chevron_left शल्य पर्व अध्याय ६२
जनमेजय़ उवाच:
किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरः |
१ क
जनमेजय़ उवाच:
गान्धार्याः प्रेषय़ामास वासुदेवं परन्तपम् ||
१ ख
जनमेजय़ उवाच:
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति |
२ क
जनमेजय़ उवाच:
न च तं लव्धवान्कामं ततो युद्धमभूदिदम् ||
२ ख
जनमेजय़ उवाच:
निहतेषु तु योधेषु हते दुर्योधने तथा |
३ क
जनमेजय़ उवाच:
पृथिव्यां पाण्डवेय़स्य निःसपत्ने कृते युधि ||
३ ख
जनमेजय़ उवाच:
विद्रुते शिविरे शून्ये प्राप्ते यशसि चोत्तमे |
४ क
जनमेजय़ उवाच:
किं नु तत्कारणं व्रह्मन्येन कृष्णो गतः पुनः ||
४ ख
जनमेजय़ उवाच:
न चैतत्कारणं व्रह्मन्नल्पं वै प्रतिभाति मे |
५ क
जनमेजय़ उवाच:
यत्रागमदमेय़ात्मा स्वय़मेव जनार्दनः ||
५ ख
जनमेजय़ उवाच:
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम |
६ क
जनमेजय़ उवाच:
यच्चात्र कारणं व्रह्मन्कार्यस्यास्य विनिश्चय़े ||
६ ख
वैशम्पाय़न उवाच:
त्वद्युक्तोऽय़मनुप्रश्नो यन्मां पृच्छसि पार्थिव |
७ क
वैशम्पाय़न उवाच:
तत्तेऽहं सम्प्रवक्ष्यामि यथावद्भरतर्षभ ||
७ ख
वैशम्पाय़न उवाच:
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संय़ुगे |
८ क
वैशम्पाय़न उवाच:
व्युत्क्रम्य समय़ं राजन्धार्तराष्ट्रं महावलम् ||
८ ख
वैशम्पाय़न उवाच:
अन्याय़ेन हतं दृष्ट्वा गदाय़ुद्धेन भारत |
९ क
वैशम्पाय़न उवाच:
युधिष्ठिरं महाराज महद्भय़मथाविशत् ||
९ ख
वैशम्पाय़न उवाच:
चिन्तय़ानो महाभागां गान्धारीं तपसान्विताम् |
१० क
वैशम्पाय़न उवाच:
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् ||
१० ख
वैशम्पाय़न उवाच:
तस्य चिन्तय़मानस्य वुद्धिः समभवत्तदा |
११ क
वैशम्पाय़न उवाच:
गान्धार्याः क्रोधदीप्ताय़ाः पूर्वं प्रशमनं भवेत् ||
११ ख
वैशम्पाय़न उवाच:
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम् |
१२ क
वैशम्पाय़न उवाच:
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति ||
१२ ख
वैशम्पाय़न उवाच:
कथं दुःखमिदं तीव्रं गान्धारी प्रसहिष्यति |
१३ क
वैशम्पाय़न उवाच:
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मय़ोधिनम् ||
१३ ख
वैशम्पाय़न उवाच:
एवं विचिन्त्य वहुधा भय़शोकसमन्वितः |
१४ क
वैशम्पाय़न उवाच:
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत ||
१४ ख
वैशम्पाय़न उवाच:
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम् |
१५ क
वैशम्पाय़न उवाच:
अप्राप्यं मनसापीह प्राप्तमस्माभिरच्युत ||
१५ ख
वैशम्पाय़न उवाच:
प्रत्यक्षं मे महावाहो सङ्ग्रामे रोमहर्षणे |
१६ क
वैशम्पाय़न उवाच:
विमर्दः सुमहान्प्राप्तस्त्वय़ा यादवनन्दन ||
१६ ख
वैशम्पाय़न उवाच:
त्वय़ा देवासुरे युद्धे वधार्थममरद्विषाम् |
१७ क
वैशम्पाय़न उवाच:
यथा साह्यं पुरा दत्तं हताश्च विवुधद्विषः ||
१७ ख
वैशम्पाय़न उवाच:
साह्यं तथा महावाहो दत्तमस्माकमच्युत |
१८ क
वैशम्पाय़न उवाच:
सारथ्येन च वार्ष्णेय़ भवता यद्धृता वय़म् ||
१८ ख
वैशम्पाय़न उवाच:
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे |
१९ क
वैशम्पाय़न उवाच:
कथं शक्यो रणे जेतुं भवेदेष वलार्णवः ||
१९ ख
वैशम्पाय़न उवाच:
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम् |
२० क
वैशम्पाय़न उवाच:
शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वधैः ||
२० ख
वैशम्पाय़न उवाच:
वाचश्च परुषाः प्राप्तास्त्वय़ा ह्यस्मद्धितैषिणा |
२१ क
वैशम्पाय़न उवाच:
ताश्च ते सफलाः सर्वा हते दुर्योधनेऽच्युत ||
२१ ख
वैशम्पाय़न उवाच:
गान्धार्या हि महावाहो क्रोधं वुध्यस्व माधव |
२२ क
वैशम्पाय़न उवाच:
सा हि नित्यं महाभागा तपसोग्रेण कर्शिता ||
२२ ख
वैशम्पाय़न उवाच:
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति |
२३ क
वैशम्पाय़न उवाच:
तस्याः प्रसादनं वीर प्राप्तकालं मतं मम ||
२३ ख
वैशम्पाय़न उवाच:
कश्च तां क्रोधदीप्ताक्षीं पुत्रव्यसनकर्शिताम् |
२४ क
वैशम्पाय़न उवाच:
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम ||
२४ ख
वैशम्पाय़न उवाच:
तत्र मे गमनं प्राप्तं रोचते तव माधव |
२५ क
वैशम्पाय़न उवाच:
गान्धार्याः क्रोधदीप्ताय़ाः प्रशमार्थमरिन्दम ||
२५ ख
वैशम्पाय़न उवाच:
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाप्ययः |
२६ क
वैशम्पाय़न उवाच:
हेतुकारणसंय़ुक्तैर्वाक्यैः कालसमीरितैः ||
२६ ख
वैशम्पाय़न उवाच:
क्षिप्रमेव महाप्राज्ञ गान्धारीं शमय़िष्यसि |
२७ क
वैशम्पाय़न उवाच:
पितामहश्च भगवान्कृष्णस्तत्र भविष्यति ||
२७ ख
वैशम्पाय़न उवाच:
सर्वथा ते महावाहो गान्धार्याः क्रोधनाशनम् |
२८ क
वैशम्पाय़न उवाच:
कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा ||
२८ ख
वैशम्पाय़न उवाच:
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः |
२९ क
वैशम्पाय़न उवाच:
आमन्त्र्य दारुकं प्राह रथः सज्जो विधीय़ताम् ||
२९ ख
वैशम्पाय़न उवाच:
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः |
३० क
वैशम्पाय़न उवाच:
न्यवेदय़द्रथं सज्जं केशवाय़ महात्मने ||
३० ख
वैशम्पाय़न उवाच:
तं रथं यादवश्रेष्ठः समारुह्य परन्तपः |
३१ क
वैशम्पाय़न उवाच:
जगाम हास्तिनपुरं त्वरितः केशवो विभुः ||
३१ ख
वैशम्पाय़न उवाच:
ततः प्राय़ान्महाराज माधवो भगवान्रथी |
३२ क
वैशम्पाय़न उवाच:
नागसाह्वय़मासाद्य प्रविवेश च वीर्यवान् ||
३२ ख
वैशम्पाय़न उवाच:
प्रविश्य नगरं वीरो रथघोषेण नादय़न् |
३३ क
वैशम्पाय़न उवाच:
विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात् ||
३३ ख
वैशम्पाय़न उवाच:
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम् |
३४ क
वैशम्पाय़न उवाच:
पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् ||
३४ ख
वैशम्पाय़न उवाच:
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः |
३५ क
वैशम्पाय़न उवाच:
अभ्यवादय़दव्यग्रो गान्धारीं चापि केशवः ||
३५ ख
वैशम्पाय़न उवाच:
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः |
३६ क
वैशम्पाय़न उवाच:
पाणिमालम्व्य राज्ञः स सस्वरं प्ररुरोद ह ||
३६ ख
वैशम्पाय़न उवाच:
स मुहूर्तमिवोत्सृज्य वाष्पं शोकसमुद्भवम् |
३७ क
वैशम्पाय़न उवाच:
प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि |
३७ ख
वैशम्पाय़न उवाच:
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिन्दमः ||
३७ ग
वैशम्पाय़न उवाच:
न तेऽस्त्यविदितं किञ्चिद्भूतभव्यस्य भारत |
३८ क
वैशम्पाय़न उवाच:
कालस्य च यथा वृत्तं तत्ते सुविदितं प्रभो ||
३८ ख
वैशम्पाय़न उवाच:
यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः |
३९ क
वैशम्पाय़न उवाच:
कथं कुलक्षय़ो न स्यात्तथा क्षत्रस्य भारत ||
३९ ख
वैशम्पाय़न उवाच:
भ्रातृभिः समय़ं कृत्वा क्षान्तवान्धर्मवत्सलः |
४० क
वैशम्पाय़न उवाच:
द्यूतच्छलजितैः शक्तैर्वनवासोऽभ्युपागतः ||
४० ख
वैशम्पाय़न उवाच:
अज्ञातवासचर्या च नानावेशसमावृतैः |
४१ क
वैशम्पाय़न उवाच:
अन्ये च वहवः क्लेशास्त्वशक्तैरिव नित्यदा ||
४१ ख
वैशम्पाय़न उवाच:
मय़ा च स्वय़मागम्य युद्धकाल उपस्थिते |
४२ क
वैशम्पाय़न उवाच:
सर्वलोकस्य सांनिध्ये ग्रामांस्त्वं पञ्च याचितः ||
४२ ख
वैशम्पाय़न उवाच:
त्वय़ा कालोपसृष्टेन लोभतो नापवर्जिताः |
४३ क
वैशम्पाय़न उवाच:
तवापराधान्नृपते सर्वं क्षत्रं क्षय़ं गतम् ||
४३ ख
वैशम्पाय़न उवाच:
भीष्मेण सोमदत्तेन वाह्लिकेन कृपेण च |
४४ क
वैशम्पाय़न उवाच:
द्रोणेन च सपुत्रेण विदुरेण च धीमता |
४४ ख
वैशम्पाय़न उवाच:
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि ||
४४ ग
वैशम्पाय़न उवाच:
कालोपहतचित्तो हि सर्वो मुह्यति भारत |
४५ क
वैशम्पाय़न उवाच:
यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते ||
४५ ख
वैशम्पाय़न उवाच:
किमन्यत्कालय़ोगाद्धि दिष्टमेव पराय़णम् |
४६ क
वैशम्पाय़न उवाच:
मा च दोषं महाराज पाण्डवेषु निवेशय़ ||
४६ ख
वैशम्पाय़न उवाच:
अल्पोऽप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम् |
४७ क
वैशम्पाय़न उवाच:
धर्मतो न्याय़तश्चैव स्नेहतश्च परन्तप ||
४७ ख
वैशम्पाय़न उवाच:
एतत्सर्वं तु विज्ञाय़ आत्मदोषकृतं फलम् |
४८ क
वैशम्पाय़न उवाच:
असूय़ां पाण्डुपुत्रेषु न भवान्कर्तुमर्हति ||
४८ ख
वैशम्पाय़न उवाच:
कुलं वंशश्च पिण्डश्च यच्च पुत्रकृतं फलम् |
४९ क
वैशम्पाय़न उवाच:
गान्धार्यास्तव चैवाद्य पाण्डवेषु प्रतिष्ठितम् ||
४९ ख