वैशम्पाय़न उवाच:
आहूय़मानस्तु स तेन सङ्ख्ये; महामना धृतराष्ट्रस्य पुत्रः |
१ क
वैशम्पाय़न उवाच:
निवर्तितस्तस्य गिराङ्कुशेन; गजो यथा मत्त इवाङ्कुशेन ||
१ ख
वैशम्पाय़न उवाच:
सोऽमृष्यमाणो वचसाभिमृष्टो; महारथेनातिरथस्तरस्वी |
२ क
वैशम्पाय़न उवाच:
पर्याववर्ताथ रथेन वीरो; भोगी यथा पादतलाभिमृष्टः ||
२ ख
वैशम्पाय़न उवाच:
तं प्रेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्धगात्रः |
३ क
वैशम्पाय़न उवाच:
दुर्योधनं दक्षिणतोऽभ्यगच्छ; त्पार्थं नृवीरो युधि हेममाली ||
३ ख
वैशम्पाय़न उवाच:
भीष्मस्ततः शान्तनवो निवृत्य; हिरण्यकक्ष्यांस्त्वरय़ंस्तुरङ्गान् |
४ क
वैशम्पाय़न उवाच:
दुर्योधनं पश्चिमतोऽभ्यरक्ष; त्पार्थान्महावाहुरधिज्यधन्वा ||
४ ख
वैशम्पाय़न उवाच:
द्रोणः कृपश्चैव विविंशतिश्च; दुःशासनश्चैव निवृत्य शीघ्रम् |
५ क
वैशम्पाय़न उवाच:
सर्वे पुरस्ताद्विततेषुचापा; दुर्योधनार्थं त्वरिताभ्युपेय़ुः ||
५ ख
वैशम्पाय़न उवाच:
स तान्यनीकानि निवर्तमाना; न्यालोक्य पूर्णौघनिभानि पार्थः |
६ क
वैशम्पाय़न उवाच:
हंसो यथा मेघमिवापतन्तं; धनञ्जय़ः प्रत्यपतत्तरस्वी ||
६ ख
वैशम्पाय़न उवाच:
ते सर्वतः सम्परिवार्य पार्थ; मस्त्राणि दिव्यानि समाददानाः |
७ क
वैशम्पाय़न उवाच:
ववर्षुरभ्येत्य शरैः समन्ता; न्मेघा यथा भूधरमम्वुवेगैः ||
७ ख
वैशम्पाय़न उवाच:
ततोऽस्त्रमस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुङ्गवानाम् |
८ क
वैशम्पाय़न उवाच:
संमोहनं शत्रुसहोऽन्यदस्त्रं; प्रादुश्चकारैन्द्रिरपारणीय़म् ||
८ ख
वैशम्पाय़न उवाच:
ततो दिशश्चानुदिशो विवृत्य; शरैः सुधारैर्निशितैः सुपुङ्खैः |
९ क
वैशम्पाय़न उवाच:
गाण्डीवघोषेण मनांसि तेषां; महावलः प्रव्यथय़ां चकार ||
९ ख
वैशम्पाय़न उवाच:
ततः पुनर्भीमरवं प्रगृह्य; दोर्भ्यां महाशङ्खमुदारघोषम् |
१० क
वैशम्पाय़न उवाच:
व्यनादय़त्स प्रदिशो दिशः खं; भुवं च पार्थो द्विषतां निहन्ता ||
१० ख
वैशम्पाय़न उवाच:
ते शङ्खनादेन कुरुप्रवीराः; संमोहिताः पार्थसमीरितेन |
११ क
वैशम्पाय़न उवाच:
उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्तिपरा वभूवुः ||
११ ख
वैशम्पाय़न उवाच:
तथा विसञ्ज्ञेषु परेषु पार्थः; स्मृत्वा तु वाक्यानि तथोत्तराय़ाः |
१२ क
वैशम्पाय़न उवाच:
निर्याहि मध्यादिति मत्स्यपुत्र; मुवाच यावत्कुरवो विसञ्ज्ञाः ||
१२ ख
वैशम्पाय़न उवाच:
आचार्य शारद्वतय़ोः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम् |
१३ क
वैशम्पाय़न उवाच:
द्रौणेश्च राज्ञश्च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर ||
१३ ख
वैशम्पाय़न उवाच:
भीष्मस्य सञ्ज्ञां तु तथैव मन्ये; जानाति मेऽस्त्रप्रतिघातमेषः |
१४ क
वैशम्पाय़न उवाच:
एतस्य वाहान्कुरु सव्यतस्त्व; मेवं हि यातव्यममूढसञ्ज्ञैः ||
१४ ख
वैशम्पाय़न उवाच:
रश्मीन्समुत्सृज्य ततो महात्मा; रथादवप्लुत्य विराटपुत्रः |
१५ क
वैशम्पाय़न उवाच:
वस्त्राण्युपादाय़ महारथानां; तूर्णं पुनः स्वं रथमारुरोह ||
१५ ख
वैशम्पाय़न उवाच:
ततोऽन्वशासच्चतुरः सदश्वा; न्पुत्रो विराटस्य हिरण्यकक्ष्यान् |
१६ क
वैशम्पाय़न उवाच:
ते तद्व्यतीय़ुर्ध्वजिनामनीकं; श्वेता वहन्तोऽर्जुनमाजिमध्यात् ||
१६ ख
वैशम्पाय़न उवाच:
तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैरभ्यहनत्तरस्वी |
१७ क
वैशम्पाय़न उवाच:
स चापि भीष्मस्य हय़ान्निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः ||
१७ ख
वैशम्पाय़न उवाच:
ततोऽर्जुनो भीष्ममपास्य युद्धे; विद्ध्वास्य यन्तारमरिष्टधन्वा |
१८ क
वैशम्पाय़न उवाच:
तस्थौ विमुक्तो रथवृन्दमध्या; द्राहुं विदार्येव सहस्ररश्मिः ||
१८ ख
वैशम्पाय़न उवाच:
लव्ध्वा तु सञ्ज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम् |
१९ क
वैशम्पाय़न उवाच:
रणाद्विमुक्तं स्थितमेकमाजौ; स धार्तराष्ट्रस्त्वरितो वभाषे ||
१९ ख
वैशम्पाय़न उवाच:
अय़ं कथं स्विद्भवतां विमुक्त; स्तं वै प्रवध्नीत यथा न मुच्येत् |
२० क
वैशम्पाय़न उवाच:
तमव्रवीच्छान्तनवः प्रहस्य; क्व ते गता वुद्धिरभूत्क्व वीर्यम् ||
२० ख
वैशम्पाय़न उवाच:
शान्तिं पराश्वस्य यथा स्थितोऽभू; रुत्सृज्य वाणांश्च धनुश्च चित्रम् |
२१ क
वैशम्पाय़न उवाच:
न त्वेव वीभत्सुरलं नृशंसं; कर्तुं न पापेऽस्य मनो निविष्टम् ||
२१ ख
वैशम्पाय़न उवाच:
त्रैलोक्यहेतोर्न जहेत्स्वधर्मं; तस्मान्न सर्वे निहता रणेऽस्मिन् |
२२ क
वैशम्पाय़न उवाच:
क्षिप्रं कुरून्याहि कुरुप्रवीर; विजित्य गाश्च प्रतिय़ातु पार्थः ||
२२ ख
वैशम्पाय़न उवाच:
दुर्योधनस्तस्य तु तन्निशम्य; पितामहस्यात्महितं वचोऽथ |
२३ क
वैशम्पाय़न उवाच:
अतीतकामो युधि सोऽत्यमर्षी; राजा विनिःश्वस्य वभूव तूष्णीम् ||
२३ ख
वैशम्पाय़न उवाच:
तद्भीष्मवाक्यं हितमीक्ष्य सर्वे; धनञ्जय़ाग्निं च विवर्धमानम् |
२४ क
वैशम्पाय़न उवाच:
निवर्तनाय़ैव मनो निदध्यु; र्दुर्योधनं ते परिरक्षमाणाः ||
२४ ख
वैशम्पाय़न उवाच:
तान्प्रस्थितान्प्रीतमनाः स पार्थो; धनञ्जय़ः प्रेक्ष्य कुरुप्रवीरान् |
२५ क
वैशम्पाय़न उवाच:
आभाषमाणोऽनुय़यौ मुहूर्तं; सम्पूजय़ंस्तत्र गुरून्महात्मा ||
२५ ख
वैशम्पाय़न उवाच:
पितामहं शान्तनवं स वृद्धं; द्रोणं गुरुं च प्रतिपूज्य मूर्ध्ना |
२६ क
वैशम्पाय़न उवाच:
द्रौणिं कृपं चैव गुरूंश्च सर्वा; ञ्शरैर्विचित्रैरभिवाद्य चैव ||
२६ ख
वैशम्पाय़न उवाच:
दुर्योधनस्योत्तमरत्नचित्रं; चिच्छेद पार्थो मुकुटं शरेण |
२७ क
वैशम्पाय़न उवाच:
आमन्त्र्य वीरांश्च तथैव मान्या; न्गाण्डीवघोषेण विनाद्य लोकान् ||
२७ ख
वैशम्पाय़न उवाच:
स देवदत्तं सहसा विनाद्य; विदार्य वीरो द्विषतां मनांसि |
२८ क
वैशम्पाय़न उवाच:
ध्वजेन सर्वानभिभूय़ शत्रू; न्स हेमजालेन विराजमानः ||
२८ ख
वैशम्पाय़न उवाच:
दृष्ट्वा प्रय़ातांस्तु कुरून्किरीटी; हृष्टोऽव्रवीत्तत्र स मत्स्यपुत्रम् |
२९ क
वैशम्पाय़न उवाच:
आवर्तय़ाश्वान्पशवो जितास्ते; याताः परे याहि पुरं प्रहृष्टः ||
२९ ख