सञ्जय़ उवाच:
स चापि देवावृधसूनुरर्दितः; पपात नुन्नः सहदेवसूनुना ||
४९ ख
सञ्जय़ उवाच:
विषाणपोत्रापरगात्रघातिना; गजेन हन्तुं शकुनेः कुणिन्दजः |
५० क
सञ्जय़ उवाच:
जगाम वेगेन भृशार्दय़ंश्च तं; ततोऽस्य गान्धारपतिः शिरोऽहरत् ||
५० ख
सञ्जय़ उवाच:
ततः शतानीकहता महागजा; हय़ा रथाः पत्तिगणाश्च तावकाः |
५१ क
सञ्जय़ उवाच:
सुपर्णवातप्रहता यथा नगा; स्तथा गता गामवशा विचूर्णिताः ||
५१ ख
सञ्जय़ उवाच:
ततोऽभ्यविध्यद्वहुभिः शितैः शरैः; कुणिन्दपुत्रो नकुलात्मजं स्मय़न् |
५२ क
सञ्जय़ उवाच:
ततोऽस्य काय़ान्निचकर्त नाकुलिः; शिरः क्षुरेणाम्वुजसंनिभाननम् ||
५२ ख
सञ्जय़ उवाच:
ततः शतानीकमविध्यदाशुगै; स्त्रिभिः शितैः कर्णसुतोऽर्जुनं त्रिभिः |
५३ क
सञ्जय़ उवाच:
त्रिभिश्च भीमं नकुलं च सप्तभि; र्जनार्दनं द्वादशभिश्च साय़कैः ||
५३ ख
सञ्जय़ उवाच:
तदस्य कर्मातिमनुष्यकर्मणः; समीक्ष्य हृष्टाः कुरवोऽभ्यपूजय़न् |
५४ क
सञ्जय़ उवाच:
पराक्रमज्ञास्तु धनञ्जय़स्य ते; हुतोऽय़मग्नाविति तं तु मेनिरे ||
५४ ख
सञ्जय़ उवाच:
ततः किरीटी परवीरघाती; हताश्वमालोक्य नरप्रवीरम् |
५५ क
सञ्जय़ उवाच:
तमभ्यधावद्वृषसेनमाहवे; स सूतजस्य प्रमुखे स्थितं तदा ||
५५ ख
सञ्जय़ उवाच:
तमापतन्तं नरवीरमुग्रं; महाहवे वाणसहस्रधारिणम् |
५६ क
सञ्जय़ उवाच:
अभ्यापतत्कर्णसुतो महारथो; यथैव चेन्द्रं नमुचिः पुरातने ||
५६ ख
सञ्जय़ उवाच:
ततोऽद्भुतेनैकशतेन पार्थं; शरैर्विद्ध्वा सूतपुत्रस्य पुत्रः |
५७ क
सञ्जय़ उवाच:
ननाद नादं सुमहानुभावो; विद्ध्वेव शक्रं नमुचिः पुरा वै ||
५७ ख
सञ्जय़ उवाच:
पुनः स पार्थं वृषसेन उग्रै; र्वाणैरविध्यद्भुजमूलमध्ये |
५८ क
सञ्जय़ उवाच:
तथैव कृष्णं नवभिः समार्दय़; त्पुनश्च पार्थं दशभिः शिताग्रैः ||
५८ ख
सञ्जय़ उवाच:
ततः किरीटी रणमूर्ध्नि कोपा; त्कृत्वा त्रिशाखां भ्रुकुटिं ललाटे |
५९ क
सञ्जय़ उवाच:
मुमोच वाणान्विशिखान्महात्मा; वधाय़ राजन्सूतपुत्रस्य सङ्ख्ये ||
५९ ख
सञ्जय़ उवाच:
विव्याध चैनं दशभिः पृषत्कै; र्मर्मस्वसक्तं प्रसभं किरीटी |
६० क
सञ्जय़ उवाच:
चिच्छेद चास्येष्वसनं भुजौ च; क्षुरैश्चतुर्भिः शिर एव चोग्रैः ||
६० ख
सञ्जय़ उवाच:
स पार्थवाणाभिहतः पपात; रथाद्विवाहुर्विशिरा धराय़ाम् |
६१ क
सञ्जय़ उवाच:
सुपुष्पितः पर्णधरोऽतिकाय़ो; वातेरितः शाल इवाद्रिशृङ्गात् ||
६१ ख
सञ्जय़ उवाच:
तं प्रेक्ष्य वाणाभिहतं पतन्तं; रथात्सुतं सूतजः क्षिप्रकारी |
६२ क
सञ्जय़ उवाच:
रथं रथेनाशु जगाम वेगा; त्किरीटिनः पुत्रवधाभितप्तः ||
६२ ख