chevron_left सभा पर्व अध्याय ६१
वैशम्पाय़न उवाच:
ततो वाहू समुच्छ्रित्य निवार्य च सभासदः |
५१ क
वैशम्पाय़न उवाच:
विदुरः सर्वधर्मज्ञ इदं वचनमव्रवीत् ||
५१ ख
विदुर उवाच:
द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत् |
५२ क
विदुर उवाच:
न च विव्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ||
५२ ख
विदुर उवाच:
सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट् |
५३ क
विदुर उवाच:
तं वै सत्येन धर्मेण सभ्याः प्रशमय़न्त्युत ||
५३ ख
विदुर उवाच:
धर्मप्रश्नमथो व्रूय़ादार्तः सभ्येषु मानवः |
५४ क
विदुर उवाच:
विव्रूय़ुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः ||
५४ ख
विदुर उवाच:
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः |
५५ क
विदुर उवाच:
भवन्तोऽपि हि तं प्रश्नं विव्रुवन्तु यथामति ||
५५ ख
विदुर उवाच:
यो हि प्रश्नं न विव्रूय़ाद्धर्मदर्शी सभां गतः |
५६ क
विदुर उवाच:
अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते ||
५६ ख
विदुर उवाच:
यः पुनर्वितथं व्रूय़ाद्धर्मदर्शी सभां गतः |
५७ क
विदुर उवाच:
अनृतस्य फलं कृत्स्नं सम्प्राप्नोतीति निश्चय़ः ||
५७ ख
विदुर उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
५८ क
विदुर उवाच:
प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च ||
५८ ख
विदुर उवाच:
प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः |
५९ क
विदुर उवाच:
कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् ||
५९ ख
विदुर उवाच:
अहं ज्याय़ानहं ज्याय़ानिति कन्येप्सय़ा तदा |
६० क
विदुर उवाच:
तय़ोर्देवनमत्रासीत्प्राणय़ोरिति नः श्रुतम् ||
६० ख
विदुर उवाच:
तय़ोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम् |
६१ क
विदुर उवाच:
ज्याय़ान्क आवय़ोरेकः प्रश्नं प्रव्रूहि मा मृषा ||
६१ ख
विदुर उवाच:
स वै विवदनाद्भीतः सुधन्वानं व्यलोकय़त् |
६२ क
विदुर उवाच:
तं सुधन्वाव्रवीत्क्रुद्धो व्रह्मदण्ड इव ज्वलन् ||
६२ ख
विदुर उवाच:
यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि |
६३ क
विदुर उवाच:
शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति ||
६३ ख
विदुर उवाच:
सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् |
६४ क
विदुर उवाच:
जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् ||
६४ ख
प्रह्लाद उवाच:
त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च |
६५ क
प्रह्लाद उवाच:
व्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु ||
६५ ख
प्रह्लाद उवाच:
यो वै प्रश्नं न विव्रूय़ाद्वितथं वापि निर्दिशेत् |
६६ क
प्रह्लाद उवाच:
के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः ||
६६ ख
कश्यप उवाच:
जानन्न विव्रुवन्प्रश्नं कामात्क्रोधात्तथा भय़ात् |
६७ क
कश्यप उवाच:
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ||
६७ ख
कश्यप उवाच:
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते |
६८ क
कश्यप उवाच:
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा ||
६८ ख
कश्यप उवाच:
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते |
६९ क
कश्यप उवाच:
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ||
६९ ख
कश्यप उवाच:
अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु |
७० क
कश्यप उवाच:
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ||
७० ख
कश्यप उवाच:
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः |
७१ क
कश्यप उवाच:
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ||
७१ ख
कश्यप उवाच:
वितथं तु वदेय़ुर्ये धर्मं प्रह्लाद पृच्छते |
७२ क
कश्यप उवाच:
इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् ||
७२ ख
कश्यप उवाच:
हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चापि यत् |
७३ क
कश्यप उवाच:
ऋणिनं प्रति यच्चैव राज्ञा ग्रस्तस्य चापि यत् ||
७३ ख
कश्यप उवाच:
स्त्रिय़ाः पत्या विहीनाय़ाः सार्थाद्भ्रष्टस्य चैव यत् |
७४ क
कश्यप उवाच:
अध्यूढाय़ाश्च यद्दुःखं साक्षिभिर्विहतस्य च ||
७४ ख
कश्यप उवाच:
एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः |
७५ क
कश्यप उवाच:
तानि सर्वाणि दुःखानि प्राप्नोति वितथं व्रुवन् ||
७५ ख
कश्यप उवाच:
समक्षदर्शनात्साक्ष्यं श्रवणाच्चेति धारणात् |
७६ क
कश्यप उवाच:
तस्मात्सत्यं व्रुवन्साक्षी धर्मार्थाभ्यां न हीय़ते ||
७६ ख
विदुर उवाच:
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमव्रवीत् |
७७ क
विदुर उवाच:
श्रेय़ान्सुधन्वा त्वत्तो वै मत्तः श्रेय़ांस्तथाङ्गिराः ||
७७ ख
विदुर उवाच:
माता सुधन्वनश्चापि श्रेय़सी मातृतस्तव |
७८ क
विदुर उवाच:
विरोचन सुधन्वाय़ं प्राणानामीश्वरस्तव ||
७८ ख
सुधन्वो उवाच:
पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः |
७९ क
सुधन्वो उवाच:
अनुजानामि ते पुत्रं जीवत्वेष शतं समाः ||
७९ ख
विदुर उवाच:
एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः |
८० क
विदुर उवाच:
यथाप्रश्नं तु कृष्णाय़ा मन्यध्वं तत्र किं परम् ||
८० ख
वैशम्पाय़न उवाच:
विदुरस्य वचः श्रुत्वा नोचुः किञ्चन पार्थिवाः |
८१ क
वैशम्पाय़न उवाच:
कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय़ ||
८१ ख
वैशम्पाय़न उवाच:
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् |
८२ क
वैशम्पाय़न उवाच:
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् ||
८२ ख