सञ्जय़ उवाच:
ततस्ते प्रय़युः सर्वे निवासाय़ महीक्षितः |
१ क
सञ्जय़ उवाच:
शङ्खान्प्रध्मापय़न्तो वै हृष्टाः परिघवाहवः ||
१ ख
सञ्जय़ उवाच:
पाण्डवान्गच्छतश्चापि शिविरं नो विशां पते |
२ क
सञ्जय़ उवाच:
महेष्वासोऽन्वगात्पश्चाद्युय़ुत्सुः सात्यकिस्तथा ||
२ ख
सञ्जय़ उवाच:
धृष्टद्युम्नः शिखण्डी च द्रौपदेय़ाश्च सर्वशः |
३ क
सञ्जय़ उवाच:
सर्वे चान्ये महेष्वासा यय़ुः स्वशिविराण्युत ||
३ ख
सञ्जय़ उवाच:
ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम् |
४ क
सञ्जय़ उवाच:
दुर्योधनस्य शिविरं रङ्गवद्विसृते जने ||
४ ख
सञ्जय़ उवाच:
गतोत्सवं पुरमिव हृतनागमिव ह्रदम् |
५ क
सञ्जय़ उवाच:
स्त्रीवर्षवरभूय़िष्ठं वृद्धामात्यैरधिष्ठितम् ||
५ ख
सञ्जय़ उवाच:
तत्रैतान्पर्युपातिष्ठन्दुर्योधनपुरःसराः |
६ क
सञ्जय़ उवाच:
कृताञ्जलिपुटा राजन्काषाय़मलिनाम्वराः ||
६ ख
सञ्जय़ उवाच:
शिविरं समनुप्राप्य कुरुराजस्य पाण्डवाः |
७ क
सञ्जय़ उवाच:
अवतेरुर्महाराज रथेभ्यो रथसत्तमाः ||
७ ख
सञ्जय़ उवाच:
ततो गाण्डीवधन्वानमभ्यभाषत केशवः |
८ क
सञ्जय़ उवाच:
स्थितः प्रिय़हिते नित्यमतीव भरतर्षभ ||
८ ख
सञ्जय़ उवाच:
अवरोपय़ गाण्डीवमक्षय़्यौ च महेषुधी |
९ क
सञ्जय़ उवाच:
अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम ||
९ ख
सञ्जय़ उवाच:
स्वय़ं चैवावरोह त्वमेतच्छ्रेय़स्तवानघ |
१० क
सञ्जय़ उवाच:
तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनञ्जय़ः ||
१० ख
सञ्जय़ उवाच:
अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम् |
११ क
सञ्जय़ उवाच:
अवारोहत मेधावी रथाद्गाण्डीवधन्वनः ||
११ ख
सञ्जय़ उवाच:
अथावतीर्णे भूतानामीश्वरे सुमहात्मनि |
१२ क
सञ्जय़ उवाच:
कपिरन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः ||
१२ ख
सञ्जय़ उवाच:
स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः |
१३ क
सञ्जय़ उवाच:
अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते ||
१३ ख
सञ्जय़ उवाच:
सोपासङ्गः सरश्मिश्च साश्वः सय़ुगवन्धुरः |
१४ क
सञ्जय़ उवाच:
भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः ||
१४ ख
सञ्जय़ उवाच:
तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो |
१५ क
सञ्जय़ उवाच:
अभवन्विस्मिता राजन्नर्जुनश्चेदमव्रवीत् ||
१५ ख
सञ्जय़ उवाच:
कृताञ्जलिः सप्रणय़ं प्रणिपत्याभिवाद्य च |
१६ क
सञ्जय़ उवाच:
गोविन्द कस्माद्भगवन्रथो दग्धोऽय़मग्निना ||
१६ ख
सञ्जय़ उवाच:
किमेतन्महदाश्चर्यमभवद्यदुनन्दन |
१७ क
सञ्जय़ उवाच:
तन्मे व्रूहि महावाहो श्रोतव्यं यदि मन्यसे ||
१७ ख
वासुदेव उवाच:
अस्त्रैर्वहुविधैर्दग्धः पूर्वमेवाय़मर्जुन |
१८ क
वासुदेव उवाच:
मदधिष्ठितत्वात्समरे न विशीर्णः परन्तप ||
१८ ख
वासुदेव उवाच:
इदानीं तु विशीर्णोऽय़ं दग्धो व्रह्मास्त्रतेजसा |
१९ क
वासुदेव उवाच:
मय़ा विमुक्तः कौन्तेय़ त्वय़्यद्य कृतकर्मणि ||
१९ ख
सञ्जय़ उवाच:
ईषदुत्स्मय़मानश्च भगवान्केशवोऽरिहा |
२० क
सञ्जय़ उवाच:
परिष्वज्य च राजानं युधिष्ठिरमभाषत ||
२० ख
सञ्जय़ उवाच:
दिष्ट्या जय़सि कौन्तेय़ दिष्ट्या ते शत्रवो जिताः |
२१ क
सञ्जय़ उवाच:
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः ||
२१ ख
सञ्जय़ उवाच:
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ |
२२ क
सञ्जय़ उवाच:
मुक्ता वीरक्षय़ादस्मात्सङ्ग्रामान्निहतद्विषः |
२२ ख
सञ्जय़ उवाच:
क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत ||
२२ ग
सञ्जय़ उवाच:
उपय़ातमुपप्लव्यं सह गाण्डीवधन्वना |
२३ क
सञ्जय़ उवाच:
आनीय़ मधुपर्कं मां यत्पुरा त्वमवोचथाः ||
२३ ख
सञ्जय़ उवाच:
एष भ्राता सखा चैव तव कृष्ण धनञ्जय़ः |
२४ क
सञ्जय़ उवाच:
रक्षितव्यो महावाहो सर्वास्वापत्स्विति प्रभो |
२४ ख
सञ्जय़ उवाच:
तव चैवं व्रुवाणस्य तथेत्येवाहमव्रुवम् ||
२४ ग
सञ्जय़ उवाच:
स सव्यसाची गुप्तस्ते विजय़ी च नरेश्वर |
२५ क
सञ्जय़ उवाच:
भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः |
२५ ख
सञ्जय़ उवाच:
मुक्तो वीरक्षय़ादस्मात्सङ्ग्रामाद्रोमहर्षणात् ||
२५ ग
सञ्जय़ उवाच:
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः |
२६ क
सञ्जय़ उवाच:
हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् ||
२६ ख
सञ्जय़ उवाच:
प्रमुक्तं द्रोणकर्णाभ्यां व्रह्मास्त्रमरिमर्दन |
२७ क
सञ्जय़ उवाच:
कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरन्दरः ||
२७ ख
सञ्जय़ उवाच:
भवतस्तु प्रसादेन सङ्ग्रामे वहवो जिताः |
२८ क
सञ्जय़ उवाच:
महारणगतः पार्थो यच्च नासीत्पराङ्मुखः ||
२८ ख
सञ्जय़ उवाच:
तथैव च महावाहो पर्याय़ैर्वहुभिर्मय़ा |
२९ क
सञ्जय़ उवाच:
कर्मणामनुसन्तानं तेजसश्च गतिः शुभा ||
२९ ख
सञ्जय़ उवाच:
उपप्लव्ये महर्षिर्मे कृष्णद्वैपाय़नोऽव्रवीत् |
३० क
सञ्जय़ उवाच:
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जय़ः ||
३० ख
सञ्जय़ उवाच:
इत्येवमुक्ते ते वीराः शिविरं तव भारत |
३१ क
सञ्जय़ उवाच:
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्द्धिसञ्चय़ान् ||
३१ ख
सञ्जय़ उवाच:
रजतं जातरूपं च मणीनथ च मौक्तिकान् |
३२ क
सञ्जय़ उवाच:
भूषणान्यथ मुख्यानि कम्वलान्यजिनानि च |
३२ ख
सञ्जय़ उवाच:
दासीदासमसङ्ख्येय़ं राज्योपकरणानि च ||
३२ ग
सञ्जय़ उवाच:
ते प्राप्य धनमक्षय़्यं त्वदीय़ं भरतर्षभ |
३३ क
सञ्जय़ उवाच:
उदक्रोशन्महेष्वासा नरेन्द्र विजितारय़ः ||
३३ ख
सञ्जय़ उवाच:
ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च |
३४ क
सञ्जय़ उवाच:
अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस्तथा ||
३४ ख
सञ्जय़ उवाच:
अथाव्रवीन्महाराज वासुदेवो महाय़शाः |
३५ क
सञ्जय़ उवाच:
अस्माभिर्मङ्गलार्थाय़ वस्तव्यं शिविराद्वहिः ||
३५ ख
सञ्जय़ उवाच:
तथेत्युक्त्वा च ते सर्वे पाण्डवाः सात्यकिस्तथा |
३६ क
सञ्जय़ उवाच:
वासुदेवेन सहिता मङ्गलार्थं यय़ुर्वहिः ||
३६ ख
सञ्जय़ उवाच:
ते समासाद्य सरितं पुण्यामोघवतीं नृप |
३७ क
सञ्जय़ उवाच:
न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः ||
३७ ख
सञ्जय़ उवाच:
ततः सम्प्रेषय़ामासुर्यादवं नागसाह्वय़म् |
३८ क
सञ्जय़ उवाच:
स च प्राय़ाज्जवेनाशु वासुदेवः प्रतापवान् |
३८ ख
सञ्जय़ उवाच:
दारुकं रथमारोप्य येन राजाम्विकासुतः ||
३८ ग
सञ्जय़ उवाच:
तमूचुः सम्प्रय़ास्यन्तं सैन्यसुग्रीववाहनम् |
३९ क
सञ्जय़ उवाच:
प्रत्याश्वासय़ गान्धारीं हतपुत्रां यशस्विनीम् ||
३९ ख
सञ्जय़ उवाच:
स प्राय़ात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः |
४० क
सञ्जय़ उवाच:
आससादय़िषुः क्षिप्रं गान्धारीं निहतात्मजाम् ||
४० ख