जनमेजय़ उवाच:
श्रुत्वैतद्वचनं व्रह्मन्व्यासेनोक्तं महात्मना |
१ क
जनमेजय़ उवाच:
अश्वमेधं प्रति तदा किं नृपः प्रचकार ह ||
१ ख
जनमेजय़ उवाच:
रत्नं च यन्मरुत्तेन निहितं पृथिवीतले |
२ क
जनमेजय़ उवाच:
तदवाप कथं चेति तन्मे व्रूहि द्विजोत्तम ||
२ ख
वैशम्पाय़न उवाच:
श्रुत्वा द्वैपाय़नवचो धर्मराजो युधिष्ठिरः |
३ क
वैशम्पाय़न उवाच:
भ्रातॄन्सर्वान्समानाय़्य काले वचनमव्रवीत् |
३ ख
वैशम्पाय़न उवाच:
अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि ||
३ ग
वैशम्पाय़न उवाच:
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना |
४ क
वैशम्पाय़न उवाच:
कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता ||
४ ख
वैशम्पाय़न उवाच:
तपोवृद्धेन महता सुहृदां भूतिमिच्छता |
५ क
वैशम्पाय़न उवाच:
गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा ||
५ ख
वैशम्पाय़न उवाच:
भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता |
६ क
वैशम्पाय़न उवाच:
संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः ||
६ ख
वैशम्पाय़न उवाच:
आय़त्यां च तदात्वे च सर्वेषां तद्धि नो हितम् |
७ क
वैशम्पाय़न उवाच:
अनुवन्धे च कल्याणं यद्वचो व्रह्मवादिनः ||
७ ख
वैशम्पाय़न उवाच:
इय़ं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः |
८ क
वैशम्पाय़न उवाच:
तच्चाचष्ट वहु व्यासो मरुत्तस्य धनं नृपाः ||
८ ख
वैशम्पाय़न उवाच:
यद्येतद्वो वहुमतं मन्यध्वं वा क्षमं यदि |
९ क
वैशम्पाय़न उवाच:
तदानय़ामहे सर्वे कथं वा भीम मन्यसे ||
९ ख
वैशम्पाय़न उवाच:
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह |
१० क
वैशम्पाय़न उवाच:
भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमव्रवीत् ||
१० ख
वैशम्पाय़न उवाच:
रोचते मे महावाहो यदिदं भाषितं त्वय़ा |
११ क
वैशम्पाय़न उवाच:
व्यासाख्यातस्य वित्तस्य समुपानय़नं प्रति ||
११ ख
वैशम्पाय़न उवाच:
यदि तत्प्राप्नुय़ामेह धनमाविक्षितं प्रभो |
१२ क
वैशम्पाय़न उवाच:
कृतमेव महाराज भवेदिति मतिर्मम ||
१२ ख
वैशम्पाय़न उवाच:
ते वय़ं प्रणिपातेन गिरीशस्य महात्मनः |
१३ क
वैशम्पाय़न उवाच:
तदानय़ाम भद्रं ते समभ्यर्च्य कपर्दिनम् ||
१३ ख
वैशम्पाय़न उवाच:
तं विभुं देवदेवेशं तस्यैवानुचरांश्च तान् |
१४ क
वैशम्पाय़न उवाच:
प्रसाद्यार्थमवाप्स्यामो नूनं वाग्वुद्धिकर्मभिः ||
१४ ख
वैशम्पाय़न उवाच:
रक्षन्ते ये च तद्द्रव्यं किङ्करा रौद्रदर्शनाः |
१५ क
वैशम्पाय़न उवाच:
ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे ||
१५ ख
वैशम्पाय़न उवाच:
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत |
१६ क
वैशम्पाय़न उवाच:
प्रीतो धर्मात्मजो राजा वभूवातीव भारत |
१६ ख
वैशम्पाय़न उवाच:
अर्जुनप्रमुखाश्चापि तथेत्येवाव्रुवन्मुदा ||
१६ ग
वैशम्पाय़न उवाच:
कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चय़म् |
१७ क
वैशम्पाय़न उवाच:
सेनामाज्ञापय़ामासुर्नक्षत्रेऽहनि च ध्रुवे ||
१७ ख
वैशम्पाय़न उवाच:
ततो यय़ुः पाण्डुसुता व्राह्मणान्स्वस्ति वाच्य च |
१८ क
वैशम्पाय़न उवाच:
अर्चय़ित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् ||
१८ ख
वैशम्पाय़न उवाच:
मोदकैः पाय़सेनाथ मांसापूपैस्तथैव च |
१९ क
वैशम्पाय़न उवाच:
आशास्य च महात्मानं प्रय़युर्मुदिता भृशम् ||
१९ ख
वैशम्पाय़न उवाच:
तेषां प्रय़ास्यतां तत्र मङ्गलानि शुभान्यथ |
२० क
वैशम्पाय़न उवाच:
प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते ||
२० ख
वैशम्पाय़न उवाच:
ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च |
२१ क
वैशम्पाय़न उवाच:
व्राह्मणानग्निसहितान्प्रय़युः पाण्डुनन्दनाः ||
२१ ख
वैशम्पाय़न उवाच:
समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् |
२२ क
वैशम्पाय़न उवाच:
धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम् ||
२२ ख
वैशम्पाय़न उवाच:
मूले निक्षिप्य कौरव्यं युय़ुत्सुं धृतराष्ट्रजम् |
२३ क
वैशम्पाय़न उवाच:
सम्पूज्यमानाः पौरैश्च व्राह्मणैश्च मनीषिभिः ||
२३ ख