chevron_left कर्ण पर्व अध्याय ६३
सञ्जय़ उवाच:
तत्तथास्तु नमस्तेऽस्तु प्रसीद भगवन्मम ||
४९ ख
सञ्जय़ उवाच:
व्रह्मेशानावथो वाक्यमूचतुस्त्रिदशेश्वरम् |
५० क
सञ्जय़ उवाच:
विजय़ो ध्रुव एवास्तु विजय़स्य महात्मनः ||
५० ख
सञ्जय़ उवाच:
मनस्वी वलवाञ्शूरः कृतास्त्रश्च तपोधनः |
५१ क
सञ्जय़ उवाच:
विभर्ति च महातेजा धनुर्वेदमशेषतः ||
५१ ख
सञ्जय़ उवाच:
अतिक्रमेच्च माहात्म्याद्दिष्टमेतस्य पर्ययात् |
५२ क
सञ्जय़ उवाच:
अतिक्रान्ते च लोकानामभावो निय़तो भवेत् ||
५२ ख
सञ्जय़ उवाच:
न विद्यते व्यवस्थानं कृष्णय़ोः क्रुद्धय़ोः क्वचित् |
५३ क
सञ्जय़ उवाच:
स्रष्टारौ ह्यसतश्चोभौ सतश्च पुरुषर्षभौ ||
५३ ख
सञ्जय़ उवाच:
नरनाराय़णावेतौ पुराणावृषिसत्तमौ |
५४ क
सञ्जय़ उवाच:
अनिय़त्तौ निय़न्तारावभीतौ स्म परन्तपौ ||
५४ ख
सञ्जय़ उवाच:
कर्णो लोकानय़ं मुख्यान्प्राप्नोतु पुरुषर्षभः |
५५ क
सञ्जय़ उवाच:
वीरो वैकर्तनः शूरो विजय़स्त्वस्तु कृष्णय़ोः ||
५५ ख
सञ्जय़ उवाच:
वसूनां च सलोकत्वं मरुतां वा समाप्नुय़ात् |
५६ क
सञ्जय़ उवाच:
सहितो द्रोणभीष्माभ्यां नाकलोके महीय़ताम् ||
५६ ख
सञ्जय़ उवाच:
इत्युक्तो देवदेवाभ्यां सहस्राक्षोऽव्रवीद्वचः |
५७ क
सञ्जय़ उवाच:
आमन्त्र्य सर्वभूतानि व्रह्मेशानानुशासनात् ||
५७ ख
सञ्जय़ उवाच:
श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम् |
५८ क
सञ्जय़ उवाच:
तत्तथा नान्यथा तद्धि तिष्ठध्वं गतमन्यवः ||
५८ ख
सञ्जय़ उवाच:
इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष |
५९ क
सञ्जय़ उवाच:
विस्मितान्यभवन्राजन्पूजय़ां चक्रिरे च तत् ||
५९ ख
सञ्जय़ उवाच:
व्यसृजंश्च सुगन्धीनि नानारूपाणि खात्तथा |
६० क
सञ्जय़ उवाच:
पुष्पवर्षाणि विवुधा देवतूर्याण्यवादय़न् ||
६० ख
सञ्जय़ उवाच:
दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहय़ोः |
६१ क
सञ्जय़ उवाच:
देवदानवगन्धर्वाः सर्व एवावतस्थिरे |
६१ ख
सञ्जय़ उवाच:
रथौ च तौ श्वेतहय़ौ युक्तकेतू महास्वनौ ||
६१ ग
सञ्जय़ उवाच:
समागता लोकवीराः शङ्खान्दध्मुः पृथक्पृथक् |
६२ क
सञ्जय़ उवाच:
वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत ||
६२ ख
सञ्जय़ उवाच:
तद्भीरुसन्त्रासकरं युद्धं समभवत्तदा |
६३ क
सञ्जय़ उवाच:
अन्योन्यस्पर्धिनोर्वीर्ये शक्रशम्वरय़ोरिव ||
६३ ख
सञ्जय़ उवाच:
तय़ोर्ध्वजौ वीतमालौ शुशुभाते रथस्थितौ |
६४ क
सञ्जय़ उवाच:
पृथग्रूपौ समार्छन्तौ क्रोधं युद्धे परस्परम् ||
६४ ख
सञ्जय़ उवाच:
कर्णस्याशीविषनिभा रत्नसारवती दृढा |
६५ क
सञ्जय़ उवाच:
पुरन्दरधनुःप्रख्या हस्तिकक्ष्या व्यराजत ||
६५ ख
सञ्जय़ उवाच:
कपिश्रेष्ठस्तु पार्थस्य व्यादितास्यो भय़ङ्करः |
६६ क
सञ्जय़ उवाच:
भीषय़न्नेव दंष्ट्राभिर्दुर्निरीक्ष्यो रविर्यथा ||
६६ ख
सञ्जय़ उवाच:
युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः |
६७ क
सञ्जय़ उवाच:
कर्णध्वजमुपातिष्ठत्सोऽवदीदभिनर्दय़न् ||
६७ ख
सञ्जय़ उवाच:
उत्पत्य च महावेगः कक्ष्यामभ्यहनत्कपिः |
६८ क
सञ्जय़ उवाच:
नखैश्च दशनैश्चैव गरुडः पन्नगं यथा ||
६८ ख
सञ्जय़ उवाच:
सुकिङ्किणीकाभरणा कालपाशोपमाय़सी |
६९ क
सञ्जय़ उवाच:
अभ्यद्रवत्सुसङ्क्रुद्धा नागकक्ष्या महाकपिम् ||
६९ ख
सञ्जय़ उवाच:
उभय़ोरुत्तमे युद्धे द्वैरथे द्यूत आहृते |
७० क
सञ्जय़ उवाच:
प्रकुर्वाते ध्वजौ युद्धं प्रत्यहेषन्हय़ान्हय़ाः ||
७० ख
सञ्जय़ उवाच:
अविध्यत्पुण्डरीकाक्षः शल्यं नय़नसाय़कैः |
७१ क
सञ्जय़ उवाच:
स चापि पुण्डरीकाक्षं तथैवाभिसमैक्षत ||
७१ ख
सञ्जय़ उवाच:
तत्राजय़द्वासुदेवः शल्यं नय़नसाय़कैः |
७२ क
सञ्जय़ उवाच:
कर्णं चाप्यजय़द्दृष्ट्या कुन्तीपुत्रो धनञ्जय़ः ||
७२ ख
सञ्जय़ उवाच:
अथाव्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम् |
७३ क
सञ्जय़ उवाच:
यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित् |
७३ ख
सञ्जय़ उवाच:
किमुत्तरं तदा ते स्यात्सखे सत्यं व्रवीहि मे ||
७३ ग
शल्य उवाच:
यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः |
७४ क
शल्य उवाच:
उभावेकरथेनाहं हन्यां माधवपाण्डवौ ||
७४ ख
सञ्जय़ उवाच:
एवमेव तु गोविन्दमर्जुनः प्रत्यभाषत |
७५ क
सञ्जय़ उवाच:
तं प्रहस्याव्रवीत्कृष्णः पार्थं परमिदं वचः ||
७५ ख
सञ्जय़ उवाच:
पतेद्दिवाकरः स्थानाच्छीर्येतानेकधा क्षितिः |
७६ क
सञ्जय़ उवाच:
शैत्यमग्निरिय़ान्न त्वा कर्णो हन्याद्धनञ्जय़म् ||
७६ ख
सञ्जय़ उवाच:
यदि त्वेवं कथञ्चित्स्याल्लोकपर्यसनं यथा |
७७ क
सञ्जय़ उवाच:
हन्यां कर्णं तथा शल्यं वाहुभ्यामेव संय़ुगे ||
७७ ख
सञ्जय़ उवाच:
इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः |
७८ क
सञ्जय़ उवाच:
अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम् |
७८ ख
सञ्जय़ उवाच:
ममाप्येतावपर्याप्तौ कर्णशल्यौ जनार्दन ||
७८ ग
सञ्जय़ उवाच:
सपताकाध्वजं कर्णं सशल्यरथवाजिनम् |
७९ क
सञ्जय़ उवाच:
सच्छत्रकवचं चैव सशक्तिशरकार्मुकम् ||
७९ ख
सञ्जय़ उवाच:
द्रष्टास्यद्य शरैः कर्णं रणे कृत्तमनेकधा |
८० क
सञ्जय़ उवाच:
अद्यैनं सरथं साश्वं सशक्तिकवचाय़ुधम् |
८० ख
सञ्जय़ उवाच:
न हि मे शाम्यते वैरं कृष्णां यत्प्राहसत्पुरा ||
८० ग
सञ्जय़ उवाच:
अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मय़ा |
८१ क
सञ्जय़ उवाच:
वारणेनेव मत्तेन पुष्पितं जगतीरुहम् ||
८१ ख
सञ्जय़ उवाच:
अद्य ता मधुरा वाचः श्रोतासि मधुसूदन |
८२ क
सञ्जय़ उवाच:
अद्याभिमन्युजननीमनृणः सान्त्वय़िष्यसि |
८२ ख
सञ्जय़ उवाच:
कुन्तीं पितृष्वसारं च सम्प्रहृष्टो जनार्दन ||
८२ ग
सञ्जय़ उवाच:
अद्य वाष्पमुखीं कृष्णां सान्त्वय़िष्यसि माधव |
८३ क
सञ्जय़ उवाच:
वाग्भिश्चामृतकल्पाभिर्धर्मराजं युधिष्ठिरम् ||
८३ ख