धृतराष्ट्र उवाच:
अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः |
१ क
धृतराष्ट्र उवाच:
शौटीरमानी पुत्रो मे कान्यभाषत सञ्जय़ ||
१ ख
धृतराष्ट्र उवाच:
अत्यर्थं कोपनो राजा जातवैरश्च पाण्डुषु |
२ क
धृतराष्ट्र उवाच:
व्यसनं परमं प्राप्तः किमाह परमाहवे ||
२ ख
सञ्जय़ उवाच:
शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप |
३ क
सञ्जय़ उवाच:
राज्ञा यदुक्तं भग्नेन तस्मिन्व्यसन आगते ||
३ ख
सञ्जय़ उवाच:
भग्नसक्थो नृपो राजन्पांसुना सोऽवगुण्ठितः |
४ क
सञ्जय़ उवाच:
यमय़न्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश ||
४ ख
सञ्जय़ उवाच:
केशान्निय़म्य यत्नेन निःश्वसन्नुरगो यथा |
५ क
सञ्जय़ उवाच:
संरम्भाश्रुपरीताभ्यां नेत्राभ्यामभिवीक्ष्य माम् ||
५ ख
सञ्जय़ उवाच:
वाहू धरण्यां निष्पिष्य मुहुर्मत्त इव द्विपः |
६ क
सञ्जय़ उवाच:
प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन् |
६ ख
सञ्जय़ उवाच:
गर्हय़न्पाण्डवं ज्येष्ठं निःश्वस्येदमथाव्रवीत् ||
६ ग
सञ्जय़ उवाच:
भीष्मे शान्तनवे नाथे कर्णे चास्त्रभृतां वरे |
७ क
सञ्जय़ उवाच:
गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे ||
७ ख
सञ्जय़ उवाच:
अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि |
८ क
सञ्जय़ उवाच:
इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः ||
८ ख
सञ्जय़ उवाच:
एकादशचमूभर्ता सोऽहमेतां दशां गतः |
९ क
सञ्जय़ उवाच:
कालं प्राप्य महावाहो न कश्चिदतिवर्तते ||
९ ख
सञ्जय़ उवाच:
आख्यातव्यं मदीय़ानां येऽस्मिञ्जीवन्ति सङ्गरे |
१० क
सञ्जय़ उवाच:
यथाहं भीमसेनेन व्युत्क्रम्य समय़ं हतः ||
१० ख
सञ्जय़ उवाच:
वहूनि सुनृशंसानि कृतानि खलु पाण्डवैः |
११ क
सञ्जय़ उवाच:
भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति ||
११ ख
सञ्जय़ उवाच:
इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम् |
१२ क
सञ्जय़ उवाच:
येन ते सत्सु निर्वेदं गमिष्यन्तीति मे मतिः ||
१२ ख
सञ्जय़ उवाच:
का प्रीतिः सत्त्वय़ुक्तस्य कृत्वोपधिकृतं जय़म् |
१३ क
सञ्जय़ उवाच:
को वा समय़भेत्तारं वुधः संमन्तुमर्हति ||
१३ ख
सञ्जय़ उवाच:
अधर्मेण जय़ं लव्ध्वा को नु हृष्येत पण्डितः |
१४ क
सञ्जय़ उवाच:
यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः ||
१४ ख
सञ्जय़ उवाच:
किं नु चित्रमतस्त्वद्य भग्नसक्थस्य यन्मम |
१५ क
सञ्जय़ उवाच:
क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः ||
१५ ख
सञ्जय़ उवाच:
प्रतपन्तं श्रिय़ा जुष्टं वर्तमानं च वन्धुषु |
१६ क
सञ्जय़ उवाच:
एवं कुर्यान्नरो यो हि स वै सञ्जय़ पूजितः ||
१६ ख
सञ्जय़ उवाच:
अभिज्ञौ क्षत्रधर्मस्य मम माता पिता च मे |
१७ क
सञ्जय़ उवाच:
तौ हि सञ्जय़ दुःखार्तौ विज्ञाप्यौ वचनान्मम ||
१७ ख
सञ्जय़ उवाच:
इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा |
१८ क
सञ्जय़ उवाच:
मूर्ध्नि स्थितममित्राणां जीवतामेव सञ्जय़ ||
१८ ख
सञ्जय़ उवाच:
दत्ता दाय़ा यथाशक्ति मित्राणां च प्रिय़ं कृतम् |
१९ क
सञ्जय़ उवाच:
अमित्रा वाधिताः सर्वे को नु स्वन्ततरो मय़ा ||
१९ ख
सञ्जय़ उवाच:
यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत् |
२० क
सञ्जय़ उवाच:
प्रिय़ेभ्यः प्रकृतं साधु को नु स्वन्ततरो मय़ा ||
२० ख
सञ्जय़ उवाच:
मानिता वान्धवाः सर्वे मान्यः सम्पूजितो जनः |
२१ क
सञ्जय़ उवाच:
त्रितय़ं सेवितं सर्वं को नु स्वन्ततरो मय़ा ||
२१ ख
सञ्जय़ उवाच:
आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः |
२२ क
सञ्जय़ उवाच:
आजानेय़ैस्तथा यातं को नु स्वन्ततरो मय़ा ||
२२ ख
सञ्जय़ उवाच:
अधीतं विधिवद्दत्तं प्राप्तमाय़ुर्निरामय़म् |
२३ क
सञ्जय़ उवाच:
स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मय़ा ||
२३ ख
सञ्जय़ उवाच:
दिष्ट्या नाहं जितः सङ्ख्ये परान्प्रेष्यवदाश्रितः |
२४ क
सञ्जय़ उवाच:
दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यं गता विभो ||
२४ ख
सञ्जय़ उवाच:
यदिष्टं क्षत्रवन्धूनां स्वधर्ममनुतिष्ठताम् |
२५ क
सञ्जय़ उवाच:
निधनं तन्मय़ा प्राप्तं को नु स्वन्ततरो मय़ा ||
२५ ख
सञ्जय़ उवाच:
दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवज्जितः |
२६ क
सञ्जय़ उवाच:
दिष्ट्या न विमतिं काञ्चिद्भजित्वा तु पराजितः ||
२६ ख
सञ्जय़ उवाच:
सुप्तं वाथ प्रमत्तं वा यथा हन्याद्विषेण वा |
२७ क
सञ्जय़ उवाच:
एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समय़ं हतः ||
२७ ख
सञ्जय़ उवाच:
अश्वत्थामा महाभागः कृतवर्मा च सात्वतः |
२८ क
सञ्जय़ उवाच:
कृपः शारद्वतश्चैव वक्तव्या वचनान्मम ||
२८ ख
सञ्जय़ उवाच:
अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः |
२९ क
सञ्जय़ उवाच:
विश्वासं समय़घ्नानां न यूय़ं गन्तुमर्हथ ||
२९ ख
सञ्जय़ उवाच:
वातिकांश्चाव्रवीद्राजा पुत्रस्ते सत्यविक्रमः |
३० क
सञ्जय़ उवाच:
अधर्माद्भीमसेनेन निहतोऽहं यथा रणे ||
३० ख
सञ्जय़ उवाच:
सोऽहं द्रोणं स्वर्गगतं शल्यकर्णावुभौ तथा |
३१ क
सञ्जय़ उवाच:
वृषसेनं महावीर्यं शकुनिं चापि सौवलम् ||
३१ ख
सञ्जय़ उवाच:
जलसन्धं महावीर्यं भगदत्तं च पार्थिवम् |
३२ क
सञ्जय़ उवाच:
सौमदत्तिं महेष्वासं सैन्धवं च जय़द्रथम् ||
३२ ख
सञ्जय़ उवाच:
दुःशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा |
३३ क
सञ्जय़ उवाच:
दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ ||
३३ ख
सञ्जय़ उवाच:
एतांश्चान्यांश्च सुवहून्मदीय़ांश्च सहस्रशः |
३४ क
सञ्जय़ उवाच:
पृष्ठतोऽनुगमिष्यामि सार्थहीन इवाध्वगः ||
३४ ख
सञ्जय़ उवाच:
कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम |
३५ क
सञ्जय़ उवाच:
रोरूय़माणा दुःखार्ता दुःशला सा भविष्यति ||
३५ ख
सञ्जय़ उवाच:
स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम |
३६ क
सञ्जय़ उवाच:
गान्धारीसहितः क्रोशन्कां गतिं प्रतिपत्स्यते ||
३६ ख
सञ्जय़ उवाच:
नूनं लक्ष्मणमातापि हतपुत्रा हतेश्वरा |
३७ क
सञ्जय़ उवाच:
विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना ||
३७ ख
सञ्जय़ उवाच:
यदि जानाति चार्वाकः परिव्राड्वाग्विशारदः |
३८ क
सञ्जय़ उवाच:
करिष्यति महाभागो ध्रुवं सोऽपचितिं मम ||
३८ ख
सञ्जय़ उवाच:
समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते |
३९ क
सञ्जय़ उवाच:
अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान् ||
३९ ख
सञ्जय़ उवाच:
ततो जनसहस्राणि वाष्पपूर्णानि मारिष |
४० क
सञ्जय़ उवाच:
प्रलापं नृपतेः श्रुत्वा विद्रवन्ति दिशो दश ||
४० ख
सञ्जय़ उवाच:
ससागरवना घोरा पृथिवी सचराचरा |
४१ क
सञ्जय़ उवाच:
चचालाथ सनिर्ह्रादा दिशश्चैवाविलाभवन् ||
४१ ख
सञ्जय़ उवाच:
ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदय़न् |
४२ क
सञ्जय़ उवाच:
व्यवहारं गदाय़ुद्धे पार्थिवस्य च घातनम् ||
४२ ख
सञ्जय़ उवाच:
तदाख्याय़ ततः सर्वे द्रोणपुत्रस्य भारत |
४३ क
सञ्जय़ उवाच:
ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम् ||
४३ ख