chevron_left द्रोण पर्व अध्याय ६२
सञ्जय़ उवाच:
हन्त ते सम्प्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान् |
१ क
सञ्जय़ उवाच:
शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनय़ो महान् ||
१ ख
सञ्जय़ उवाच:
गतोदके सेतुवन्धो यादृक्तादृगय़ं तव |
२ क
सञ्जय़ उवाच:
विलापो निष्फलो राजन्मा शुचो भरतर्षभ ||
२ ख
सञ्जय़ उवाच:
अनतिक्रमणीय़ोऽय़ं कृतान्तस्याद्भुतो विधिः |
३ क
सञ्जय़ उवाच:
मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम् ||
३ ख
सञ्जय़ उवाच:
यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम् |
४ क
सञ्जय़ उवाच:
निवर्तय़ेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् ||
४ ख
सञ्जय़ उवाच:
युद्धकाले पुनः प्राप्ते तदैव भवता यदि |
५ क
सञ्जय़ उवाच:
निवर्तिताः स्युः संरव्धा न त्वां व्यसनमाव्रजेत् ||
५ ख
सञ्जय़ उवाच:
दुर्योधनं चाविधेय़ं वध्नीतेति पुरा यदि |
६ क
सञ्जय़ उवाच:
कुरूनचोदय़िष्यस्त्वं न त्वां व्यसनमाव्रजेत् ||
६ ख
सञ्जय़ उवाच:
तत्ते वुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः |
७ क
सञ्जय़ उवाच:
पाञ्चाला वृष्णय़ः सर्वे ये चान्येऽपि महाजनाः ||
७ ख
सञ्जय़ उवाच:
स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे |
८ क
सञ्जय़ उवाच:
वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् ||
८ ख
सञ्जय़ उवाच:
त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम् |
९ क
सञ्जय़ उवाच:
दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् ||
९ ख
सञ्जय़ उवाच:
तत्ते विलपितं सर्वं मय़ा राजन्निशामितम् |
१० क
सञ्जय़ उवाच:
अर्थे निविशमानस्य विषमिश्रं यथा मधु ||
१० ख
सञ्जय़ उवाच:
न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा |
११ क
सञ्जय़ उवाच:
न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप ||
११ ख
सञ्जय़ उवाच:
व्यजानत यदा तु त्वां राजधर्मादधश्च्युतम् |
१२ क
सञ्जय़ उवाच:
तदा प्रभृति कृष्णस्त्वां न तथा वहु मन्यते ||
१२ ख
सञ्जय़ उवाच:
परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे |
१३ क
सञ्जय़ उवाच:
तस्यानुवन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम् ||
१३ ख
सञ्जय़ उवाच:
पितृपैतामहं राज्यमपवृत्तं तदानघ |
१४ क
सञ्जय़ उवाच:
अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः ||
१४ ख
सञ्जय़ उवाच:
पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा |
१५ क
सञ्जय़ उवाच:
ततश्चाभ्यधिकं भूय़ः पाण्डवैर्धर्मचारिभिः ||
१५ ख
सञ्जय़ उवाच:
तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम् |
१६ क
सञ्जय़ उवाच:
यत्पित्र्याद्भ्रंशिता राज्यात्त्वय़ेहामिषगृद्धिना ||
१६ ख
सञ्जय़ उवाच:
यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हय़से नृप |
१७ क
सञ्जय़ उवाच:
वहुधा व्याहरन्दोषान्न तदद्योपपद्यते ||
१७ ख
सञ्जय़ उवाच:
न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे |
१८ क
सञ्जय़ उवाच:
चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रिय़र्षभाः ||
१८ ख
सञ्जय़ उवाच:
यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ |
१९ क
सञ्जय़ उवाच:
रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः ||
१९ ख
सञ्जय़ उवाच:
येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः |
२० क
सञ्जय़ उवाच:
येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः ||
२० ख
सञ्जय़ उवाच:
को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः |
२१ क
सञ्जय़ उवाच:
अन्यत्र कौरवेय़ेभ्यो ये वा तेषां पदानुगाः ||
२१ ख
सञ्जय़ उवाच:
यावत्तु शक्यते कर्तुमनुरक्तैर्जनाधिपैः |
२२ क
सञ्जय़ उवाच:
क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः ||
२२ ख
सञ्जय़ उवाच:
यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम् |
२३ क
सञ्जय़ उवाच:
कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः ||
२३ ख