वृहदश्व उवाच:
सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा |
१ क
वृहदश्व उवाच:
अगच्छत्तेन वै सार्धं भर्तृदर्शनलालसा ||
१ ख
वृहदश्व उवाच:
अथ काले वहुतिथे वने महति दारुणे |
२ क
वृहदश्व उवाच:
तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत् ||
२ ख
वृहदश्व उवाच:
ददृशुर्वणिजो रम्यं प्रभूतय़वसेन्धनम् |
३ क
वृहदश्व उवाच:
वहुमूलफलोपेतं नानापक्षिगणैर्वृतम् ||
३ ख
वृहदश्व उवाच:
तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम् |
४ क
वृहदश्व उवाच:
सुपरिश्रान्तवाहास्ते निवेशाय़ मनो दधुः ||
४ ख
वृहदश्व उवाच:
संमते सार्थवाहस्य विविशुर्वनमुत्तमम् |
५ क
वृहदश्व उवाच:
उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम् ||
५ ख
वृहदश्व उवाच:
अथार्धरात्रसमय़े निःशव्दस्तिमिते तदा |
६ क
वृहदश्व उवाच:
सुप्ते सार्थे परिश्रान्ते हस्तिय़ूथमुपागमत् |
६ ख
वृहदश्व उवाच:
पानीय़ार्थं गिरिनदीं मदप्रस्रवणाविलाम् ||
६ ग
वृहदश्व उवाच:
मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम् |
७ क
वृहदश्व उवाच:
सुप्तं ममर्द सहसा चेष्टमानं महीतले ||
७ ख
वृहदश्व उवाच:
हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः |
८ क
वृहदश्व उवाच:
वनगुल्मांश्च धावन्तो निद्रान्धा महतो भय़ात् |
८ ख
वृहदश्व उवाच:
केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता नराः ||
८ ग
वृहदश्व उवाच:
गोखरोष्ट्राश्ववहुलं पदातिजनसङ्कुलम् |
९ क
वृहदश्व उवाच:
भय़ार्तं धावमानं तत्परस्परहतं तदा ||
९ ख
वृहदश्व उवाच:
घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले |
१० क
वृहदश्व उवाच:
वृक्षेष्वासज्य सम्भग्नाः पतिता विषमेषु च |
१० ख
वृहदश्व उवाच:
तथा तन्निहतं सर्वं समृद्धं सार्थमण्डलम् ||
१० ग
वृहदश्व उवाच:
अथापरेद्युः सम्प्राप्ते हतशिष्टा जनास्तदा |
११ क
वृहदश्व उवाच:
वनगुल्माद्विनिष्क्रम्य शोचन्तो वैशसं कृतम् |
११ ख
वृहदश्व उवाच:
भ्रातरं पितरं पुत्रं सखाय़ं च जनाधिप ||
११ ग
वृहदश्व उवाच:
अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् |
१२ क
वृहदश्व उवाच:
योऽपि मे निर्जनेऽरण्ये सम्प्राप्तोऽय़ं जनार्णवः |
१२ ख
वृहदश्व उवाच:
हतोऽय़ं हस्तिय़ूथेन मन्दभाग्यान्ममैव तु ||
१२ ग
वृहदश्व उवाच:
प्राप्तव्यं सुचिरं दुःखं मय़ा नूनमसंशय़म् |
१३ क
वृहदश्व उवाच:
नाप्राप्तकालो म्रिय़ते श्रुतं वृद्धानुशासनम् ||
१३ ख
वृहदश्व उवाच:
यन्नाहमद्य मृदिता हस्तिय़ूथेन दुःखिता |
१४ क
वृहदश्व उवाच:
न ह्यदैवकृतं किञ्चिन्नराणामिह विद्यते ||
१४ ख
वृहदश्व उवाच:
न च मे वालभावेऽपि किञ्चिद्व्यपकृतं कृतम् |
१५ क
वृहदश्व उवाच:
कर्मणा मनसा वाचा यदिदं दुःखमागतम् ||
१५ ख
वृहदश्व उवाच:
मन्ये स्वय़ंवरकृते लोकपालाः समागताः |
१६ क
वृहदश्व उवाच:
प्रत्याख्याता मय़ा तत्र नलस्यार्थाय़ देवताः |
१६ ख
वृहदश्व उवाच:
नूनं तेषां प्रभावेन विय़ोगं प्राप्तवत्यहम् ||
१६ ग
वृहदश्व उवाच:
एवमादीनि दुःखानि सा विलप्य वराङ्गना |
१७ क
वृहदश्व उवाच:
हतशिष्टैः सह तदा व्राह्मणैर्वेदपारगैः |
१७ ख
वृहदश्व उवाच:
अगच्छद्राजशार्दूल दुःखशोकपराय़णा ||
१७ ग
वृहदश्व उवाच:
गच्छन्ती सा चिरात्कालात्पुरमासादय़न्महत् |
१८ क
वृहदश्व उवाच:
साय़ाह्ने चेदिराजस्य सुवाहोः सत्यवादिनः |
१८ ख
वृहदश्व उवाच:
वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम् ||
१८ ग
वृहदश्व उवाच:
तां विवर्णां कृशां दीनां मुक्तकेशीममार्जनाम् |
१९ क
वृहदश्व उवाच:
उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ||
१९ ख
वृहदश्व उवाच:
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा |
२० क
वृहदश्व उवाच:
अनुजग्मुस्ततो वाला ग्रामिपुत्राः कुतूहलात् ||
२० ख
वृहदश्व उवाच:
सा तैः परिवृतागच्छत्समीपं राजवेश्मनः |
२१ क
वृहदश्व उवाच:
तां प्रासादगतापश्यद्राजमाता जनैर्वृताम् ||
२१ ख
वृहदश्व उवाच:
सा जनं वारय़ित्वा तं प्रासादतलमुत्तमम् |
२२ क
वृहदश्व उवाच:
आरोप्य विस्मिता राजन्दमय़न्तीमपृच्छत ||
२२ ख
वृहदश्व उवाच:
एवमप्यसुखाविष्टा विभर्षि परमं वपुः |
२३ क
वृहदश्व उवाच:
भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा ||
२३ ख
वृहदश्व उवाच:
न हि ते मानुषं रूपं भूषणैरपि वर्जितम् |
२४ क
वृहदश्व उवाच:
असहाय़ा नरेभ्यश्च नोद्विजस्यमरप्रभे ||
२४ ख
वृहदश्व उवाच:
तच्छ्रुत्वा वचनं तस्या भैमी वचनमव्रवीत् |
२५ क
वृहदश्व उवाच:
मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ||
२५ ख
वृहदश्व उवाच:
सैरन्ध्रीं जातिसम्पन्नां भुजिष्यां कामवासिनीम् |
२६ क
वृहदश्व उवाच:
फलमूलाशनामेकां यत्रसाय़म्प्रतिश्रय़ाम् ||
२६ ख
वृहदश्व उवाच:
असङ्ख्येय़गुणो भर्ता मां च नित्यमनुव्रतः |
२७ क
वृहदश्व उवाच:
भर्तारमपि तं वीरं छाय़ेवानपगा सदा ||
२७ ख
वृहदश्व उवाच:
तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं स्म देवने |
२८ क
वृहदश्व उवाच:
द्यूते स निर्जितश्चैव वनमेकोऽभ्युपेय़िवान् ||
२८ ख
वृहदश्व उवाच:
तमेकवसनं वीरमुन्मत्तमिव विह्वलम् |
२९ क
वृहदश्व उवाच:
आश्वासय़न्ती भर्तारमहमन्वगमं वनम् ||
२९ ख
वृहदश्व उवाच:
स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे |
३० क
वृहदश्व उवाच:
क्षुत्परीतः सुविमनास्तदप्येकं व्यसर्जय़त् ||
३० ख
वृहदश्व उवाच:
तमेकवसनं नग्नमुन्मत्तं गतचेतसम् |
३१ क
वृहदश्व उवाच:
अनुव्रजन्ती वहुला न स्वपामि निशाः सदा ||
३१ ख
वृहदश्व उवाच:
ततो वहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् |
३२ क
वृहदश्व उवाच:
वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् ||
३२ ख
वृहदश्व उवाच:
तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः |
३३ क
वृहदश्व उवाच:
न विन्दाम्यमरप्रख्यं प्रिय़ं प्राणधनेश्वरम् ||
३३ ख
वृहदश्व उवाच:
तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा वहु |
३४ क
वृहदश्व उवाच:
राजमाताव्रवीदार्तां भैमीमार्ततरा स्वय़म् ||
३४ ख
वृहदश्व उवाच:
वसस्व मय़ि कल्याणि प्रीतिर्मे त्वय़ि वर्तते |
३५ क
वृहदश्व उवाच:
मृगय़िष्यन्ति ते भद्रे भर्तारं पुरुषा मम ||
३५ ख
वृहदश्व उवाच:
अथ वा स्वय़मागच्छेत्परिधावन्नितस्ततः |
३६ क
वृहदश्व उवाच:
इहैव वसती भद्रे भर्तारमुपलप्स्यसे ||
३६ ख
वृहदश्व उवाच:
राजमातुर्वचः श्रुत्वा दमय़न्ती वचोऽव्रवीत् |
३७ क
वृहदश्व उवाच:
समय़ेनोत्सहे वस्तुं त्वय़ि वीरप्रजाय़िनि ||
३७ ख
वृहदश्व उवाच:
उच्छिष्टं नैव भुञ्जीय़ां न कुर्यां पादधावनम् |
३८ क
वृहदश्व उवाच:
न चाहं पुरुषानन्यान्सम्भाषेय़ं कथञ्चन ||
३८ ख
वृहदश्व उवाच:
प्रार्थय़ेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् |
३९ क
वृहदश्व उवाच:
भर्तुरन्वेषणार्थं तु पश्येय़ं व्राह्मणानहम् ||
३९ ख
वृहदश्व उवाच:
यद्येवमिह कर्तव्यं वसाम्यहमसंशय़म् |
४० क
वृहदश्व उवाच:
अतोऽन्यथा न मे वासो वर्तते हृदय़े क्वचित् ||
४० ख
वृहदश्व उवाच:
तां प्रहृष्टेन मनसा राजमातेदमव्रवीत् |
४१ क
वृहदश्व उवाच:
सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ||
४१ ख
वृहदश्व उवाच:
एवमुक्त्वा ततो भैमीं राजमाता विशां पते |
४२ क
वृहदश्व उवाच:
उवाचेदं दुहितरं सुनन्दां नाम भारत ||
४२ ख
वृहदश्व उवाच:
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् |
४३ क
वृहदश्व उवाच:
एतय़ा सह मोदस्व निरुद्विग्नमनाः स्वय़म् ||
४३ ख