सञ्जय़ उवाच:
यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् |
१ क
सञ्जय़ उवाच:
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनय़ोधय़त् ||
१ ख
सञ्जय़ उवाच:
तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः |
२ क
सञ्जय़ उवाच:
विकुर्वाणा वृहन्तोऽश्वाः श्वसनोपमरंहसः ||
२ ख
सञ्जय़ उवाच:
गन्धर्वनगराकारं विधिवत्कल्पितं रथम् |
३ क
सञ्जय़ उवाच:
तस्याभ्यशोभय़त्केतुर्वाराहो राजतो महान् ||
३ ख
सञ्जय़ उवाच:
श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च |
४ क
सञ्जय़ उवाच:
स वभौ राजलिङ्गैस्तैस्तारापतिरिवाम्वरे ||
४ ख
सञ्जय़ उवाच:
मुक्तावज्रमणिस्वर्णैर्भूषितं तदय़स्मय़म् |
५ क
सञ्जय़ उवाच:
वरूथं विवभौ तस्य ज्योतिर्भिः खमिवावृतम् ||
५ ख
सञ्जय़ उवाच:
स विस्फार्य महच्चापं किरन्निषुगणान्वहून् |
६ क
सञ्जय़ उवाच:
तत्खण्डं पूरय़ामास यद्व्यदारय़दार्जुनिः ||
६ ख
सञ्जय़ उवाच:
स सात्यकिं त्रिभिर्वाणैरष्टभिश्च वृकोदरम् |
७ क
सञ्जय़ उवाच:
धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः ||
७ ख
सञ्जय़ उवाच:
द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम् |
८ क
सञ्जय़ उवाच:
केकय़ान्पञ्चविंशत्या द्रौपदेय़ांस्त्रिभिस्त्रिभिः ||
८ ख
सञ्जय़ उवाच:
युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत् |
९ क
सञ्जय़ उवाच:
इषुजालेन महता तदद्भुतमिवाभवत् ||
९ ख
सञ्जय़ उवाच:
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् |
१० क
सञ्जय़ उवाच:
चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् ||
१० ख
सञ्जय़ उवाच:
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय़ कार्मुकम् |
११ क
सञ्जय़ उवाच:
विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः ||
११ ख
सञ्जय़ उवाच:
तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः |
१२ क
सञ्जय़ उवाच:
धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातय़त् ||
१२ ख
सञ्जय़ उवाच:
सोऽन्यदादाय़ वलवान्सज्यं कृत्वा च कार्मुकम् |
१३ क
सञ्जय़ उवाच:
भीमस्यापोथय़त्केतुं धनुरश्वांश्च मारिष ||
१३ ख
सञ्जय़ उवाच:
स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात् |
१४ क
सञ्जय़ उवाच:
सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी ||
१४ ख
सञ्जय़ उवाच:
ततस्त्वदीय़ाः संहृष्टाः साधु साध्विति चुक्रुशुः |
१५ क
सञ्जय़ उवाच:
सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेय़मुत्तमम् ||
१५ ख
सञ्जय़ उवाच:
सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा |
१६ क
सञ्जय़ उवाच:
तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजय़न् ||
१६ ख
सञ्जय़ उवाच:
सौभद्रेण हतैः पूर्वं सोत्तराय़ुधिभिर्द्विपैः |
१७ क
सञ्जय़ उवाच:
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ||
१७ ख
सञ्जय़ उवाच:
यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकय़ाः |
१८ क
सञ्जय़ उवाच:
पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् ||
१८ ख
सञ्जय़ उवाच:
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः |
१९ क
सञ्जय़ उवाच:
तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारय़त् ||
१९ ख