द्रौपद्यु उवाच:
पुरस्तात्करणीय़ं मे न कृतं कार्यमुत्तरम् |
१ क
द्रौपद्यु उवाच:
विह्वलास्मि कृतानेन कर्षता वलिना वलात् ||
१ ख
द्रौपद्यु उवाच:
अभिवादं करोम्येषां गुरूणां कुरुसंसदि |
२ क
द्रौपद्यु उवाच:
न मे स्यादपराधोऽय़ं यदिदं न कृतं मय़ा ||
२ ख
वैशम्पाय़न उवाच:
सा तेन च समुद्धूता दुःखेन च तपस्विनी |
३ क
वैशम्पाय़न उवाच:
पतिता विललापेदं सभाय़ामतथोचिता ||
३ ख
द्रौपद्यु उवाच:
स्वय़ंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतैः |
४ क
द्रौपद्यु उवाच:
न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता ||
४ ख
द्रौपद्यु उवाच:
यां न वाय़ुर्न चादित्यो दृष्टवन्तौ पुरा गृहे |
५ क
द्रौपद्यु उवाच:
साहमद्य सभामध्ये दृश्यामि कुरुसंसदि ||
५ ख
द्रौपद्यु उवाच:
यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे |
६ क
द्रौपद्यु उवाच:
स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना ||
६ ख
द्रौपद्यु उवाच:
मृष्यन्ते कुरवश्चेमे मन्ये कालस्य पर्ययम् |
७ क
द्रौपद्यु उवाच:
स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् ||
७ ख
द्रौपद्यु उवाच:
किं त्वतः कृपणं भूय़ो यदहं स्त्री सती शुभा |
८ क
द्रौपद्यु उवाच:
सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् ||
८ ख
द्रौपद्यु उवाच:
धर्म्याः स्त्रिय़ः सभां पूर्वं न नय़न्तीति नः श्रुतम् |
९ क
द्रौपद्यु उवाच:
स नष्टः कौरवेय़ेषु पूर्वो धर्मः सनातनः ||
९ ख
द्रौपद्यु उवाच:
कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती |
१० क
द्रौपद्यु उवाच:
वासुदेवस्य च सखी पार्थिवानां सभामिय़ाम् ||
१० ख
द्रौपद्यु उवाच:
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम् |
११ क
द्रौपद्यु उवाच:
व्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः ||
११ ख
द्रौपद्यु उवाच:
अय़ं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः |
१२ क
द्रौपद्यु उवाच:
क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः ||
१२ ख
द्रौपद्यु उवाच:
जितां वाप्यजितां वापि मन्यध्वं वा यथा नृपाः |
१३ क
द्रौपद्यु उवाच:
तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः ||
१३ ख
भीष्म उवाच:
उक्तवानस्मि कल्याणि धर्मस्य तु परां गतिम् |
१४ क
भीष्म उवाच:
लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः ||
१४ ख
भीष्म उवाच:
वलवांस्तु यथा धर्मं लोके पश्यति पूरुषः |
१५ क
भीष्म उवाच:
स धर्मो धर्मवेलाय़ां भवत्यभिहितः परैः ||
१५ ख
भीष्म उवाच:
न विवेक्तुं च ते प्रश्नमेतं शक्नोमि निश्चय़ात् |
१६ क
भीष्म उवाच:
सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् ||
१६ ख
भीष्म उवाच:
नूनमन्तः कुलस्यास्य भविता नचिरादिव |
१७ क
भीष्म उवाच:
तथा हि कुरवः सर्वे लोभमोहपराय़णाः ||
१७ ख
भीष्म उवाच:
कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम् |
१८ क
भीष्म उवाच:
धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूः स्थिता ||
१८ ख
भीष्म उवाच:
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् |
१९ क
भीष्म उवाच:
यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे ||
१९ ख
भीष्म उवाच:
एते द्रोणादय़श्चैव वृद्धा धर्मविदो जनाः |
२० क
भीष्म उवाच:
शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः ||
२० ख
भीष्म उवाच:
युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः |
२१ क
भीष्म उवाच:
अजितां वा जितां वापि स्वय़ं व्याहर्तुमर्हति ||
२१ ख
वैशम्पाय़न उवाच:
तथा तु दृष्ट्वा वहु तत्तदेवं; रोरूय़माणां कुररीमिवार्ताम् |
२२ क
वैशम्पाय़न उवाच:
नोचुर्वचः साध्वथ वाप्यसाधु; महीक्षितो धार्तराष्ट्रस्य भीताः ||
२२ ख
वैशम्पाय़न उवाच:
दृष्ट्वा तु तान्पार्थिवपुत्रपौत्रां; स्तूष्णीम्भूतान्धृतराष्ट्रस्य पुत्रः |
२३ क
वैशम्पाय़न उवाच:
स्मय़न्निवेदं वचनं वभाषे; पाञ्चालराजस्य सुतां तदानीम् ||
२३ ख
वैशम्पाय़न उवाच:
तिष्ठत्वय़ं प्रश्न उदारसत्त्वे; भीमेऽर्जुने सहदेवे तथैव |
२४ क
वैशम्पाय़न उवाच:
पत्यौ च ते नकुले याज्ञसेनि; वदन्त्वेते वचनं त्वत्प्रसूतम् ||
२४ ख
वैशम्पाय़न उवाच:
अनीश्वरं विव्रुवन्त्वार्यमध्ये; युधिष्ठिरं तव पाञ्चालि हेतोः |
२५ क
वैशम्पाय़न उवाच:
कुर्वन्तु सर्वे चानृतं धर्मराजं; पाञ्चालि त्वं मोक्ष्यसे दासभावात् ||
२५ ख
वैशम्पाय़न उवाच:
धर्मे स्थितो धर्मराजो महात्मा; स्वय़ं चेदं कथय़त्विन्द्रकल्पः |
२६ क
वैशम्पाय़न उवाच:
ईशो वा ते यद्यनीशोऽथ वैष; वाक्यादस्य क्षिप्रमेकं भजस्व ||
२६ ख
वैशम्पाय़न उवाच:
सर्वे हीमे कौरवेय़ाः सभाय़ां; दुःखान्तरे वर्तमानास्तवैव |
२७ क
वैशम्पाय़न उवाच:
न विव्रुवन्त्यार्यसत्त्वा यथाव; त्पतींश्च ते समवेक्ष्याल्पभाग्यान् ||
२७ ख
वैशम्पाय़न उवाच:
ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे प्रशशंसुस्तदोच्चैः |
२८ क
वैशम्पाय़न उवाच:
चेलावेधांश्चापि चक्रुर्नदन्तो; हा हेत्यासीदपि चैवात्र नादः |
२८ ख
वैशम्पाय़न उवाच:
सर्वे चासन्पार्थिवाः प्रीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजय़न्तः ||
२८ ग
वैशम्पाय़न उवाच:
युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः |
२९ क
वैशम्पाय़न उवाच:
किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ||
२९ ख
वैशम्पाय़न उवाच:
किं नु वक्ष्यति वीभत्सुरजितो युधि पाण्डवः |
३० क
वैशम्पाय़न उवाच:
भीमसेनो यमौ चेति भृशं कौतूहलान्विताः ||
३० ख
वैशम्पाय़न उवाच:
तस्मिन्नुपरते शव्दे भीमसेनोऽव्रवीदिदम् |
३१ क
वैशम्पाय़न उवाच:
प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम् ||
३१ ख
वैशम्पाय़न उवाच:
यद्येष गुरुरस्माकं धर्मराजो युधिष्ठिरः |
३२ क
वैशम्पाय़न उवाच:
न प्रभुः स्यात्कुलस्यास्य न वय़ं मर्षय़ेमहि ||
३२ ख
वैशम्पाय़न उवाच:
ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः |
३३ क
वैशम्पाय़न उवाच:
मन्यते जितमात्मानं यद्येष विजिता वय़म् ||
३३ ख
वैशम्पाय़न उवाच:
न हि मुच्येत जीवन्मे पदा भूमिमुपस्पृशन् |
३४ क
वैशम्पाय़न उवाच:
मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् ||
३४ ख
वैशम्पाय़न उवाच:
पश्यध्वमाय़तौ वृत्तौ भुजौ मे परिघाविव |
३५ क
वैशम्पाय़न उवाच:
नैतय़ोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ||
३५ ख
वैशम्पाय़न उवाच:
धर्मपाशसितस्त्वेवं नाधिगच्छामि सङ्कटम् |
३६ क
वैशम्पाय़न उवाच:
गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च ||
३६ ख
वैशम्पाय़न उवाच:
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव |
३७ क
वैशम्पाय़न उवाच:
धार्तराष्ट्रानिमान्पापान्निष्पिषेय़ं तलासिभिः ||
३७ ख
वैशम्पाय़न उवाच:
तमुवाच तदा भीष्मो द्रोणो विदुर एव च |
३८ क
वैशम्पाय़न उवाच:
क्षम्यतामेवमित्येवं सर्वं सम्भवति त्वय़ि ||
३८ ख