सञ्जय़ उवाच:
ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष |
१ क
सञ्जय़ उवाच:
ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च ||
१ ख
सञ्जय़ उवाच:
अनीकानां च संह्रादे वादित्राणां च निस्वने |
२ क
सञ्जय़ उवाच:
प्रध्मापितेषु शङ्खेषु संनादे लोमहर्षणे ||
२ ख
सञ्जय़ उवाच:
अभिहारय़त्सु शनकैर्भरतेषु युय़ुत्सुषु |
३ क
सञ्जय़ उवाच:
रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत ||
३ ख
सञ्जय़ उवाच:
वडानां वाय़सानां च पुरस्तात्सव्यसाचिनः |
४ क
सञ्जय़ उवाच:
वहुलानि सहस्राणि प्राक्रीडंस्तत्र भारत ||
४ ख
सञ्जय़ उवाच:
मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः |
५ क
सञ्जय़ उवाच:
दक्षिणेन प्रय़ातानामस्माकं प्राणदंस्तथा ||
५ ख
सञ्जय़ उवाच:
सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः |
६ क
सञ्जय़ उवाच:
चचाल च मही कृत्स्ना भय़े घोरे समुत्थिते ||
६ ख
सञ्जय़ उवाच:
विष्वग्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः |
७ क
सञ्जय़ उवाच:
ववुराय़ाति कौन्तेय़े सङ्ग्रामे समुपस्थिते ||
७ ख
सञ्जय़ उवाच:
नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः |
८ क
सञ्जय़ उवाच:
पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा ||
८ ख
सञ्जय़ उवाच:
ततो रथसहस्रेण द्विरदानां शतेन च |
९ क
सञ्जय़ उवाच:
त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः ||
९ ख
सञ्जय़ उवाच:
अध्यर्धमात्रे धनुषां सहस्रे तनय़स्तव |
१० क
सञ्जय़ उवाच:
अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽव्रवीत् ||
१० ख
सञ्जय़ उवाच:
अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् |
११ क
सञ्जय़ उवाच:
अहमावारय़िष्यामि वेलेव मकरालय़म् ||
११ ख
सञ्जय़ उवाच:
अद्य पश्यन्तु सङ्ग्रामे धनञ्जय़ममर्षणम् |
१२ क
सञ्जय़ उवाच:
विषक्तं मय़ि दुर्धर्षमश्मकूटमिवाश्मनि ||
१२ ख
सञ्जय़ उवाच:
एवं व्रुवन्महाराज महात्मा स महामतिः |
१३ क
सञ्जय़ उवाच:
महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः ||
१३ ख
सञ्जय़ उवाच:
ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः |
१४ क
सञ्जय़ उवाच:
दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः ||
१४ ख
सञ्जय़ उवाच:
शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव |
१५ क
सञ्जय़ उवाच:
युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः ||
१५ ख
सञ्जय़ उवाच:
क्रोधामर्षवलोद्धूतो निवातकवचान्तकः |
१६ क
सञ्जय़ उवाच:
जय़ो जेता स्थितः सत्ये पारय़िष्यन्महाव्रतम् ||
१६ ख
सञ्जय़ उवाच:
आमुक्तकवचः खड्गी जाम्वूनदकिरीटभृत् |
१७ क
सञ्जय़ उवाच:
शुभ्रवर्माम्वरधरः स्वङ्गदी चारुकुण्डली ||
१७ ख
सञ्जय़ उवाच:
रथप्रवरमास्थाय़ नरो नाराय़णानुगः |
१८ क
सञ्जय़ उवाच:
विधुन्वन्गाण्डिवं सङ्ख्ये वभौ सूर्य इवोदितः ||
१८ ख
सञ्जय़ उवाच:
सोऽग्रानीकस्य महत इषुपाते धनञ्जय़ः |
१९ क
सञ्जय़ उवाच:
व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान् ||
१९ ख
सञ्जय़ उवाच:
अथ कृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष |
२० क
सञ्जय़ उवाच:
प्राध्मापय़त्पाञ्चजन्यं शङ्खप्रवरमोजसा ||
२० ख
सञ्जय़ उवाच:
तय़ोः शङ्खप्रणादेन तव सैन्ये विशां पते |
२१ क
सञ्जय़ उवाच:
आसन्संहृष्टरोमाणः कम्पिता गतचेतसः ||
२१ ख
सञ्जय़ उवाच:
यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात् |
२२ क
सञ्जय़ उवाच:
तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः ||
२२ ख
सञ्जय़ उवाच:
प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः |
२३ क
सञ्जय़ उवाच:
एवं सवाहनं सर्वमाविग्नमभवद्वलम् ||
२३ ख
सञ्जय़ उवाच:
व्यषीदन्त नरा राजञ्शङ्खशव्देन मारिष |
२४ क
सञ्जय़ उवाच:
विसञ्ज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः ||
२४ ख
सञ्जय़ उवाच:
ततः कपिर्महानादं सह भूतैर्ध्वजालय़ैः |
२५ क
सञ्जय़ उवाच:
अकरोद्व्यादितास्यश्च भीषय़ंस्तव सैनिकान् ||
२५ ख
सञ्जय़ उवाच:
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह |
२६ क
सञ्जय़ उवाच:
पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ||
२६ ख
सञ्जय़ उवाच:
नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः |
२७ क
सञ्जय़ उवाच:
सिंहनादैः सवादित्रैः समाहूतैर्महारथैः ||
२७ ख
सञ्जय़ उवाच:
तस्मिन्सुतुमुले शव्दे भीरूणां भय़वर्धने |
२८ क
सञ्जय़ उवाच:
अतीव हृष्टो दाशार्हमव्रवीत्पाकशासनिः ||
२८ ख
सञ्जय़ उवाच:
चोदय़ाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः |
२९ क
सञ्जय़ उवाच:
एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् ||
२९ ख
सञ्जय़ उवाच:
एवमुक्तो महावाहुः केशवः सव्यसाचिना |
३० क
सञ्जय़ उवाच:
अचोदय़द्धय़ांस्तत्र यत्र दुर्मर्षणः स्थितः ||
३० ख
सञ्जय़ उवाच:
स सम्प्रहारस्तुमुलः सम्प्रवृत्तः सुदारुणः |
३१ क
सञ्जय़ उवाच:
एकस्य च वहूनां च रथनागनरक्षय़ः ||
३१ ख
सञ्जय़ उवाच:
ततः साय़कवर्षेण पर्जन्य इव वृष्टिमान् |
३२ क
सञ्जय़ उवाच:
परानवाकिरत्पार्थः पर्वतानिव नीरदः ||
३२ ख
सञ्जय़ उवाच:
ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् |
३३ क
सञ्जय़ उवाच:
अवाकिरन्वाणजालैस्ततः कृष्णधनञ्जय़ौ ||
३३ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महावाहुर्वार्यमाणः परैर्युधि |
३४ क
सञ्जय़ उवाच:
शिरांसि रथिनां पार्थः काय़ेभ्योऽपाहरच्छरैः ||
३४ ख
सञ्जय़ उवाच:
उद्भ्रान्तनय़नैर्वक्त्रैः सन्दष्टोष्ठपुटैः शुभैः |
३५ क
सञ्जय़ उवाच:
सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत ||
३५ ख
सञ्जय़ उवाच:
पुण्डरीकवनानीव विध्वस्तानि समन्ततः |
३६ क
सञ्जय़ उवाच:
विनिकीर्णानि योधानां वदनानि चकाशिरे ||
३६ ख
सञ्जय़ उवाच:
तपनीय़विचित्राणि सिक्तानि रुधिरेण च |
३७ क
सञ्जय़ उवाच:
अदृश्यन्त यथा राजन्मेघसङ्घाः सविद्युतः ||
३७ ख
सञ्जय़ उवाच:
शिरसां पततां राजञ्शव्दोऽभूत्पृथिवीतले |
३८ क
सञ्जय़ उवाच:
कालेन परिपक्वानां तालानां पततामिव ||
३८ ख
सञ्जय़ उवाच:
ततः कवन्धः कश्चित्तु धनुरालम्व्य तिष्ठति |
३९ क
सञ्जय़ उवाच:
कश्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति ||
३९ ख
सञ्जय़ उवाच:
नाजानन्त शिरांस्युर्व्यां पतितानि नरर्षभाः |
४० क
सञ्जय़ उवाच:
अमृष्यमाणाः कौन्तेय़ं सङ्ग्रामे जय़गृद्धिनः ||
४० ख
सञ्जय़ उवाच:
हय़ानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी |
४१ क
सञ्जय़ उवाच:
वाहुभिश्च शिरोभिश्च वीराणां समकीर्यत ||
४१ ख
सञ्जय़ उवाच:
अय़ं पार्थः कुतः पार्थ एष पार्थ इति प्रभो |
४२ क
सञ्जय़ उवाच:
तव सैन्येषु योधानां पार्थभूतमिवाभवत् ||
४२ ख
सञ्जय़ उवाच:
अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे |
४३ क
सञ्जय़ उवाच:
पार्थभूतममन्यन्त जगत्कालेन मोहिताः ||
४३ ख
सञ्जय़ उवाच:
निष्टनन्तः सरुधिरा विसञ्ज्ञा गाढवेदनाः |
४४ क
सञ्जय़ उवाच:
शय़ाना वहवो वीराः कीर्तय़न्तः सुहृज्जनम् ||
४४ ख
सञ्जय़ उवाच:
सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः |
४५ क
सञ्जय़ उवाच:
सनिर्यूहाः सनिस्त्रिंशाः सशरासनतोमराः ||
४५ ख
सञ्जय़ उवाच:
सवाणवर्माभरणाः सगदाः साङ्गदा रणे |
४६ क
सञ्जय़ उवाच:
महाभुजगसङ्काशा वाहवः परिघोपमाः ||
४६ ख
सञ्जय़ उवाच:
उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः |
४७ क
सञ्जय़ उवाच:
वेगं कुर्वन्ति संरव्धा निकृत्ताः परमेषुभिः ||
४७ ख
सञ्जय़ उवाच:
यो यः स्म समरे पार्थं प्रतिसंरभते नरः |
४८ क
सञ्जय़ उवाच:
तस्य तस्यान्तको वाणः शरीरमुपसर्पति ||
४८ ख
सञ्जय़ उवाच:
नृत्यतो रथमार्गेषु धनुर्व्याय़च्छतस्तथा |
४९ क
सञ्जय़ उवाच:
न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि ||
४९ ख
सञ्जय़ उवाच:
यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् |
५० क
सञ्जय़ उवाच:
लाघवात्पाण्डुपुत्रस्य व्यस्मय़न्त परे जनाः ||
५० ख