chevron_left कर्ण पर्व अध्याय ६२
सञ्जय़ उवाच:
दुःशासने तु निहते पुत्रास्तव महारथाः |
१ क
सञ्जय़ उवाच:
महाक्रोधविषा वीराः समरेष्वपलाय़िनः |
१ ख
सञ्जय़ उवाच:
दश राजन्महावीर्यो भीमं प्राच्छादय़ञ्शरैः ||
१ ग
सञ्जय़ उवाच:
कवची निषङ्गी पाशी दण्डधारो धनुर्धरः |
२ क
सञ्जय़ उवाच:
अलोलुपः शलः सन्धो वातवेगसुवर्चसौ ||
२ ख
सञ्जय़ उवाच:
एते समेत्य सहिता भ्रातृव्यसनकर्शिताः |
३ क
सञ्जय़ उवाच:
भीमसेनं महावाहुं मार्गणैः समवारय़न् ||
३ ख
सञ्जय़ उवाच:
स वार्यमाणो विशिखैः समन्तात्तैर्महारथैः |
४ क
सञ्जय़ उवाच:
भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवावभौ ||
४ ख
सञ्जय़ उवाच:
तांस्तु भल्लैर्महावेगैर्दशभिर्दशभिः शितैः |
५ क
सञ्जय़ उवाच:
रुक्माङ्गदो रुक्मपुङ्खैः पार्थो निन्ये यमक्षय़म् ||
५ ख
सञ्जय़ उवाच:
हतेषु तेषु वीरेषु प्रदुद्राव वलं तव |
६ क
सञ्जय़ उवाच:
पश्यतः सूतपुत्रस्य पाण्डवस्य भय़ार्दितम् ||
६ ख
सञ्जय़ उवाच:
ततः कर्णो महाराज प्रविवेश महारणम् |
७ क
सञ्जय़ उवाच:
दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव ||
७ ख
सञ्जय़ उवाच:
तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः |
८ क
सञ्जय़ उवाच:
उवाच वचनं कर्णं प्राप्तकालमरिन्दम |
८ ख
सञ्जय़ उवाच:
मा व्यथां कुरु राधेय़ नैतत्त्वय़्युपपद्यते ||
८ ग
सञ्जय़ उवाच:
एते द्रवन्ति राजानो भीमसेनभय़ार्दिताः |
९ क
सञ्जय़ उवाच:
दुर्योधनश्च संमूढो भ्रातृव्यसनदुःखितः ||
९ ख
सञ्जय़ उवाच:
दुःशासनस्य रुधिरे पीय़माने महात्मना |
१० क
सञ्जय़ उवाच:
व्यापन्नचेतसश्चैव शोकोपहतमन्यवः ||
१० ख
सञ्जय़ उवाच:
दुर्योधनमुपासन्ते परिवार्य समन्ततः |
११ क
सञ्जय़ उवाच:
कृपप्रभृतय़ः कर्ण हतशेषाश्च सोदराः ||
११ ख
सञ्जय़ उवाच:
पाण्डवा लव्धलक्षाश्च धनञ्जय़पुरोगमाः |
१२ क
सञ्जय़ उवाच:
त्वामेवाभिमुखाः शूरा युद्धाय़ समुपास्थिताः ||
१२ ख
सञ्जय़ उवाच:
स त्वं पुरुषशार्दूल पौरुषे महति स्थितः |
१३ क
सञ्जय़ उवाच:
क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जय़म् ||
१३ ख
सञ्जय़ उवाच:
भारो हि धार्तराष्ट्रेण त्वय़ि सर्वः समर्पितः |
१४ क
सञ्जय़ उवाच:
तमुद्वह महावाहो यथाशक्ति यथावलम् |
१४ ख
सञ्जय़ उवाच:
जय़े स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजय़े ||
१४ ग
सञ्जय़ उवाच:
वृषसेनश्च राधेय़ सङ्क्रुद्धस्तनय़स्तव |
१५ क
सञ्जय़ उवाच:
त्वय़ि मोहसमापन्ने पाण्डवानभिधावति ||
१५ ख
सञ्जय़ उवाच:
एतच्छ्रुत्वा तु वचनं शल्यस्यामिततेजसः |
१६ क
सञ्जय़ उवाच:
हृदि मानुष्यकं भावं चक्रे युद्धाय़ सुस्थिरम् ||
१६ ख
सञ्जय़ उवाच:
ततः क्रुद्धो वृषसेनोऽभ्यधाव; दातस्थिवांसं स्वरथं हतारिम् |
१७ क
सञ्जय़ उवाच:
वृकोदरं कालमिवात्तदण्डं; गदाहस्तं पोथमानं त्वदीय़ान् ||
१७ ख
सञ्जय़ उवाच:
तमभ्यधावन्नकुलः प्रवीरो; रोषादमित्रं प्रतुदन्पृषत्कैः |
१८ क
सञ्जय़ उवाच:
कर्णस्य पुत्रं समरे प्रहृष्टं; जिष्णुर्जिघांसुर्मघवेव जम्भम् ||
१८ ख
सञ्जय़ उवाच:
ततो ध्वजं स्फाटिकचित्रकम्वुं; चिच्छेद वीरो नकुलः क्षुरेण |
१९ क
सञ्जय़ उवाच:
कर्णात्मजस्येष्वसनं च चित्रं; भल्लेन जाम्वूनदपट्टनद्धम् ||
१९ ख
सञ्जय़ उवाच:
अथान्यदादाय़ धनुः सुशीघ्रं; कर्णात्मजः पाण्डवमभ्यविध्यत् |
२० क
सञ्जय़ उवाच:
दिव्यैर्महास्त्रैर्नकुलं महास्त्रो; दुःशासनस्यापचितिं यिय़ासुः ||
२० ख
सञ्जय़ उवाच:
ततः क्रुद्धो नकुलस्तं महात्मा; शरैर्महोल्काप्रतिमैरविध्यत् |
२१ क
सञ्जय़ उवाच:
दिव्यैरस्त्रैरभ्यविध्यच्च सोऽपि; कर्णस्य पुत्रो नकुलं कृतास्त्रः ||
२१ ख
सञ्जय़ उवाच:
कर्णस्य पुत्रो नकुलस्य राज; न्सर्वानश्वानक्षिणोदुत्तमास्त्रैः |
२२ क
सञ्जय़ उवाच:
वनाय़ुजान्सुकुमारस्य शुभ्रा; नलङ्कृताञ्जातरूपेण शीघ्रान् ||
२२ ख
सञ्जय़ उवाच:
ततो हताश्वादवरुह्य याना; दादाय़ चर्म रुचिरं चाष्टचन्द्रम् |
२३ क
सञ्जय़ उवाच:
आकाशसङ्काशमसिं गृहीत्वा; पोप्लूय़मानः खगवच्चचार ||
२३ ख
सञ्जय़ उवाच:
ततोऽन्तरिक्षे नृवराश्वनागां; श्चिच्छेद मार्गान्विचरन्विचित्रान् |
२४ क
सञ्जय़ उवाच:
ते प्रापतन्नसिना गां विशस्ता; यथाश्वमेधे पशवः शमित्रा ||
२४ ख
सञ्जय़ उवाच:
द्विसाहस्रा विदिता युद्धशौण्डा; नानादेश्याः सुभृताः सत्यसन्धाः |
२५ क
सञ्जय़ उवाच:
एकेन शीघ्रं नकुलेन कृत्ताः; सारेप्सुनेवोत्तमचन्दनास्ते ||
२५ ख
सञ्जय़ उवाच:
तमापतन्तं नकुलं सोऽभिपत्य; समन्ततः साय़कैरभ्यविध्यत् |
२६ क
सञ्जय़ उवाच:
स तुद्यमानो नकुलः पृषत्कै; र्विव्याध वीरं स चुकोप विद्धः ||
२६ ख
सञ्जय़ उवाच:
तं कर्णपुत्रो विधमन्तमेकं; नराश्वमातङ्गरथप्रवेकान् |
२७ क
सञ्जय़ उवाच:
क्रीडन्तमष्टादशभिः पृषत्कै; र्विव्याध वीरं स चुकोप विद्धः ||
२७ ख
सञ्जय़ उवाच:
ततोऽभ्यधावत्समरे जिघांसुः; कर्णात्मजं पाण्डुसुतो नृवीरः |
२८ क
सञ्जय़ उवाच:
तस्येषुभिर्व्यधमत्कर्णपुत्रो; महारणे चर्म सहस्रतारम् ||
२८ ख
सञ्जय़ उवाच:
तस्याय़सं निशितं तीक्ष्णधार; मसिं विकोशं गुरुभारसाहम् |
२९ क
सञ्जय़ उवाच:
द्विषच्छरीरापहरं सुघोर; माधुन्वतः सर्पमिवोग्ररूपम् ||
२९ ख
सञ्जय़ उवाच:
क्षिप्रं शरैः षड्भिरमित्रसाह; श्चकर्त खड्गं निशितैः सुधारैः |
३० क
सञ्जय़ उवाच:
पुनश्च पीतैर्निशितैः पृषत्कैः; स्तनान्तरे गाढमथाभ्यविध्यत् ||
३० ख
सञ्जय़ उवाच:
स भीमसेनस्य रथं हताश्वो; माद्रीसुतः कर्णसुताभितप्तः |
३१ क
सञ्जय़ उवाच:
आपुप्लुवे सिंह इवाचलाग्रं; सम्प्रेक्षमाणस्य धनञ्जय़स्य ||
३१ ख
सञ्जय़ उवाच:
नकुलमथ विदित्वा छिन्नवाणासनासिं; विरथमरिशरार्तं कर्णपुत्रास्त्रभग्नम् |
३२ क
सञ्जय़ उवाच:
पवनधुतपताका ह्रादिनो वल्गिताश्वा; वरपुरुषनिय़त्तास्ते रथाः शीघ्रमीय़ुः ||
३२ ख
सञ्जय़ उवाच:
द्रुपदसुतवरिष्ठाः पञ्च शैनेय़षष्ठा; द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः |
३३ क
सञ्जय़ उवाच:
द्विरदरथनराश्वान्सूदय़न्तस्त्वदीय़ा; न्भुजगपतिनिकाशैर्मार्गणैरात्तशस्त्राः ||
३३ ख
सञ्जय़ उवाच:
अथ तव रथमुख्यास्तान्प्रतीय़ुस्त्वरन्तो; हृदिकसुतकृपौ च द्रौणिदुर्योधनौ च |
३४ क
सञ्जय़ उवाच:
शकुनिशुकवृकाश्च क्राथदेवावृधौ च; द्विरदजलदघोषैः स्यन्दनैः कार्मुकैश्च ||
३४ ख
सञ्जय़ उवाच:
तव नरवरवर्यास्तान्दशैकं च वीरा; न्प्रवरशरवराग्र्यैस्ताडय़न्तोऽभ्यरुन्धन् |
३५ क
सञ्जय़ उवाच:
नवजलदसवर्णैर्हस्तिभिस्तानुदीय़ु; र्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः ||
३५ ख
सञ्जय़ उवाच:
सुकल्पिता हैमवता मदोत्कटा; रणाभिकामैः कृतिभिः समास्थिताः |
३६ क
सञ्जय़ उवाच:
सुवर्णजालावतता वभुर्गजा; स्तथा यथा वै जलदाः सविद्युतः ||
३६ ख
सञ्जय़ उवाच:
कुणिन्दपुत्रो दशभिर्महाय़सैः; कृपं ससूताश्वमपीडय़द्भृशम् |
३७ क
सञ्जय़ उवाच:
ततः शरद्वत्सुतसाय़कैर्हतः; सहैव नागेन पपात भूतले ||
३७ ख
सञ्जय़ उवाच:
कुणिन्दपुत्रावरजस्तु तोमरै; र्दिवाकरांशुप्रतिमैरय़स्मय़ैः |
३८ क
सञ्जय़ उवाच:
रथं च विक्षोभ्य ननाद नर्दत; स्ततोऽस्य गान्धारपतिः शिरोऽहरत् ||
३८ ख
सञ्जय़ उवाच:
ततः कुणिन्देषु हतेषु तेष्वथ; प्रहृष्टरूपास्तव ते महारथाः |
३९ क
सञ्जय़ उवाच:
भृशं प्रदध्मुर्लवणाम्वुसम्भवा; न्परांश्च वाणासनपाणय़ोऽभ्ययुः ||
३९ ख
सञ्जय़ उवाच:
अथाभवद्युद्धमतीव दारुणं; पुनः कुरूणां सह पाण्डुसृञ्जय़ैः |
४० क
सञ्जय़ उवाच:
शरासिशक्त्यृष्टिगदापरश्वधै; र्नराश्वनागासुहरं भृशाकुलम् ||
४० ख
सञ्जय़ उवाच:
रथाश्वमातङ्गपदातिभिस्ततः; परस्परं विप्रहतापतन्क्षितौ |
४१ क
सञ्जय़ उवाच:
यथा सविद्युत्स्तनिता वलाहकाः; समास्थिता दिग्भ्य इवोग्रमारुतैः ||
४१ ख
सञ्जय़ उवाच:
ततः शतानीकहतान्महागजां; स्तथा रथान्पत्तिगणांश्च तावकान् |
४२ क
सञ्जय़ उवाच:
जघान भोजश्च हय़ानथापत; न्विशस्त्रकृत्ताः कृतवर्मणा द्विपाः ||
४२ ख
सञ्जय़ उवाच:
अथापरे द्रौणिशराहता द्विपा; स्त्रय़ः ससर्वाय़ुधय़ोधकेतवः |
४३ क
सञ्जय़ उवाच:
निपेतुरुर्व्यां व्यसवः प्रपातिता; स्तथा यथा वज्रहता महाचलाः ||
४३ ख
सञ्जय़ उवाच:
कुणिन्दराजावरजादनन्तरः; स्तनान्तरे पत्रिवरैरताडय़त् |
४४ क
सञ्जय़ उवाच:
तवात्मजं तस्य तवात्मजः शरैः; शितैः शरीरं विभिदे द्विपं च तम् ||
४४ ख
सञ्जय़ उवाच:
स नागराजः सह राजसूनुना; पपात रक्तं वहु सर्वतः क्षरन् |
४५ क
सञ्जय़ उवाच:
शचीशवज्रप्रहतोऽम्वुदागमे; यथा जलं गैरिकपर्वतस्तथा ||
४५ ख
सञ्जय़ उवाच:
कुणिन्दपुत्रप्रहितोऽपरद्विपः; शुकं ससूताश्वरथं व्यपोथय़त् |
४६ क
सञ्जय़ उवाच:
ततोऽपतत्क्राथशराभिदारितः; सहेश्वरो वज्रहतो यथा गिरिः ||
४६ ख
सञ्जय़ उवाच:
रथी द्विपस्थेन हतोऽपतच्छरैः; क्राथाधिपः पर्वतजेन दुर्जय़ः |
४७ क
सञ्जय़ उवाच:
सवाजिसूतेष्वसनस्तथापत; द्यथा महावातहतो महाद्रुमः ||
४७ ख
सञ्जय़ उवाच:
वृको द्विपस्थं गिरिराजवासिनं; भृशं शरैर्द्वादशभिः पराभिनत् |
४८ क
सञ्जय़ उवाच:
ततो वृकं साश्वरथं महाजवं; त्वरंश्चतुर्भिश्चरणे व्यपोथय़त् ||
४८ ख
सञ्जय़ उवाच:
स नागराजः सनिय़न्तृकोऽपत; त्पराहतो वभ्रुसुतेषुभिर्भृशम् |
४९ क