सञ्जय़ उवाच:
वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः |
१ क
सञ्जय़ उवाच:
मुक्त्वा शोकोद्भवं वारि नेत्राभ्यां सहसा वृषः ||
१ ख
सञ्जय़ उवाच:
रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपून् |
२ क
सञ्जय़ उवाच:
युद्धाय़ामर्षताम्राक्षः समाहूय़ धनञ्जय़म् ||
२ ख
सञ्जय़ उवाच:
तौ रथौ सूर्यसङ्काशौ वैय़ाघ्रपरिवारणौ |
३ क
सञ्जय़ उवाच:
समेतौ ददृशुस्तत्र द्वाविवार्कौ समागतौ ||
३ ख
सञ्जय़ उवाच:
श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ |
४ क
सञ्जय़ उवाच:
शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि ||
४ ख
सञ्जय़ उवाच:
तौ दृष्ट्वा विस्मय़ं जग्मुः सर्वभूतानि मारिष |
५ क
सञ्जय़ उवाच:
त्रैलोक्यविजय़े यत्ताविन्द्रवैरोचनाविव ||
५ ख
सञ्जय़ उवाच:
रथज्यातलनिर्ह्रादैर्वाणशङ्खरवैरपि |
६ क
सञ्जय़ उवाच:
तौ रथावभिधावन्तौ समालोक्य महीक्षिताम् ||
६ ख
सञ्जय़ उवाच:
ध्वजौ च दृष्ट्वा संसक्तौ विस्मय़ः समपद्यत |
७ क
सञ्जय़ उवाच:
हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः ||
७ ख
सञ्जय़ उवाच:
तौ रथौ सम्प्रसक्तौ च दृष्ट्वा भारत पार्थिवाः |
८ क
सञ्जय़ उवाच:
सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान् ||
८ ख
सञ्जय़ उवाच:
श्रुत्वा तु द्वैरथं ताभ्यां तत्र योधाः समन्ततः |
९ क
सञ्जय़ उवाच:
चक्रुर्वाहुवलं चैव तथा चेलवलं महत् ||
९ ख
सञ्जय़ उवाच:
आजग्मुः कुरवस्तत्र वादित्रानुगतास्तदा |
१० क
सञ्जय़ उवाच:
कर्णं प्रहर्षय़न्तश्च शङ्खान्दध्मुश्च पुष्कलान् ||
१० ख
सञ्जय़ उवाच:
तथैव पाण्डवाः सर्वे हर्षय़न्तो धनञ्जय़म् |
११ क
सञ्जय़ उवाच:
तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादय़न् ||
११ ख
सञ्जय़ उवाच:
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् |
१२ क
सञ्जय़ उवाच:
वाहुघोषाश्च वीराणां कर्णार्जुनसमागमे ||
१२ ख
सञ्जय़ उवाच:
तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ |
१३ क
सञ्जय़ उवाच:
प्रगृहीतमहाचापौ शरशक्तिगदाय़ुधौ ||
१३ ख
सञ्जय़ उवाच:
वर्मिणौ वद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभिनौ |
१४ क
सञ्जय़ उवाच:
तूणीरवरसम्पन्नौ द्वावपि स्म सुदर्शनौ ||
१४ ख
सञ्जय़ उवाच:
रक्तचन्दनदिग्धाङ्गौ समदौ वृषभाविव |
१५ क
सञ्जय़ उवाच:
आशीविषसमप्रख्यौ यमकालान्तकोपमौ ||
१५ ख
सञ्जय़ उवाच:
इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रमसप्रभौ |
१६ क
सञ्जय़ उवाच:
महाग्रहाविव क्रूरौ युगान्ते समुपस्थितौ ||
१६ ख
सञ्जय़ उवाच:
देवगर्भौ देवसमौ देवतुल्यौ च रूपतः |
१७ क
सञ्जय़ उवाच:
समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनञ्जय़ौ ||
१७ ख
सञ्जय़ उवाच:
उभौ वराय़ुधधरावुभौ रणकृतश्रमौ |
१८ क
सञ्जय़ उवाच:
उभौ च वाहुशव्देन नादय़न्तौ नभस्तलम् ||
१८ ख
सञ्जय़ उवाच:
उभौ विश्रुतकर्माणौ पौरुषेण वलेन च |
१९ क
सञ्जय़ उवाच:
उभौ च सदृशौ युद्धे शम्वरामरराजय़ोः ||
१९ ख
सञ्जय़ उवाच:
कार्तवीर्यसमौ युद्धे तथा दाशरथेः समौ |
२० क
सञ्जय़ उवाच:
विष्णुवीर्यसमौ वीर्ये तथा भवसमौ युधि ||
२० ख
सञ्जय़ उवाच:
उभौ श्वेतहय़ौ राजन्रथप्रवरवाहिनौ |
२१ क
सञ्जय़ उवाच:
सारथी प्रवरौ चैव तय़ोरास्तां महावलौ ||
२१ ख
सञ्जय़ उवाच:
तौ तु दृष्ट्वा महाराज राजमानौ महारथौ |
२२ क
सञ्जय़ उवाच:
सिद्धचारणसङ्घानां विस्मय़ः समपद्यत ||
२२ ख
सञ्जय़ उवाच:
धार्तराष्ट्रास्ततः कर्णं सवला भरतर्षभ |
२३ क
सञ्जय़ उवाच:
परिवव्रुर्महात्मानं क्षिप्रमाहवशोभिनम् ||
२३ ख
सञ्जय़ उवाच:
तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः |
२४ क
सञ्जय़ उवाच:
परिवव्रुर्महात्मानं पार्थमप्रतिमं युधि ||
२४ ख
सञ्जय़ उवाच:
तावकानां रणे कर्णो ग्लह आसीद्विशां पते |
२५ क
सञ्जय़ उवाच:
तथैव पाण्डवेय़ानां ग्लहः पार्थोऽभवद्युधि ||
२५ ख
सञ्जय़ उवाच:
त एव सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्स्म ते |
२६ क
सञ्जय़ उवाच:
तत्रैषां ग्लहमानानां ध्रुवौ जय़पराजय़ौ ||
२६ ख
सञ्जय़ उवाच:
ताभ्यां द्यूतं समाय़त्तं विजय़ाय़ेतराय़ वा |
२७ क
सञ्जय़ उवाच:
अस्माकं पण्डवानां च स्थितानां रणमूर्धनि ||
२७ ख
सञ्जय़ उवाच:
तौ तु स्थितौ महाराज समरे युद्धशालिनौ |
२८ क
सञ्जय़ उवाच:
अन्योन्यं प्रतिसंरव्धावन्योन्यस्य जय़ैषिणौ ||
२८ ख
सञ्जय़ उवाच:
तावुभौ प्रजिहीर्षेतामिन्द्रवृत्राविवाभितः |
२९ क
सञ्जय़ उवाच:
भीमरूपधरावास्तां महाधूमाविव ग्रहौ ||
२९ ख
सञ्जय़ उवाच:
ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ |
३० क
सञ्जय़ उवाच:
मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे |
३० ख
सञ्जय़ उवाच:
व्याश्रय़न्त दिशो भिन्नाः सर्वलोकाश्च मारिष ||
३० ग
सञ्जय़ उवाच:
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः |
३१ क
सञ्जय़ उवाच:
प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे ||
३१ ख
सञ्जय़ उवाच:
द्यौरासीत्कर्णतो व्यग्रा सनक्षत्रा विशां पते |
३२ क
सञ्जय़ उवाच:
भूमिर्विशाला पार्थस्य माता पुत्रस्य भारत ||
३२ ख
सञ्जय़ उवाच:
सरितः सागराश्चैव गिरय़श्च नरोत्तम |
३३ क
सञ्जय़ उवाच:
वृक्षाश्चौषधय़स्तत्र व्याश्रय़न्त किरीटिनम् ||
३३ ख
सञ्जय़ उवाच:
असुरा यातुधानाश्च गुह्यकाश्च परन्तप |
३४ क
सञ्जय़ उवाच:
कर्णतः समपद्यन्त खेचराणि वय़ांसि च ||
३४ ख
सञ्जय़ उवाच:
रत्नानि निधय़ः सर्वे वेदाश्चाख्यानपञ्चमाः |
३५ क
सञ्जय़ उवाच:
सोपवेदोपनिषदः सरहस्याः ससङ्ग्रहाः ||
३५ ख
सञ्जय़ उवाच:
वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः |
३६ क
सञ्जय़ उवाच:
पर्वताश्च तथा सर्वे काद्रवेय़ाश्च सान्वय़ाः |
३६ ख
सञ्जय़ उवाच:
विषवन्तो महारोषा नागाश्चार्जुनतोऽभवन् ||
३६ ग
सञ्जय़ उवाच:
ऐरावताः सौरभेय़ा वैशालेय़ाश्च भोगिनः |
३७ क
सञ्जय़ उवाच:
एतेऽभवन्नर्जुनतः क्षुद्रसर्पास्तु कर्णतः ||
३७ ख
सञ्जय़ उवाच:
ईहामृगा व्याडमृगा मङ्गल्याश्च मृगद्विजाः |
३८ क
सञ्जय़ उवाच:
पार्थस्य विजय़ं राजन्सर्व एवाभिसंश्रिताः ||
३८ ख
सञ्जय़ उवाच:
वसवो मरुतः साध्या रुद्रा विश्वेऽश्विनौ तथा |
३९ क
सञ्जय़ उवाच:
अग्निरिन्द्रश्च सोमश्च पवनश्च दिशो दश |
३९ ख
सञ्जय़ उवाच:
धनञ्जय़मुपाजग्मुरादित्याः कर्णतोऽभवन् ||
३९ ग
सञ्जय़ उवाच:
देवास्तु पितृभिः सार्धं सगणार्जुनतोऽभवन् |
४० क
सञ्जय़ उवाच:
यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः ||
४० ख
सञ्जय़ उवाच:
देवव्रह्मनृपर्षीणां गणाः पाण्डवतोऽभवन् |
४१ क
सञ्जय़ उवाच:
तुम्वुरुप्रमुखा राजन्गन्धर्वाश्च यतोऽर्जुनः ||
४१ ख
सञ्जय़ उवाच:
प्रावेय़ाः सह मौनेय़ैर्गन्धर्वाप्सरसां गणाः |
४२ क
सञ्जय़ उवाच:
ईहामृगव्याडमृगैर्द्विपाश्च रथपत्तिभिः ||
४२ ख
सञ्जय़ उवाच:
उह्यमानास्तथा मेघैर्वाय़ुना च मनीषिणः |
४३ क
सञ्जय़ उवाच:
दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् ||
४३ ख
सञ्जय़ उवाच:
देवदानवगन्धर्वा नागा यक्षाः पतत्रिणः |
४४ क
सञ्जय़ उवाच:
महर्षय़ो वेदविदः पितरश्च स्वधाभुजः ||
४४ ख
सञ्जय़ उवाच:
तपो विद्यास्तथौषध्यो नानारूपाम्वरत्विषः |
४५ क
सञ्जय़ उवाच:
अन्तरिक्षे महाराज विनदन्तोऽवतस्थिरे ||
४५ ख
सञ्जय़ उवाच:
व्रह्मा व्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च |
४६ क
सञ्जय़ उवाच:
भवेनावस्थितो यानं दिव्यं तं देशमभ्ययात् ||
४६ ख
सञ्जय़ उवाच:
दृष्ट्वा प्रजापतिं देवाः स्वय़म्भुवमुपागमन् |
४७ क
सञ्जय़ उवाच:
समोऽस्तु देव विजय़ एतय़ोर्नरसिंहय़ोः ||
४७ ख
सञ्जय़ उवाच:
तदुपश्रुत्य मघवा प्रणिपत्य पितामहम् |
४८ क
सञ्जय़ उवाच:
कर्णार्जुनविनाशेन मा नश्यत्वखिलं जगत् ||
४८ ख
सञ्जय़ उवाच:
स्वय़म्भो व्रूहि तद्वाक्यं समोऽस्तु विजय़ोऽनय़ोः |
४९ क