chevron_left अनुशासन पर्व अध्याय ६३
युधिष्ठिर उवाच:
श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः |
१ क
युधिष्ठिर उवाच:
नक्षत्रय़ोगस्येदानीं दानकल्पं व्रवीहि मे ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
देवक्याश्चैव संवादं देवर्षेर्नारदस्य च ||
२ ख
भीष्म उवाच:
द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम् |
३ क
भीष्म उवाच:
पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी ||
३ ख
भीष्म उवाच:
तस्याः सम्पृच्छमानाय़ा देवर्षिर्नारदस्तदा |
४ क
भीष्म उवाच:
आचष्ट विधिवत्सर्वं यत्तच्छृणु विशां पते ||
४ ख
नारद उवाच:
कृत्तिकासु महाभागे पाय़सेन ससर्पिषा |
५ क
नारद उवाच:
सन्तर्प्य व्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान् ||
५ ख
नारद उवाच:
रोहिण्यां प्रथितैर्मांसैर्माषैरन्नेन सर्पिषा |
६ क
नारद उवाच:
पय़ोऽनुपानं दातव्यमानृण्यार्थं द्विजातय़े ||
६ ख
नारद उवाच:
दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते |
७ क
नारद उवाच:
गच्छन्ति मानुषाल्लोकात्स्वर्गलोकमनुत्तमम् ||
७ ख
नारद उवाच:
आर्द्राय़ां कृसरं दत्त्वा तैलमिश्रमुपोषितः |
८ क
नारद उवाच:
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् ||
८ ख
नारद उवाच:
अपूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने |
९ क
नारद उवाच:
यशस्वी रूपसम्पन्नो वह्वन्ने जाय़ते कुले ||
९ ख
नारद उवाच:
पुष्ये तु कनकं दत्त्वा कृतं चाकृतमेव च |
१० क
नारद उवाच:
अनालोकेषु लोकेषु सोमवत्स विराजते ||
१० ख
नारद उवाच:
आश्लेषाय़ां तु यो रूप्यमृषभं वा प्रय़च्छति |
११ क
नारद उवाच:
स सर्वभय़निर्मुक्तः शात्रवानधितिष्ठति ||
११ ख
नारद उवाच:
मघासु तिलपूर्णानि वर्धमानानि मानवः |
१२ क
नारद उवाच:
प्रदाय़ पुत्रपशुमानिह प्रेत्य च मोदते ||
१२ ख
नारद उवाच:
फल्गुनीपूर्वसमय़े व्राह्मणानामुपोषितः |
१३ क
नारद उवाच:
भक्षान्फाणितसंय़ुक्तान्दत्त्वा सौभाग्यमृच्छति ||
१३ ख
नारद उवाच:
घृतक्षीरसमाय़ुक्तं विधिवत्षष्टिकौदनम् |
१४ क
नारद उवाच:
उत्तराविषय़े दत्त्वा स्वर्गलोके महीय़ते ||
१४ ख
नारद उवाच:
यद्यत्प्रदीय़ते दानमुत्तराविषय़े नरैः |
१५ क
नारद उवाच:
महाफलमनन्तं च भवतीति विनिश्चय़ः ||
१५ ख
नारद उवाच:
हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः |
१६ क
नारद उवाच:
प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान् ||
१६ ख
नारद उवाच:
चित्राय़ामृषभं दत्त्वा पुण्यान्गन्धांश्च भारत |
१७ क
नारद उवाच:
चरत्यप्सरसां लोके रमते नन्दने तथा ||
१७ ख
नारद उवाच:
स्वातावथ धनं दत्त्वा यदिष्टतममात्मनः |
१८ क
नारद उवाच:
प्राप्नोति लोकान्स शुभानिह चैव महद्यशः ||
१८ ख
नारद उवाच:
विशाखाय़ामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् |
१९ क
नारद उवाच:
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंय़ुतम् ||
१९ ख
नारद उवाच:
पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते |
२० क
नारद उवाच:
न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ||
२० ख
नारद उवाच:
दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति |
२१ क
नारद उवाच:
नरकादींश्च सङ्क्लेशान्नाप्नोतीति विनिश्चय़ः ||
२१ ख
नारद उवाच:
अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः |
२२ क
नारद उवाच:
दत्त्वा युगशतं चापि नरः स्वर्गे महीय़ते ||
२२ ख
नारद उवाच:
कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् |
२३ क
नारद उवाच:
ज्येष्ठाय़ामृद्धिमिष्टां वै गतिमिष्टां च विन्दति ||
२३ ख
नारद उवाच:
मूले मूलफलं दत्त्वा व्राह्मणेभ्यः समाहितः |
२४ क
नारद उवाच:
पितॄन्प्रीणय़ते चापि गतिमिष्टां च गच्छति ||
२४ ख
नारद उवाच:
अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः |
२५ क
नारद उवाच:
कुलवृत्तोपसम्पन्ने व्राह्मणे वेदपारगे |
२५ ख
नारद उवाच:
प्रदाय़ जाय़ते प्रेत्य कुले सुवहुगोकुले ||
२५ ग
नारद उवाच:
उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् |
२६ क
नारद उवाच:
दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुय़ात् ||
२६ ख
नारद उवाच:
दुग्धं त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम् |
२७ क
नारद उवाच:
धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीय़ते ||
२७ ख
नारद उवाच:
श्रवणे कम्वलं दत्त्वा वस्त्रान्तरितमेव च |
२८ क
नारद उवाच:
श्वेतेन याति यानेन सर्वलोकानसंवृतान् ||
२८ ख
नारद उवाच:
गोप्रय़ुक्तं धनिष्ठासु यानं दत्त्वा समाहितः |
२९ क
नारद उवाच:
वस्त्ररश्मिधरं सद्यः प्रेत्य राज्यं प्रपद्यते ||
२९ ख
नारद उवाच:
गन्धाञ्शतभिषग्योगे दत्त्वा सागुरुचन्दनान् |
३० क
नारद उवाच:
प्राप्नोत्यप्सरसां लोकान्प्रेत्य गन्धांश्च शाश्वतान् ||
३० ख
नारद उवाच:
पूर्वभाद्रपदाय़ोगे राजमाषान्प्रदाय़ तु |
३१ क
नारद उवाच:
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् ||
३१ ख
नारद उवाच:
औरभ्रमुत्तराय़ोगे यस्तु मांसं प्रय़च्छति |
३२ क
नारद उवाच:
स पितॄन्प्रीणय़ति वै प्रेत्य चानन्त्यमश्नुते ||
३२ ख
नारद उवाच:
कांस्योपदोहनां धेनुं रेवत्यां यः प्रय़च्छति |
३३ क
नारद उवाच:
सा प्रेत्य कामानादाय़ दातारमुपतिष्ठति ||
३३ ख
नारद उवाच:
रथमश्वसमाय़ुक्तं दत्त्वाश्विन्यां नरोत्तमः |
३४ क
नारद उवाच:
हस्त्यश्वरथसम्पन्ने वर्चस्वी जाय़ते कुले ||
३४ ख
नारद उवाच:
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय़ वै |
३५ क
नारद उवाच:
गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा ||
३५ ख
भीष्म उवाच:
इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रय़ोगतः |
३६ क
भीष्म उवाच:
देवक्या नारदेनेह सा स्नुषाभ्योऽव्रवीदिदम् ||
३६ ख