वैशम्पाय़न उवाच:
अवजित्य धनं चापि विराटो वाहिनीपतिः |
१ क
वैशम्पाय़न उवाच:
प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ||
१ ख
वैशम्पाय़न उवाच:
जित्वा त्रिगर्तान्सङ्ग्रामे गाश्चैवादाय़ केवलाः |
२ क
वैशम्पाय़न उवाच:
अशोभत महाराजः सह पार्थैः श्रिय़ा वृतः ||
२ ख
वैशम्पाय़न उवाच:
तमासनगतं वीरं सुहृदां प्रीतिवर्धनम् |
३ क
वैशम्पाय़न उवाच:
उपतस्थुः प्रकृतय़ः समस्ता व्राह्मणैः सह ||
३ ख
वैशम्पाय़न उवाच:
सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट् |
४ क
वैशम्पाय़न उवाच:
विसर्जय़ामास तदा द्विजांश्च प्रकृतीस्तथा ||
४ ख
वैशम्पाय़न उवाच:
ततः स राजा मत्स्यानां विराटो वाहिनीपतिः |
५ क
वैशम्पाय़न उवाच:
उत्तरं परिपप्रच्छ क्व यात इति चाव्रवीत् ||
५ ख
वैशम्पाय़न उवाच:
आचख्युस्तस्य संहृष्टाः स्त्रिय़ः कन्याश्च वेश्मनि |
६ क
वैशम्पाय़न उवाच:
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ||
६ ख
वैशम्पाय़न उवाच:
विजेतुमभिसंरव्ध एक एवातिसाहसात् |
७ क
वैशम्पाय़न उवाच:
वृहन्नडासहाय़श्च निर्यातः पृथिवीञ्जय़ः ||
७ ख
वैशम्पाय़न उवाच:
उपय़ातानतिरथान्द्रोणं शान्तनवं कृपम् |
८ क
वैशम्पाय़न उवाच:
कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ||
८ ख
वैशम्पाय़न उवाच:
राजा विराटोऽथ भृशं प्रतप्तः; श्रुत्वा सुतं ह्येकरथेन यातम् |
९ क
वैशम्पाय़न उवाच:
वृहन्नडासारथिमाजिवर्धनं; प्रोवाच सर्वानथ मन्त्रिमुख्यान् ||
९ ख
वैशम्पाय़न उवाच:
सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः |
१० क
वैशम्पाय़न उवाच:
त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन ||
१० ख
वैशम्पाय़न उवाच:
तस्माद्गच्छन्तु मे योधा वलेन महता वृताः |
११ क
वैशम्पाय़न उवाच:
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ||
११ ख
वैशम्पाय़न उवाच:
हय़ांश्च नागांश्च रथांश्च शीघ्रं; पदातिसङ्घांश्च ततः प्रवीरान् |
१२ क
वैशम्पाय़न उवाच:
प्रस्थापय़ामास सुतस्य हेतो; र्विचित्रशस्त्राभरणोपपन्नान् ||
१२ ख
वैशम्पाय़न उवाच:
एवं स राजा मत्स्यानां विराटोऽक्षौहिणीपतिः |
१३ क
वैशम्पाय़न उवाच:
व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम् ||
१३ ख
वैशम्पाय़न उवाच:
कुमारमाशु जानीत यदि जीवति वा न वा |
१४ क
वैशम्पाय़न उवाच:
यस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति ||
१४ ख
वैशम्पाय़न उवाच:
तमव्रवीद्धर्मराजः प्रहस्य; विराटमार्तं कुरुभिः प्रतप्तम् |
१५ क
वैशम्पाय़न उवाच:
वृहन्नडा सारथिश्चेन्नरेन्द्र; परे न नेष्यन्ति तवाद्य गास्ताः ||
१५ ख
वैशम्पाय़न उवाच:
सर्वान्महीपान्सहितान्कुरूंश्च; तथैव देवासुरय़क्षनागान् |
१६ क
वैशम्पाय़न उवाच:
अलं विजेतुं समरे सुतस्ते; स्वनुष्ठितः सारथिना हि तेन ||
१६ ख
वैशम्पाय़न उवाच:
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः |
१७ क
वैशम्पाय़न उवाच:
विराटनगरं प्राप्य जय़मावेदय़ंस्तदा ||
१७ ख
वैशम्पाय़न उवाच:
राज्ञस्ततः समाचख्यौ मन्त्री विजय़मुत्तमम् |
१८ क
वैशम्पाय़न उवाच:
पराजय़ं कुरूणां चाप्युपाय़ान्तं तथोत्तरम् ||
१८ ख
वैशम्पाय़न उवाच:
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः |
१९ क
वैशम्पाय़न उवाच:
उत्तरः सह सूतेन कुशली च परन्तप ||
१९ ख
कङ्क उवाच:
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः |
२० क
कङ्क उवाच:
दिष्ट्या ते जीवितः पुत्रः श्रूय़ते पार्थिवर्षभ ||
२० ख
कङ्क उवाच:
नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजय़त्कुरून् |
२१ क
कङ्क उवाच:
ध्रुव एव जय़स्तस्य यस्य यन्ता वृहन्नडा ||
२१ ख
वैशम्पाय़न उवाच:
ततो विराटो नृपतिः सम्प्रहृष्टतनूरुहः |
२२ क
वैशम्पाय़न उवाच:
श्रुत्वा तु विजय़ं तस्य कुमारस्यामितौजसः |
२२ ख
वैशम्पाय़न उवाच:
आच्छादय़ित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदय़त् ||
२२ ग
वैशम्पाय़न उवाच:
राजमार्गाः क्रिय़न्तां मे पताकाभिरलङ्कृताः |
२३ क
वैशम्पाय़न उवाच:
पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः ||
२३ ख
वैशम्पाय़न उवाच:
कुमारा योधमुख्याश्च गणिकाश्च स्वलङ्कृताः |
२४ क
वैशम्पाय़न उवाच:
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ||
२४ ख
वैशम्पाय़न उवाच:
घण्टापणवकः शीघ्रं मत्तमारुह्य वारणम् |
२५ क
वैशम्पाय़न उवाच:
शृङ्गाटकेषु सर्वेषु आख्यातु विजय़ं मम ||
२५ ख
वैशम्पाय़न उवाच:
उत्तरा च कुमारीभिर्वह्वीभिरभिसंवृता |
२६ क
वैशम्पाय़न उवाच:
शृङ्गारवेषाभरणा प्रत्युद्यातु वृहन्नडाम् ||
२६ ख
वैशम्पाय़न उवाच:
श्रुत्वा तु तद्वचनं पार्थिवस्य; सर्वे पुनः स्वस्तिकपाणय़श्च |
२७ क
वैशम्पाय़न उवाच:
भेर्यश्च तूर्याणि च वारिजाश्च; वेषैः परार्ध्यैः प्रमदाः शुभाश्च ||
२७ ख
वैशम्पाय़न उवाच:
तथैव सूताः सह मागधैश्च; नन्दीवाद्याः पणवास्तूर्यवाद्याः |
२८ क
वैशम्पाय़न उवाच:
पुराद्विराटस्य महावलस्य; प्रत्युद्ययुः पुत्रमनन्तवीर्यम् ||
२८ ख
वैशम्पाय़न उवाच:
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलङ्कृताः |
२९ क
वैशम्पाय़न उवाच:
मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमव्रवीत् |
२९ ख
वैशम्पाय़न उवाच:
अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् ||
२९ ग
वैशम्पाय़न उवाच:
तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत |
३० क
वैशम्पाय़न उवाच:
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ||
३० ख
वैशम्पाय़न उवाच:
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे |
३१ क
वैशम्पाय़न उवाच:
प्रिय़ं तु ते चिकीर्षामि वर्ततां यदि मन्यसे ||
३१ ख
विराट उवाच:
स्त्रिय़ो गावो हिरण्यं च यच्चान्यद्वसु किञ्चन |
३२ क
विराट उवाच:
न मे किञ्चित्त्वय़ा रक्ष्यमन्तरेणापि देवितुम् ||
३२ ख
कङ्क उवाच:
किं ते द्यूतेन राजेन्द्र वहुदोषेण मानद |
३३ क
कङ्क उवाच:
देवने वहवो दोषास्तस्मात्तत्परिवर्जय़ेत् ||
३३ ख
कङ्क उवाच:
श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः |
३४ क
कङ्क उवाच:
स राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान् ||
३४ ख
कङ्क उवाच:
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचय़े |
३५ क
कङ्क उवाच:
अथ वा मन्यसे राजन्दीव्याव यदि रोचते ||
३५ ख
वैशम्पाय़न उवाच:
प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमव्रवीत् |
३६ क
वैशम्पाय़न उवाच:
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ||
३६ ख
वैशम्पाय़न उवाच:
ततोऽव्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरः |
३७ क
वैशम्पाय़न उवाच:
वृहन्नडा यस्य यन्ता कथं स न विजेष्यति ||
३७ ख
वैशम्पाय़न उवाच:
इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमव्रवीत् |
३८ क
वैशम्पाय़न उवाच:
समं पुत्रेण मे षण्ढं व्रह्मवन्धो प्रशंससि ||
३८ ख
वैशम्पाय़न उवाच:
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे |
३९ क
वैशम्पाय़न उवाच:
भीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति ||
३९ ख
वैशम्पाय़न उवाच:
वय़स्यत्वात्तु ते व्रह्मन्नपराधमिमं क्षमे |
४० क
वैशम्पाय़न उवाच:
नेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि ||
४० ख
युधिष्ठिर उवाच:
यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः |
४१ क
युधिष्ठिर उवाच:
दुर्योधनश्च राजेन्द्र तथान्ये च महारथाः ||
४१ ख
युधिष्ठिर उवाच:
मरुद्गणैः परिवृतः साक्षादपि शतक्रतुः |
४२ क
युधिष्ठिर उवाच:
कोऽन्यो वृहन्नडाय़ास्तान्प्रतिय़ुध्येत सङ्गतान् ||
४२ ख
विराट उवाच:
वहुशः प्रतिषिद्धोऽसि न च वाचं निय़च्छसि |
४३ क
विराट उवाच:
निय़न्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् ||
४३ ख
वैशम्पाय़न उवाच:
ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम् |
४४ क
वैशम्पाय़न उवाच:
मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सय़न् ||
४४ ख
वैशम्पाय़न उवाच:
वलवत्प्रतिविद्धस्य नस्तः शोणितमागमत् |
४५ क
वैशम्पाय़न उवाच:
तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत ||
४५ ख
वैशम्पाय़न उवाच:
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् |
४६ क
वैशम्पाय़न उवाच:
सा वेद तमभिप्राय़ं भर्तुश्चित्तवशानुगा ||
४६ ख
वैशम्पाय़न उवाच:
पूरय़ित्वा च सौवर्णं पात्रं कांस्यमनिन्दिता |
४७ क
वैशम्पाय़न उवाच:
तच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात् ||
४७ ख
वैशम्पाय़न उवाच:
अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा |
४८ क
वैशम्पाय़न उवाच:
अवकीर्यमाणः संहृष्टो नगरं स्वैरमागमत् ||
४८ ख
वैशम्पाय़न उवाच:
सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा |
४९ क
वैशम्पाय़न उवाच:
आसाद्य भवनद्वारं पित्रे स प्रत्यहारय़त् ||
४९ ख