ ख
वैशम्पाय़न उवाच:
वाष्कलो नाम यस्तेषामासीदसुरसत्तमः |
९ क
वैशम्पाय़न उवाच:
भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः ||
९ ख
वैशम्पाय़न उवाच:
अय़ःशिरा अश्वशिरा अय़ःशङ्कुश्च वीर्यवान् |
१० क
वैशम्पाय़न उवाच:
तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ||
१० ख
वैशम्पाय़न उवाच:
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः |
११ क
वैशम्पाय़न उवाच:
केकय़ेषु महात्मानः पार्थिवर्षभसत्तमाः ||
११ ख
वैशम्पाय़न उवाच:
केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् |
१२ क
वैशम्पाय़न उवाच:
अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्न्नृपः ||
१२ ख
वैशम्पाय़न उवाच:
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः |
१३ क
वैशम्पाय़न उवाच:
उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ||
१३ ख
वैशम्पाय़न उवाच:
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः |
१४ क
वैशम्पाय़न उवाच:
अशोको नाम राजासीन्महावीर्यपराक्रमः ||
१४ ख
वैशम्पाय़न उवाच:
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः |
१५ क
वैशम्पाय़न उवाच:
दैतेय़ः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ||
१५ ख
वैशम्पाय़न उवाच:
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः |
१६ क
वैशम्पाय़न उवाच:
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ||
१६ ख
वैशम्पाय़न उवाच:
अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः |
१७ क
वैशम्पाय़न उवाच:
स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः ||
१७ ख
वैशम्पाय़न उवाच:
अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः |
१८ क
वैशम्पाय़न उवाच:
रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ||
१८ ख
वैशम्पाय़न उवाच:
सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः |
१९ क
वैशम्पाय़न उवाच:
वृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः ||
१९ ख
वैशम्पाय़न उवाच:
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः |
२० क
वैशम्पाय़न उवाच:
सेनाविन्दुरिति ख्यातः स वभूव नराधिपः ||
२० ख
वैशम्पाय़न उवाच:
इसृपा नाम यस्तेषामसुराणां वलाधिकः |
२१ क
वैशम्पाय़न उवाच:
पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः ||
२१ ख
वैशम्पाय़न उवाच:
एकचक्र इति ख्यात आसीद्यस्तु महासुरः |
२२ क
वैशम्पाय़न उवाच:
प्रतिविन्ध्य इति ख्यातो वभूव प्रथितः क्षितौ ||
२२ ख
वैशम्पाय़न उवाच:
विरूपाक्षस्तु दैतेय़श्चित्रय़ोधी महासुरः |
२३ क
वैशम्पाय़न उवाच:
चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः ||
२३ ख
वैशम्पाय़न उवाच:
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः |
२४ क
वैशम्पाय़न उवाच:
सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः ||
२४ ख
वैशम्पाय़न उवाच:
अहरस्तु महातेजाः शत्रुपक्षक्षय़ङ्करः |
२५ क
वैशम्पाय़न उवाच:
वाह्लीको नाम राजा स वभूव प्रथितः क्षितौ ||
२५ ख
वैशम्पाय़न उवाच:
निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः |
२६ क
वैशम्पाय़न उवाच:
मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ||
२६ ख
वैशम्पाय़न उवाच:
निकुम्भस्त्वजितः सङ्ख्ये महामतिरजाय़त |
२७ क
वैशम्पाय़न उवाच:
भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः ||
२७ ख
वैशम्पाय़न उवाच:
शरभो नाम यस्तेषां दैतेय़ानां महासुरः |
२८ क
वैशम्पाय़न उवाच:
पौरवो नाम राजर्षिः स वभूव नरेष्विह ||
२८ ख
वैशम्पाय़न उवाच:
द्वितीय़ः शलभस्तेषामसुराणां वभूव यः |
२९ क
वैशम्पाय़न उवाच:
प्रह्रादो नाम वाह्लीकः स वभूव नराधिपः ||
२९ ख
वैशम्पाय़न उवाच:
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः |
३० क
वैशम्पाय़न उवाच:
ऋषिको नाम राजर्षिर्वभूव नृपसत्तमः ||
३० ख
वैशम्पाय़न उवाच:
मृतपा इति विख्यातो य आसीदसुरोत्तमः |
३१ क
वैशम्पाय़न उवाच:
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ||
३१ ख
वैशम्पाय़न उवाच:
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः |
३२ क
वैशम्पाय़न उवाच:
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ||
३२ ख
वैशम्पाय़न उवाच:
मय़ूर इति विख्यातः श्रीमान्यस्तु महासुरः |
३३ क
वैशम्पाय़न उवाच:
स विश्व इति विख्यातो वभूव पृथिवीपतिः ||
३३ ख
वैशम्पाय़न उवाच:
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः |
३४ क
वैशम्पाय़न उवाच:
कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ||
३४ ख
वैशम्पाय़न उवाच:
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः |
३५ क
वैशम्पाय़न उवाच:
शुनको नाम राजर्षिः स वभूव नराधिपः ||
३५ ख
वैशम्पाय़न उवाच:
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः |
३६ क
वैशम्पाय़न उवाच:
जानकिर्नाम राजर्षिः स वभूव नराधिपः ||
३६ ख
वैशम्पाय़न उवाच:
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः |
३७ क
वैशम्पाय़न उवाच:
काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः ||
३७ ख
वैशम्पाय़न उवाच:
ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् |
३८ क
वैशम्पाय़न उवाच:
क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः ||
३८ ख
वैशम्पाय़न उवाच:
अनाय़ुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः |
३९ क
वैशम्पाय़न उवाच:
विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः ||
३९ ख
वैशम्पाय़न उवाच:
द्वितीय़ो विक्षराद्यस्तु नराधिप महासुरः |
४० क
वैशम्पाय़न उवाच:
पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः ||
४० ख
वैशम्पाय़न उवाच:
वलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः |
४१ क
वैशम्पाय़न उवाच:
पौण्ड्रमत्स्यक इत्येव स वभूव नराधिपः ||
४१ ख
वैशम्पाय़न उवाच:
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः |
४२ क
वैशम्पाय़न उवाच:
मणिमान्नाम राजर्षिः स वभूव नराधिपः ||
४२ ख
वैशम्पाय़न उवाच:
क्रोधहन्तेति यस्तस्य वभूवावरजोऽसुरः |
४३ क
वैशम्पाय़न उवाच:
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ||
४३ ख
वैशम्पाय़न उवाच:
क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः |
४४ क
वैशम्पाय़न उवाच:
दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ||
४४ ख
वैशम्पाय़न उवाच:
कालकाय़ास्तु ये पुत्रास्तेषामष्टौ नराधिपाः |
४५ क
वैशम्पाय़न उवाच:
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ||
४५ ख
वैशम्पाय़न उवाच:
मगधेषु जय़त्सेनः श्रीमानासीत्स पार्थिवः |
४६ क
वैशम्पाय़न उवाच:
अष्टानां प्रवरस्तेषां कालेय़ानां महासुरः ||
४६ ख
वैशम्पाय़न उवाच:
द्वितीय़स्तु ततस्तेषां श्रीमान्हरिहय़ोपमः |
४७ क
वैशम्पाय़न उवाच:
अपराजित इत्येव स वभूव नराधिपः ||
४७ ख
वैशम्पाय़न उवाच:
तृतीय़स्तु महाराज महावाहुर्महासुरः |
४८ क
वैशम्पाय़न उवाच:
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ||
४८ ख
वैशम्पाय़न उवाच:
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः |
४९ क
वैशम्पाय़न उवाच:
श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ||
४९ ख
वैशम्पाय़न उवाच:
पञ्चमस्तु वभूवैषां प्रवरो यो महासुरः |
५० क
वैशम्पाय़न उवाच:
महौजा इति विख्यातो वभूवेह परन्तपः ||
५० ख