वैशम्पाय़न उवाच:
ततस्ते प्रय़युर्हृष्टाः प्रहृष्टनरवाहनाः |
१ क
वैशम्पाय़न उवाच:
रथघोषेण महता पूरय़न्तो वसुन्धराम् ||
१ ख
वैशम्पाय़न उवाच:
संस्तूय़मानाः स्तुतिभिः सूतमागधवन्दिभिः |
२ क
वैशम्पाय़न उवाच:
स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः ||
२ ख
वैशम्पाय़न उवाच:
पाण्डुरेणातपत्रेण ध्रिय़माणेन मूर्धनि |
३ क
वैशम्पाय़न उवाच:
वभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट् ||
३ ख
वैशम्पाय़न उवाच:
जय़ाशिषः प्रहृष्टानां नराणां पथि पाण्डवः |
४ क
वैशम्पाय़न उवाच:
प्रत्यगृह्णाद्यथान्याय़ं यथावत्पुरुषर्षभः ||
४ ख
वैशम्पाय़न उवाच:
तथैव सैनिका राजन्राजानमनुय़ान्ति ये |
५ क
वैशम्पाय़न उवाच:
तेषां हलहलाशव्दो दिवं स्तव्ध्वा व्यतिष्ठत ||
५ ख
वैशम्पाय़न उवाच:
स सरांसि नदीश्चैव वनान्युपवनानि च |
६ क
वैशम्पाय़न उवाच:
अत्यक्रामन्महाराजो गिरिं चैवान्वपद्यत ||
६ ख
वैशम्पाय़न उवाच:
तस्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम् |
७ क
वैशम्पाय़न उवाच:
चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः |
७ ख
वैशम्पाय़न उवाच:
शिवे देशे समे चैव तदा भरतसत्तम ||
७ ग
वैशम्पाय़न उवाच:
अग्रतो व्राह्मणान्कृत्वा तपोविद्यादमान्वितान् |
८ क
वैशम्पाय़न उवाच:
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् ||
८ ख
वैशम्पाय़न उवाच:
प्राङ्निवेशात्तु राजानं व्राह्मणाः सपुरोधसः |
९ क
वैशम्पाय़न उवाच:
कृत्वा शान्तिं यथान्याय़ं सर्वतः पर्यवारय़न् ||
९ ख
वैशम्पाय़न उवाच:
कृत्वा च मध्ये राजानममात्यांश्च यथाविधि |
१० क
वैशम्पाय़न उवाच:
षट्पथं नवसंस्थानं निवेशं चक्रिरे द्विजाः ||
१० ख
वैशम्पाय़न उवाच:
मत्तानां वारणेन्द्राणां निवेशं च यथाविधि |
११ क
वैशम्पाय़न उवाच:
कारय़ित्वा स राजेन्द्रो व्राह्मणानिदमव्रवीत् ||
११ ख
वैशम्पाय़न उवाच:
अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे |
१२ क
वैशम्पाय़न उवाच:
यथा भवन्तो मन्यन्ते कर्तुमर्हथ तत्तथा ||
१२ ख
वैशम्पाय़न उवाच:
न नः कालात्ययो वै स्यादिहैव परिलम्वताम् |
१३ क
वैशम्पाय़न उवाच:
इति निश्चित्य विप्रेन्द्राः क्रिय़तां यदनन्तरम् ||
१३ ख
वैशम्पाय़न उवाच:
श्रुत्वैतद्वचनं राज्ञो व्राह्मणाः सपुरोधसः |
१४ क
वैशम्पाय़न उवाच:
इदमूचुर्वचो हृष्टा धर्मराजप्रिय़ेप्सवः ||
१४ ख
वैशम्पाय़न उवाच:
अद्यैव नक्षत्रमहश्च पुण्यं; यतामहे श्रेष्ठतमं क्रिय़ासु |
१५ क
वैशम्पाय़न उवाच:
अम्भोभिरद्येह वसाम राज; न्नुपोष्यतां चापि भवद्भिरद्य ||
१५ ख
वैशम्पाय़न उवाच:
श्रुत्वा तु तेषां द्विजसत्तमानां; कृतोपवासा रजनीं नरेन्द्राः |
१६ क
वैशम्पाय़न उवाच:
ऊषुः प्रतीताः कुशसंस्तरेषु; यथाध्वरेषु ज्वलिता हव्यवाहाः ||
१६ ख
वैशम्पाय़न उवाच:
ततो निशा सा व्यगमन्महात्मनां; संशृण्वतां विप्रसमीरिता गिरः |
१७ क
वैशम्पाय़न उवाच:
ततः प्रभाते विमले द्विजर्षभा; वचोऽव्रुवन्धर्मसुतं नराधिपम् ||
१७ ख