chevron_left कर्ण पर्व अध्याय ६१
सञ्जय़ उवाच:
तत्राकरोद्दुष्करं राजपुत्रो; दुःशासनस्तुमुले युध्यमानः |
१ क
सञ्जय़ उवाच:
चिच्छेद भीमस्य धनुः क्षुरेण; षड्भिः शरैः सारथिमप्यविध्यत् ||
१ ख
सञ्जय़ उवाच:
ततोऽभिनद्वहुभिः क्षिप्रमेव; वरेषुभिर्भीमसेनं महात्मा |
२ क
सञ्जय़ उवाच:
स विक्षरन्नाग इव प्रभिन्नो; गदामस्मै तुमुले प्राहिणोद्वै ||
२ ख
सञ्जय़ उवाच:
तय़ाहरद्दश धन्वन्तराणि; दुःशासनं भीमसेनः प्रसह्य |
३ क
सञ्जय़ उवाच:
तय़ा हतः पतितो वेपमानो; दुःशासनो गदय़ा वेगवत्या ||
३ ख
सञ्जय़ उवाच:
हय़ाः ससूताश्च हता नरेन्द्र; चूर्णीकृतश्चास्य रथः पतन्त्या |
४ क
सञ्जय़ उवाच:
विध्वस्तवर्माभरणाम्वरस्र; ग्विचेष्टमानो भृशवेदनार्तः ||
४ ख
सञ्जय़ उवाच:
ततः स्मृत्वा भीमसेनस्तरस्वी; सापत्नकं यत्प्रय़ुक्तं सुतैस्ते |
५ क
सञ्जय़ उवाच:
रथादवप्लुत्य गतः स भूमौ; यत्नेन तस्मिन्प्रणिधाय़ चक्षुः ||
५ ख
सञ्जय़ उवाच:
असिं समुद्धृत्य शितं सुधारं; कण्ठे समाक्रम्य च वेपमानम् |
६ क
सञ्जय़ उवाच:
उत्कृत्य वक्षः पतितस्य भूमा; वथापिवच्छोणितमस्य कोष्णम् |
६ ख
सञ्जय़ उवाच:
आस्वाद्य चास्वाद्य च वीक्षमाणः; क्रुद्धोऽतिवेलं प्रजगाद वाक्यम् ||
६ ग
सञ्जय़ उवाच:
स्तन्यस्य मातुर्मधुसर्पिषो वा; माध्वीकपानस्य च सत्कृतस्य |
७ क
सञ्जय़ उवाच:
दिव्यस्य वा तोय़रसस्य पाना; त्पय़ोदधिभ्यां मथिताच्च मुख्यात् |
७ ख
सञ्जय़ उवाच:
सर्वेभ्य एवाभ्यधिको रसोऽय़ं; मतो ममाद्याहितलोहितस्य ||
७ ग
सञ्जय़ उवाच:
एवं व्रुवाणं पुनराद्रवन्त; मास्वाद्य वल्गन्तमतिप्रहृष्टम् |
८ क
सञ्जय़ उवाच:
ये भीमसेनं ददृशुस्तदानीं; भय़ेन तेऽपि व्यथिता निपेतुः ||
८ ख
सञ्जय़ उवाच:
ये चापि तत्रापतिता मनुष्या; स्तेषां करेभ्यः पतितं च शस्त्रम् |
९ क
सञ्जय़ उवाच:
भय़ाच्च सञ्चुक्रुशुरुच्चकैस्ते; निमीलिताक्षा ददृशुश्च तन्न ||
९ ख
सञ्जय़ उवाच:
ये तत्र भीमं ददृशुः समन्ता; द्दौःशासनं तद्रुधिरं पिवन्तम् |
१० क
सञ्जय़ उवाच:
सर्वे पलाय़न्त भय़ाभिपन्ना; नाय़ं मनुष्य इति भाषमाणाः ||
१० ख
सञ्जय़ उवाच:
शृण्वतां लोकवीराणामिदं वचनमव्रवीत् |
११ क
सञ्जय़ उवाच:
एष ते रुधिरं कण्ठात्पिवामि पुरुषाधम |
११ ख
सञ्जय़ उवाच:
व्रूहीदानीं सुसंरव्धः पुनर्गौरिति गौरिति ||
११ ग
सञ्जय़ उवाच:
प्रमाणकोट्यां शय़नं कालकूटस्य भोजनम् |
१२ क
सञ्जय़ उवाच:
दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि ||
१२ ख
सञ्जय़ उवाच:
द्यूतेन राज्यहरणमरण्ये वसतिश्च या |
१३ क
सञ्जय़ उवाच:
इष्वस्त्राणि च सङ्ग्रामेष्वसुखानि च वेश्मनि ||
१३ ख
सञ्जय़ उवाच:
दुःखान्येतानि जानीमो न सुखानि कदाचन |
१४ क
सञ्जय़ उवाच:
धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वय़म् ||
१४ ख
सञ्जय़ उवाच:
इत्युक्त्वा वचनं राजञ्जय़ं प्राप्य वृकोदरः |
१५ क
सञ्जय़ उवाच:
पुनराह महाराज स्मय़ंस्तौ केशवार्जुनौ ||
१५ ख
सञ्जय़ उवाच:
दुःशासने यद्रणे संश्रुतं मे; तद्वै सर्वं कृतमद्येह वीरौ |
१६ क
सञ्जय़ उवाच:
अद्यैव दास्याम्यपरं द्वितीय़ं; दुर्योधनं यज्ञपशुं विशस्य |
१६ ख
सञ्जय़ उवाच:
शिरो मृदित्वा च पदा दुरात्मनः; शान्तिं लप्स्ये कौरवाणां समक्षम् ||
१६ ग
सञ्जय़ उवाच:
एतावदुक्त्वा वचनं प्रहृष्टो; ननाद चोच्चै रुधिरार्द्रगात्रः |
१७ क
सञ्जय़ उवाच:
ननर्त चैवातिवलो महात्मा; वृत्रं निहत्येव सहस्रनेत्रः ||
१७ ख