कर्ण उवाच:
त्रय़ः किलेमे अधना भवन्ति; दासः शिष्यश्चास्वतन्त्रा च नारी |
१ क
कर्ण उवाच:
दासस्य पत्नी त्वं धनमस्य भद्रे; हीनेश्वरा दासधनं च दासी ||
१ ख
कर्ण उवाच:
प्रविश्य सा नः परिचारैर्भजस्व; तत्ते कार्यं शिष्टमावेश्य वेश्म |
२ क
कर्ण उवाच:
ईशाः स्म सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः ||
२ ख
कर्ण उवाच:
अन्यं वृणीष्व पतिमाशु भामिनि; यस्माद्दास्यं न लभसे देवनेन |
३ क
कर्ण उवाच:
अनवद्या वै पतिषु कामवृत्ति; र्नित्यं दास्ये विदितं वै तवास्तु ||
३ ख
कर्ण उवाच:
पराजितो नकुलो भीमसेनो; युधिष्ठिरः सहदेवोऽर्जुनश्च |
४ क
कर्ण उवाच:
दासीभूता प्रविश याज्ञसेनि; पराजितास्ते पतय़ो न सन्ति ||
४ ख
कर्ण उवाच:
प्रय़ोजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः |
५ क
कर्ण उवाच:
पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां; सभामध्ये योऽतिदेवीद्ग्लहेषु ||
५ ख
वैशम्पाय़न उवाच:
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; भृशं निशश्वास तदार्तरूपः |
६ क
वैशम्पाय़न उवाच:
राजानुगो धर्मपाशानुवद्धो; दहन्निवैनं कोपविरक्तदृष्टिः ||
६ ख
भीम उवाच:
नाहं कुप्ये सूतपुत्रस्य राज; न्नेष सत्यं दासधर्मः प्रविष्टः |
७ क
भीम उवाच:
किं विद्विषो वाद्य मां धारय़ेय़ु; र्नादेवीस्त्वं यद्यनय़ा नरेन्द्र ||
७ ख
वैशम्पाय़न उवाच:
राधेय़स्य वचः श्रुत्वा राजा दुर्योधनस्तदा |
८ क
वैशम्पाय़न उवाच:
युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतसम् ||
८ ख
वैशम्पाय़न उवाच:
भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने |
९ क
वैशम्पाय़न उवाच:
प्रश्नं प्रव्रूहि कृष्णां त्वमजितां यदि मन्यसे ||
९ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा स कौन्तेय़मपोह्य वसनं स्वकम् |
१० क
वैशम्पाय़न उवाच:
स्मय़न्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः ||
१० ख
वैशम्पाय़न उवाच:
कदलीदण्डसदृशं सर्वलक्षणपूजितम् |
११ क
वैशम्पाय़न उवाच:
गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ||
११ ख
वैशम्पाय़न उवाच:
अभ्युत्स्मय़ित्वा राधेय़ं भीममाधर्षय़न्निव |
१२ क
वैशम्पाय़न उवाच:
द्रौपद्याः प्रेक्षमाणाय़ाः सव्यमूरुमदर्शय़त् ||
१२ ख
वैशम्पाय़न उवाच:
वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते |
१३ क
वैशम्पाय़न उवाच:
प्रोवाच राजमध्ये तं सभां विश्रावय़न्निव ||
१३ ख
वैशम्पाय़न उवाच:
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः |
१४ क
वैशम्पाय़न उवाच:
यद्येतमूरुं गदय़ा न भिन्द्यां ते महाहवे ||
१४ ख
वैशम्पाय़न उवाच:
क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः |
१५ क
वैशम्पाय़न उवाच:
वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः ||
१५ ख
विदुर उवाच:
परं भय़ं पश्यत भीमसेना; द्वुध्यध्वं राज्ञो वरुणस्येव पाशात् |
१६ क
विदुर उवाच:
दैवेरितो नूनमय़ं पुरस्ता; त्परोऽनय़ो भरतेषूदपादि ||
१६ ख
विदुर उवाच:
अतिद्यूतं कृतमिदं धार्तराष्ट्रा; येऽस्यां स्त्रिय़ं विवदध्वं सभाय़ाम् |
१७ क
विदुर उवाच:
योगक्षेमो दृश्यते वो महाभय़ः; पापान्मन्त्रान्कुरवो मन्त्रय़न्ति ||
१७ ख
विदुर उवाच:
इमं धर्मं कुरवो जानताशु; दुर्दृष्टेऽस्मिन्परिषत्सम्प्रदुष्येत् |
१८ क
विदुर उवाच:
इमां चेत्पूर्वं कितवोऽग्लहीष्य; दीशोऽभविष्यदपराजितात्मा ||
१८ ख
विदुर उवाच:
स्वप्ने यथैतद्धि धनं जितं स्या; त्तदेवं मन्ये यस्य दीव्यत्यनीशः |
१९ क
विदुर उवाच:
गान्धारिपुत्रस्य वचो निशम्य; धर्मादस्मात्कुरवो मापय़ात ||
१९ ख
दुर्योधन उवाच:
भीमस्य वाक्ये तद्वदेवार्जुनस्य; स्थितोऽहं वै यमय़ोश्चैवमेव |
२० क
दुर्योधन उवाच:
युधिष्ठिरं चेत्प्रवदन्त्यनीश; मथो दास्यान्मोक्ष्यसे याज्ञसेनि ||
२० ख
अर्जुन उवाच:
ईशो राजा पूर्वमासीद्ग्लहे नः; कुन्तीपुत्रो धर्मराजो महात्मा |
२१ क
अर्जुन उवाच:
ईशस्त्वय़ं कस्य पराजितात्मा; तज्जानीध्वं कुरवः सर्व एव ||
२१ ख
वैशम्पाय़न उवाच:
ततो राज्ञो धृतराष्ट्रस्य गेहे; गोमाय़ुरुच्चैर्व्याहरदग्निहोत्रे |
२२ क
वैशम्पाय़न उवाच:
तं रासभाः प्रत्यभाषन्त राज; न्समन्ततः पक्षिणश्चैव रौद्राः ||
२२ ख
वैशम्पाय़न उवाच:
तं च शव्दं विदुरस्तत्त्ववेदी; शुश्राव घोरं सुवलात्मजा च |
२३ क
वैशम्पाय़न उवाच:
भीष्मद्रोणौ गौतमश्चापि विद्वा; न्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः ||
२३ ख
वैशम्पाय़न उवाच:
ततो गान्धारी विदुरश्चैव विद्वां; स्तमुत्पातं घोरमालक्ष्य राज्ञे |
२४ क
वैशम्पाय़न उवाच:
निवेदय़ामासतुरार्तवत्तदा; ततो राजा वाक्यमिदं वभाषे ||
२४ ख
वैशम्पाय़न उवाच:
हतोऽसि दुर्योधन मन्दवुद्धे; यस्त्वं सभाय़ां कुरुपुङ्गवानाम् |
२५ क
वैशम्पाय़न उवाच:
स्त्रिय़ं समाभाषसि दुर्विनीत; विशेषतो द्रौपदीं धर्मपत्नीम् ||
२५ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा धृतराष्ट्रो मनीषी; हितान्वेषी वान्धवानामपाय़ात् |
२६ क
वैशम्पाय़न उवाच:
कृष्णां पाञ्चालीमव्रवीत्सान्त्वपूर्वं; विमृश्यैतत्प्रज्ञय़ा तत्त्ववुद्धिः ||
२६ ख
धृतराष्ट्र उवाच:
वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि |
२७ क
धृतराष्ट्र उवाच:
वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती ||
२७ ख
द्रौपद्यु उवाच:
ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ |
२८ क
द्रौपद्यु उवाच:
सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः ||
२८ ख
द्रौपद्यु उवाच:
मनस्विनमजानन्तो मा वै व्रूय़ुः कुमारकाः |
२९ क
द्रौपद्यु उवाच:
एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम् ||
२९ ख
द्रौपद्यु उवाच:
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् |
३० क
द्रौपद्यु उवाच:
लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत ||
३० ख
धृतराष्ट्र उवाच:
द्वितीय़ं ते वरं भद्रे ददामि वरय़स्व माम् |
३१ क
धृतराष्ट्र उवाच:
मनो हि मे वितरति नैकं त्वं वरमर्हसि ||
३१ ख
द्रौपद्यु उवाच:
सरथौ सधनुष्कौ च भीमसेनधनञ्जय़ौ |
३२ क
द्रौपद्यु उवाच:
नकुलं सहदेवं च द्वितीय़ं वरय़े वरम् ||
३२ ख
धृतराष्ट्र उवाच:
तृतीय़ं वरय़ास्मत्तो नासि द्वाभ्यां सुसत्कृता |
३३ क
धृतराष्ट्र उवाच:
त्वं हि सर्वस्नुषाणां मे श्रेय़सी धर्मचारिणी ||
३३ ख
द्रौपद्यु उवाच:
लोभो धर्मस्य नाशाय़ भगवन्नाहमुत्सहे |
३४ क
द्रौपद्यु उवाच:
अनर्हा वरमादातुं तृतीय़ं राजसत्तम ||
३४ ख
द्रौपद्यु उवाच:
एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिय़ा वरौ |
३५ क
द्रौपद्यु उवाच:
त्रय़स्तु राज्ञो राजेन्द्र व्राह्मणस्य शतं वराः ||
३५ ख
द्रौपद्यु उवाच:
पापीय़ांस इमे भूत्वा सन्तीर्णाः पतय़ो मम |
३६ क
द्रौपद्यु उवाच:
वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा ||
३६ ख