chevron_left अनुशासन पर्व अध्याय ६२
युधिष्ठिर उवाच:
कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः |
१ क
युधिष्ठिर उवाच:
गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम ||
१ ख
युधिष्ठिर उवाच:
केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत |
२ क
युधिष्ठिर उवाच:
शंस मे तन्महावाहो फलं पुण्यकृतं महत् ||
२ ख
युधिष्ठिर उवाच:
दत्तं किं फलवद्राजन्निह लोके परत्र च |
३ क
युधिष्ठिर उवाच:
भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद ||
३ ख
भीष्म उवाच:
इममर्थं पुरा पृष्टो नारदो देवदर्शनः |
४ क
भीष्म उवाच:
यदुक्तवानसौ तन्मे गदतः शृणु भारत ||
४ ख
नारद उवाच:
अन्नमेव प्रशंसन्ति देवाः सर्षिगणाः पुरा |
५ क
नारद उवाच:
लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम् ||
५ ख
नारद उवाच:
अन्नेन सदृशं दानं न भूतं न भविष्यति |
६ क
नारद उवाच:
तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ||
६ ख
नारद उवाच:
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः |
७ क
नारद उवाच:
अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो ||
७ ख
नारद उवाच:
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च |
८ क
नारद उवाच:
अन्नात्प्रभवति प्राणः प्रत्यक्षं नात्र संशय़ः ||
८ ख
नारद उवाच:
कुटुम्वं पीडय़ित्वापि व्राह्मणाय़ महात्मने |
९ क
नारद उवाच:
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ||
९ ख
नारद उवाच:
व्राह्मणाय़ाभिरूपाय़ यो दद्यादन्नमर्थिने |
१० क
नारद उवाच:
निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ||
१० ख
नारद उवाच:
श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम् |
११ क
नारद उवाच:
अर्चय़ेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम् ||
११ ख
नारद उवाच:
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः |
१२ क
नारद उवाच:
अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम् ||
१२ ख
नारद उवाच:
नावमन्येदभिगतं न प्रणुद्यात्कथञ्चन |
१३ क
नारद उवाच:
अपि श्वपाके शुनि वा न दानं विप्रणश्यति ||
१३ ख
नारद उवाच:
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते |
१४ क
नारद उवाच:
श्रान्ताय़ादृष्टपूर्वाय़ स महद्धर्ममाप्नुय़ात् ||
१४ ख
नारद उवाच:
पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप |
१५ क
नारद उवाच:
यो नरः प्रीणय़त्यन्नैस्तस्य पुण्यफलं महत् ||
१५ ख
नारद उवाच:
कृत्वापि पापकं कर्म यो दद्यादन्नमर्थिने |
१६ क
नारद उवाच:
व्राह्मणाय़ विशेषेण न स पापेन युज्यते ||
१६ ख
नारद उवाच:
व्राह्मणेष्वक्षय़ं दानमन्नं शूद्रे महाफलम् |
१७ क
नारद उवाच:
अन्नदानं च शूद्रे च व्राह्मणे च विशिष्यते ||
१७ ख
नारद उवाच:
न पृच्छेद्गोत्रचरणं स्वाध्याय़ं देशमेव वा |
१८ क
नारद उवाच:
भिक्षितो व्राह्मणेनेह जन्म वान्नं प्रय़ाचितः ||
१८ ख
नारद उवाच:
अन्नदस्यान्नवृक्षाश्च सर्वकामफलान्विताः |
१९ क
नारद उवाच:
भवन्तीहाथ वामुत्र नृपते नात्र संशय़ः ||
१९ ख
नारद उवाच:
आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः |
२० क
नारद उवाच:
अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ||
२० ख
नारद उवाच:
व्राह्मणो हि महद्भूतं स्वय़ं देहीति याचते |
२१ क
नारद उवाच:
अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुय़ात् ||
२१ ख
नारद उवाच:
व्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक् |
२२ क
नारद उवाच:
विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा ||
२२ ख
नारद उवाच:
सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते |
२३ क
नारद उवाच:
महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत ||
२३ ख
नारद उवाच:
दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम् |
२४ क
नारद उवाच:
मृष्टमृष्टान्नदाय़ी तु स्वर्गे वसति सत्कृतः ||
२४ ख
नारद उवाच:
अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम् |
२५ क
नारद उवाच:
अन्नदः पशुमान्पुत्री धनवान्भोगवानपि ||
२५ ख
नारद उवाच:
प्राणवांश्चापि भवति रूपवांश्च तथा नृप |
२६ क
नारद उवाच:
अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः ||
२६ ख
नारद उवाच:
अन्नं हि दत्त्वातिथय़े व्राह्मणाय़ यथाविधि |
२७ क
नारद उवाच:
प्रदाता सुखमाप्नोति देवैश्चाप्यभिपूज्यते ||
२७ ख
नारद उवाच:
व्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत् |
२८ क
नारद उवाच:
उप्यते तत्र यद्वीजं तद्धि पुण्यफलं महत् ||
२८ ख
नारद उवाच:
प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर्भवत्युत |
२९ क
नारद उवाच:
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ||
२९ ख
नारद उवाच:
अन्नाद्धि प्रसवं विद्धि रतिमन्नाद्धि भारत |
३० क
नारद उवाच:
धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः ||
३० ख
नारद उवाच:
अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः |
३१ क
नारद उवाच:
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् ||
३१ ख
नारद उवाच:
अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः |
३२ क
नारद उवाच:
वलं वलवतोऽपीह प्रणश्यत्यन्नहानितः ||
३२ ख
नारद उवाच:
आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा |
३३ क
नारद उवाच:
न वर्तन्ते नरश्रेष्ठ व्रह्म चात्र प्रलीय़ते ||
३३ ख
नारद उवाच:
अन्नतः सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमम् |
३४ क
नारद उवाच:
त्रिषु लोकेषु धर्मार्थमन्नं देय़मतो वुधैः ||
३४ ख
नारद उवाच:
अन्नदस्य मनुष्यस्य वलमोजो यशः सुखम् |
३५ क
नारद उवाच:
कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव ||
३५ ख
नारद उवाच:
मेघेष्वम्भः संनिधत्ते प्राणानां पवनः शिवः |
३६ क
नारद उवाच:
तच्च मेघगतं वारि शक्रो वर्षति भारत ||
३६ ख
नारद उवाच:
आदत्ते च रसं भौममादित्यः स्वगभस्तिभिः |
३७ क
नारद उवाच:
वाय़ुरादित्यतस्तांश्च रसान्देवः प्रजापतिः ||
३७ ख
नारद उवाच:
तद्यदा मेघतो वारि पतितं भवति क्षितौ |
३८ क
नारद उवाच:
तदा वसुमती देवी स्निग्धा भवति भारत ||
३८ ख
नारद उवाच:
ततः सस्यानि रोहन्ति येन वर्तय़ते जगत् |
३९ क
नारद उवाच:
मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ||
३९ ख
नारद उवाच:
सम्भवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते |
४० क
नारद उवाच:
अग्नीषोमौ हि तच्छुक्रं प्रजनः पुष्यतश्च ह ||
४० ख
नारद उवाच:
एवमन्नं च सूर्यश्च पवनः शुक्रमेव च |
४१ क
नारद उवाच:
एक एव स्मृतो राशिर्यतो भूतानि जज्ञिरे ||
४१ ख
नारद उवाच:
प्राणान्ददाति भूतानां तेजश्च भरतर्षभ |
४२ क
नारद उवाच:
गृहमभ्यागताय़ाशु यो दद्यादन्नमर्थिने ||
४२ ख
भीष्म उवाच:
नारदेनैवमुक्तोऽहमदामन्नं सदा नृप |
४३ क
भीष्म उवाच:
अनसूय़ुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः ||
४३ ख
भीष्म उवाच:
दत्त्वान्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो |
४४ क
भीष्म उवाच:
यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि ||
४४ ख
भीष्म उवाच:
अन्नदानां हि ये लोकास्तांस्त्वं शृणु नराधिप |
४५ क
भीष्म उवाच:
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् |
४५ ख
भीष्म उवाच:
नानासंस्थानरूपाणि नानास्तम्भान्वितानि च ||
४५ ग
भीष्म उवाच:
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च |
४६ क
भीष्म उवाच:
तरुणादित्यवर्णानि स्थावराणि चराणि च ||
४६ ख
भीष्म उवाच:
अनेकशतभौमानि सान्तर्जलवनानि च |
४७ क
भीष्म उवाच:
वैडूर्यार्कप्रकाशानि रौप्यरुक्ममय़ानि च ||
४७ ख
भीष्म उवाच:
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः |
४८ क
भीष्म उवाच:
वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः ||
४८ ख
भीष्म उवाच:
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः |
४९ क
भीष्म उवाच:
भक्ष्यभोज्यमय़ाः शैला वासांस्याभरणानि च ||
४९ ख
भीष्म उवाच:
क्षीरं स्रवन्त्यः सरितस्तथा चैवान्नपर्वताः |
५० क