सञ्जय़ उवाच:
तस्यां निशाय़ां व्युष्टाय़ां द्रोणः शस्त्रभृतां वरः |
१ क
सञ्जय़ उवाच:
स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः ||
१ ख
सञ्जय़ उवाच:
शूराणां गर्जतां राजन्सङ्क्रुद्धानाममर्षिणाम् |
२ क
सञ्जय़ उवाच:
श्रूय़न्ते स्म गिरश्चित्राः परस्परवधैषिणाम् ||
२ ख
सञ्जय़ उवाच:
विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च |
३ क
सञ्जय़ उवाच:
विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनञ्जय़ः ||
३ ख
सञ्जय़ उवाच:
विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् |
४ क
सञ्जय़ उवाच:
पीतानाकाशसङ्काशानसीन्केचिच्च चिक्षिपुः ||
४ ख
सञ्जय़ उवाच:
चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षय़ा |
५ क
सञ्जय़ उवाच:
सङ्ग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः ||
५ ख
सञ्जय़ उवाच:
सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः |
६ क
सञ्जय़ उवाच:
समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् ||
६ ख
सञ्जय़ उवाच:
अन्ये वलमदोन्मत्ताः परिघैर्वाहुशालिनः |
७ क
सञ्जय़ उवाच:
चक्रुः सम्वाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः ||
७ ख
सञ्जय़ उवाच:
नानाप्रहरणैश्चान्ये विचित्रस्रगलङ्कृताः |
८ क
सञ्जय़ उवाच:
सङ्ग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः ||
८ ख
सञ्जय़ उवाच:
क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः |
९ क
सञ्जय़ उवाच:
क्व च ते सुहृदस्तेषामाह्वय़न्तो रणे तदा ||
९ ख
सञ्जय़ उवाच:
ततः शङ्खमुपाध्माय़ त्वरय़न्वाजिनः स्वय़म् |
१० क
सञ्जय़ उवाच:
इतस्ततस्तान्रचय़न्द्रोणश्चरति वेगितः ||
१० ख
सञ्जय़ उवाच:
तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु |
११ क
सञ्जय़ उवाच:
भारद्वाजो महाराज जय़द्रथमथाव्रवीत् ||
११ ख
सञ्जय़ उवाच:
त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः |
१२ क
सञ्जय़ उवाच:
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा ||
१२ ख
सञ्जय़ उवाच:
शतं चाश्वसहस्राणां रथानामय़ुतानि षट् |
१३ क
सञ्जय़ उवाच:
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश ||
१३ ख
सञ्जय़ उवाच:
पदातीनां सहस्राणि दंशितान्येकविंशतिः |
१४ क
सञ्जय़ उवाच:
गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत ||
१४ ख
सञ्जय़ उवाच:
तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः |
१५ क
सञ्जय़ उवाच:
किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ||
१५ ख
सञ्जय़ उवाच:
एवमुक्तः समाश्वस्तः सिन्धुराजो जय़द्रथः |
१६ क
सञ्जय़ उवाच:
सम्प्राय़ात्सह गान्धारैर्वृतस्तैश्च महारथैः |
१६ ख
सञ्जय़ उवाच:
वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः ||
१६ ग
सञ्जय़ उवाच:
चामरापीडिनः सर्वे जाम्वूनदविभूषिताः |
१७ क
सञ्जय़ उवाच:
जय़द्रथस्य राजेन्द्र हय़ाः साधुप्रवाहिनः |
१७ ख
सञ्जय़ उवाच:
ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः ||
१७ ग
सञ्जय़ उवाच:
मत्तानामधिरूढानां हस्त्यारोहैर्विशारदैः |
१८ क
सञ्जय़ उवाच:
नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् ||
१८ ख
सञ्जय़ उवाच:
अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव |
१९ क
सञ्जय़ उवाच:
अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः ||
१९ ख
सञ्जय़ उवाच:
ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ |
२० क
सञ्जय़ उवाच:
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ ||
२० ख
सञ्जय़ उवाच:
दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः |
२१ क
सञ्जय़ उवाच:
व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः ||
२१ ख
सञ्जय़ उवाच:
नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः |
२२ क
सञ्जय़ उवाच:
रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वय़म् ||
२२ ख
सञ्जय़ उवाच:
पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः |
२३ क
सञ्जय़ उवाच:
सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः ||
२३ ख
सञ्जय़ उवाच:
एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः |
२४ क
सञ्जय़ उवाच:
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः ||
२४ ख
सञ्जय़ उवाच:
अनन्तरं च काम्वोजो जलसन्धश्च मारिष |
२५ क
सञ्जय़ उवाच:
दुर्योधनः सहामात्यस्तदनन्तरमेव च ||
२५ ख
सञ्जय़ उवाच:
ततः शतसहस्राणि योधानामनिवर्तिनाम् |
२६ क
सञ्जय़ उवाच:
व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः ||
२६ ख
सञ्जय़ उवाच:
तेषां च पृष्ठतो राज वलेन महता वृतः |
२७ क
सञ्जय़ उवाच:
जय़द्रथस्ततो राजन्सूचिपाशे व्यवस्थितः ||
२७ ख
सञ्जय़ उवाच:
शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः |
२८ क
सञ्जय़ उवाच:
अनु तस्याभवद्भोजो जुगोपैनं ततः स्वय़म् ||
२८ ख
सञ्जय़ उवाच:
श्वेतवर्माम्वरोष्णीषो व्यूढोरस्को महाभुजः |
२९ क
सञ्जय़ उवाच:
धनुर्विस्फारय़न्द्रोणस्तस्थौ क्रुद्ध इवान्तकः ||
२९ ख
सञ्जय़ उवाच:
पताकिनं शोणहय़ं वेदीकृष्णाजिनध्वजम् |
३० क
सञ्जय़ उवाच:
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् ||
३० ख
सञ्जय़ उवाच:
सिद्धचारणसङ्घानां विस्मय़ः सुमहानभूत् |
३१ क
सञ्जय़ उवाच:
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुव्धार्णवोपमम् ||
३१ ख
सञ्जय़ उवाच:
सशैलसागरवनां नानाजनपदाकुलाम् |
३२ क
सञ्जय़ उवाच:
ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे ||
३२ ख
सञ्जय़ उवाच:
वहुरथमनुजाश्वपत्तिनागं; प्रतिभय़निस्वनमद्भुताभरूपम् |
३३ क
सञ्जय़ उवाच:
अहितहृदय़भेदनं महद्वै; शकटमवेक्ष्य कृतं ननन्द राजा ||
३३ ख