chevron_left सभा पर्व अध्याय ६१
भीम उवाच:
भवन्ति देशे वन्धक्यः कितवानां युधिष्ठिर |
१ क
भीम उवाच:
न ताभिरुत दीव्यन्ति दय़ा चैवास्ति तास्वपि ||
१ ख
भीम उवाच:
काश्यो यद्वलिमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् |
२ क
भीम उवाच:
तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन् ||
२ ख
भीम उवाच:
वाहनानि धनं चैव कवचान्याय़ुधानि च |
३ क
भीम उवाच:
राज्यमात्मा वय़ं चैव कैतवेन हृतं परैः ||
३ ख
भीम उवाच:
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् |
४ क
भीम उवाच:
इदं त्वतिकृतं मन्ये द्रौपदी यत्र पण्यते ||
४ ख
भीम उवाच:
एषा ह्यनर्हती वाला पाण्डवान्प्राप्य कौरवैः |
५ क
भीम उवाच:
त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रिय़ैः ||
५ ख
भीम उवाच:
अस्याः कृते मन्युरय़ं त्वय़ि राजन्निपात्यते |
६ क
भीम उवाच:
वाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानय़ ||
६ ख
अर्जुन उवाच:
न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः |
७ क
अर्जुन उवाच:
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् ||
७ ख
अर्जुन उवाच:
न सकामाः परे कार्या धर्ममेवाचरोत्तमम् |
८ क
अर्जुन उवाच:
भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुमर्हति ||
८ ख
अर्जुन उवाच:
आहूतो हि परै राजा क्षात्रधर्ममनुस्मरन् |
९ क
अर्जुन उवाच:
दीव्यते परकामेन तन्नः कीर्तिकरं महत् ||
९ ख
भीमसेन उवाच:
एवमस्मिकृतं विद्यां यद्यस्याहं धनञ्जय़ |
१० क
भीमसेन उवाच:
दीप्तेऽग्नौ सहितौ वाहू निर्दहेय़ं वलादिव ||
१० ख
वैशम्पाय़न उवाच:
तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः |
११ क
वैशम्पाय़न उवाच:
क्लिश्यमानां च पाञ्चालीं विकर्ण इदमव्रवीत् ||
११ ख
वैशम्पाय़न उवाच:
याज्ञसेन्या यदुक्तं तद्वाक्यं विव्रूत पार्थिवाः |
१२ क
वैशम्पाय़न उवाच:
अविवेकेन वाक्यस्य नरकः सद्य एव नः ||
१२ ख
वैशम्पाय़न उवाच:
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ |
१३ क
वैशम्पाय़न उवाच:
समेत्य नाहतुः किञ्चिद्विदुरश्च महामतिः ||
१३ ख
वैशम्पाय़न उवाच:
भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च |
१४ क
वैशम्पाय़न उवाच:
अत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ ||
१४ ख
वैशम्पाय़न उवाच:
ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः |
१५ क
वैशम्पाय़न उवाच:
कामक्रोधौ समुत्सृज्य ते व्रुवन्तु यथामति ||
१५ ख
वैशम्पाय़न उवाच:
यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा |
१६ क
वैशम्पाय़न उवाच:
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् ||
१६ ख
वैशम्पाय़न उवाच:
एवं स वहुशः सर्वानुक्तवांस्तान्सभासदः |
१७ क
वैशम्पाय़न उवाच:
न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा ||
१७ ख
वैशम्पाय़न उवाच:
उक्त्वा तथासकृत्सर्वान्विकर्णः पृथिवीपतीन् |
१८ क
वैशम्पाय़न उवाच:
पाणिं पाणौ विनिष्पिष्य निःश्वसन्निदमव्रवीत् ||
१८ ख
वैशम्पाय़न उवाच:
विव्रूत पृथिवीपाला वाक्यं मा वा कथञ्चन |
१९ क
वैशम्पाय़न उवाच:
मन्ये न्याय़्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः ||
१९ ख
वैशम्पाय़न उवाच:
चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् |
२० क
वैशम्पाय़न उवाच:
मृगय़ां पानमक्षांश्च ग्राम्ये चैवातिसक्तताम् ||
२० ख
वैशम्पाय़न उवाच:
एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते |
२१ क
वैशम्पाय़न उवाच:
तथाय़ुक्तेन च कृतां क्रिय़ां लोको न मन्यते ||
२१ ख
वैशम्पाय़न उवाच:
तदय़ं पाण्डुपुत्रेण व्यसने वर्तता भृशम् |
२२ क
वैशम्पाय़न उवाच:
समाहूतेन कितवैरास्थितो द्रौपदीपणः ||
२२ ख
वैशम्पाय़न उवाच:
साधारणी च सर्वेषां पाण्डवानामनिन्दिता |
२३ क
वैशम्पाय़न उवाच:
जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ||
२३ ख
वैशम्पाय़न उवाच:
इय़ं च कीर्तिता कृष्णा सौवलेन पणार्थिना |
२४ क
वैशम्पाय़न उवाच:
एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् ||
२४ ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत |
२५ क
वैशम्पाय़न उवाच:
विकर्णं शंसमानानां सौवलं च विनिन्दताम् ||
२५ ख
वैशम्पाय़न उवाच:
तस्मिन्नुपरते शव्दे राधेय़ः क्रोधमूर्छितः |
२६ क
वैशम्पाय़न उवाच:
प्रगृह्य रुचिरं वाहुमिदं वचनमव्रवीत् ||
२६ ख
वैशम्पाय़न उवाच:
दृश्यन्ते वै विकर्णे हि वैकृतानि वहून्यपि |
२७ क
वैशम्पाय़न उवाच:
तज्जस्तस्य विनाशाय़ यथाग्निररणिप्रजः ||
२७ ख
वैशम्पाय़न उवाच:
एते न किञ्चिदप्याहुश्चोद्यमानापि कृष्णय़ा |
२८ क
वैशम्पाय़न उवाच:
धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् ||
२८ ख
वैशम्पाय़न उवाच:
त्वं तु केवलवाल्येन धार्तराष्ट्र विदीर्यसे |
२९ क
वैशम्पाय़न उवाच:
यद्व्रवीषि सभामध्ये वालः स्थविरभाषितम् ||
२९ ख
वैशम्पाय़न उवाच:
न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर |
३० क
वैशम्पाय़न उवाच:
यद्व्रवीषि जितां कृष्णामजितेति सुमन्दधीः ||
३० ख
वैशम्पाय़न उवाच:
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज |
३१ क
वैशम्पाय़न उवाच:
यदा सभाय़ां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः ||
३१ ख
वैशम्पाय़न उवाच:
अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ |
३२ क
वैशम्पाय़न उवाच:
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् ||
३२ ख
वैशम्पाय़न उवाच:
कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः |
३३ क
वैशम्पाय़न उवाच:
भवत्यविजिता केन हेतुनैषा मता तव ||
३३ ख
वैशम्पाय़न उवाच:
मन्यसे वा सभामेतामानीतामेकवाससम् |
३४ क
वैशम्पाय़न उवाच:
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम् ||
३४ ख
वैशम्पाय़न उवाच:
एको भर्ता स्त्रिय़ा देवैर्विहितः कुरुनन्दन |
३५ क
वैशम्पाय़न उवाच:
इय़ं त्वनेकवशगा वन्धकीति विनिश्चिता ||
३५ ख
वैशम्पाय़न उवाच:
अस्याः सभामानय़नं न चित्रमिति मे मतिः |
३६ क
वैशम्पाय़न उवाच:
एकाम्वरधरत्वं वाप्यथ वापि विवस्त्रता ||
३६ ख
वैशम्पाय़न उवाच:
यच्चैषां द्रविणं किञ्चिद्या चैषा ये च पाण्डवाः |
३७ क
वैशम्पाय़न उवाच:
सौवलेनेह तत्सर्वं धर्मेण विजितं वसु ||
३७ ख
वैशम्पाय़न उवाच:
दुःशासन सुवालोऽय़ं विकर्णः प्राज्ञवादिकः |
३८ क
वैशम्पाय़न उवाच:
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर ||
३८ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत |
३९ क
वैशम्पाय़न उवाच:
अवकीर्योत्तरीय़ाणि सभाय़ां समुपाविशन् ||
३९ ख
वैशम्पाय़न उवाच:
ततो दुःशासनो राजन्द्रौपद्या वसनं वलात् |
४० क
वैशम्पाय़न उवाच:
सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे ||
४० ख
वैशम्पाय़न उवाच:
आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते |
४१ क
वैशम्पाय़न उवाच:
तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ||
४१ ख
वैशम्पाय़न उवाच:
ततो हलहलाशव्दस्तत्रासीद्घोरनिस्वनः |
४२ क
वैशम्पाय़न उवाच:
तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् ||
४२ ख
वैशम्पाय़न उवाच:
शशाप तत्र भीमस्तु राजमध्ये महास्वनः |
४३ क
वैशम्पाय़न उवाच:
क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम् ||
४३ ख
वैशम्पाय़न उवाच:
इदं मे वाक्यमादद्ध्वं क्षत्रिय़ा लोकवासिनः |
४४ क
वैशम्पाय़न उवाच:
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति ||
४४ ख
वैशम्पाय़न उवाच:
यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः |
४५ क
वैशम्पाय़न उवाच:
पितामहानां सर्वेषां नाहं गतिमवाप्नुय़ाम् ||
४५ ख
वैशम्पाय़न उवाच:
अस्य पापस्य दुर्जातेर्भारतापसदस्य च |
४६ क
वैशम्पाय़न उवाच:
न पिवेय़ं वलाद्वक्षो भित्त्वा चेद्रुधिरं युधि ||
४६ ख
वैशम्पाय़न उवाच:
तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम् |
४७ क
वैशम्पाय़न उवाच:
प्रचक्रुर्वहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ||
४७ ख
वैशम्पाय़न उवाच:
यदा तु वाससां राशिः सभामध्ये समाचितः |
४८ क
वैशम्पाय़न उवाच:
ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत् ||
४८ ख
वैशम्पाय़न उवाच:
धिक्षव्दस्तु ततस्तत्र समभूल्लोमहर्षणः |
४९ क
वैशम्पाय़न उवाच:
सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा ||
४९ ख
वैशम्पाय़न उवाच:
न विव्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह |
५० क
वैशम्पाय़न उवाच:
स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हय़न् ||
५० ख