chevron_left शान्ति पर्व अध्याय ६४
भीष्म उवाच:
चातुराश्रम्यधर्माश्च जातिधर्माश्च पाण्डव |
१ क
भीष्म उवाच:
लोकपालोत्तराश्चैव क्षात्रे धर्मे व्यवस्थिताः ||
१ ख
भीष्म उवाच:
सर्वाण्येतानि धर्माणि क्षात्रे भरतसत्तम |
२ क
भीष्म उवाच:
निराशिषो जीवलोके क्षात्रे धर्मे व्यवस्थिताः ||
२ ख
भीष्म उवाच:
अप्रत्यक्षं वहुद्वारं धर्ममाश्रमवासिनाम् |
३ क
भीष्म उवाच:
प्ररूपय़न्ति तद्भावमागमैरेव शाश्वतम् ||
३ ख
भीष्म उवाच:
अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चय़म् |
४ क
भीष्म उवाच:
अनिश्चय़ज्ञा धर्माणामदृष्टान्ते परे रताः ||
४ ख
भीष्म उवाच:
प्रत्यक्षसुखभूय़िष्ठमात्मसाक्षिकमच्छलम् |
५ क
भीष्म उवाच:
सर्वलोकहितं धर्मं क्षत्रिय़ेषु प्रतिष्ठितम् ||
५ ख
भीष्म उवाच:
धर्माश्रमव्यवसिनां व्राह्मणानां युधिष्ठिर |
६ क
भीष्म उवाच:
यथा त्रय़ाणां वर्णानां सङ्ख्यातोपश्रुतिः पुरा |
६ ख
भीष्म उवाच:
राजधर्मेष्वनुपमा लोक्या सुचरितैरिह ||
६ ग
भीष्म उवाच:
उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम् |
७ क
भीष्म उवाच:
सर्वभूतेश्वरं देवं प्रभुं नाराय़णं पुरा |
७ ख
भीष्म उवाच:
जग्मुः सुवहवः शूरा राजानो दण्डनीतय़े ||
७ ग
भीष्म उवाच:
एकैकमात्मनः कर्म तुलय़ित्वाश्रमे पुरा |
८ क
भीष्म उवाच:
राजानः पर्युपातिष्ठन्दृष्टान्तवचने स्थिताः ||
८ ख
भीष्म उवाच:
साध्या देवा वसवश्चाश्विनौ च; रुद्राश्च विश्वे मरुतां गणाश्च |
९ क
भीष्म उवाच:
सृष्टाः पुरा आदिदेवेन देवा; क्षात्रे धर्मे वर्तय़न्ते च सिद्धाः ||
९ ख
भीष्म उवाच:
अत्र ते वर्तय़िष्यामि धर्ममर्थविनिश्चय़म् |
१० क
भीष्म उवाच:
निर्मर्यादे वर्तमाने दानवैकाय़ने कृते |
१० ख
भीष्म उवाच:
वभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् ||
१० ग
भीष्म उवाच:
पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षय़ा |
११ क
भीष्म उवाच:
अनादिमध्यनिधनं देवं नाराय़णं प्रति ||
११ ख
भीष्म उवाच:
स राजा राजशार्दूल मान्धाता परमेष्ठिनः |
१२ क
भीष्म उवाच:
जग्राह शिरसा पादौ यज्ञे विष्णोर्महात्मनः ||
१२ ख
भीष्म उवाच:
दर्शय़ामास तं विष्णू रूपमास्थाय़ वासवम् |
१३ क
भीष्म उवाच:
स पार्थिवैर्वृतः सद्भिरर्चय़ामास तं प्रभुम् ||
१३ ख
भीष्म उवाच:
तस्य पार्थिवसङ्घस्य तस्य चैव महात्मनः |
१४ क
भीष्म उवाच:
संवादोऽय़ं महानासीद्विष्णुं प्रति महाद्युते ||
१४ ख
इन्द्र उवाच:
किमिष्यते धर्मभृतां वरिष्ठ; यद्द्रष्टुकामोऽसि तमप्रमेय़म् |
१५ क
इन्द्र उवाच:
अनन्तमाय़ामितसत्त्ववीर्यं; नाराय़णं ह्यादिदेवं पुराणम् ||
१५ ख
इन्द्र उवाच:
नासौ देवो विश्वरूपो मय़ापि; शक्यो द्रष्टुं व्रह्मणा वापि साक्षात् |
१६ क
इन्द्र उवाच:
येऽन्ये कामास्तव राजन्हृदिस्था; दास्यामि तांस्त्वं हि मर्त्येषु राजा ||
१६ ख
इन्द्र उवाच:
सत्ये स्थितो धर्मपरो जितेन्द्रिय़ः; शूरो दृढं प्रीतिरतः सुराणाम् |
१७ क
इन्द्र उवाच:
वुद्ध्या भक्त्या चोत्तमश्रद्धय़ा च; ततस्तेऽहं दद्मि वरं यथेष्टम् ||
१७ ख
मान्धातो उवाच:
असंशय़ं भगवन्नादिदेवं; द्रक्ष्याम्यहं शिरसाहं प्रसाद्य |
१८ क
मान्धातो उवाच:
त्यक्त्वा भोगान्धर्मकामो ह्यरण्य; मिच्छे गन्तुं सत्पथं लोकजुष्टम् ||
१८ ख
मान्धातो उवाच:
क्षात्राद्धर्माद्विपुलादप्रमेय़ा; ल्लोकाः प्राप्ताः स्थापितं स्वं यशश्च |
१९ क
मान्धातो उवाच:
धर्मो योऽसावादिदेवात्प्रवृत्तो; लोकज्येष्ठस्तं न जानामि कर्तुम् ||
१९ ख
इन्द्र उवाच:
असैनिकोऽधर्मपरश्चरेथाः; परां गतिं लप्स्यसे चाप्रमत्तः |
२० क
इन्द्र उवाच:
क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः; पश्चादन्ये शेषभूताश्च धर्माः ||
२० ख
इन्द्र उवाच:
शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः; सुप्रस्थानाः क्षत्रधर्माविशिष्टाः |
२१ क
इन्द्र उवाच:
अस्मिन्धर्मे सर्वधर्माः प्रविष्टा; स्तस्माद्धर्मं श्रेष्ठमिमं वदन्ति ||
२१ ख
इन्द्र उवाच:
कर्मणा वै पुरा देवा ऋषय़श्चामितौजसः |
२२ क
इन्द्र उवाच:
त्राताः सर्वे प्रमथ्यारीन्क्षत्रधर्मेण विष्णुना ||
२२ ख
इन्द्र उवाच:
यदि ह्यसौ भगवान्नाहनिष्य; द्रिपून्सर्वान्वसुमानप्रमेय़ः |
२३ क
इन्द्र उवाच:
न व्राह्मणा न च लोकादिकर्ता; न सद्धर्मा नादिधर्मा भवेय़ुः ||
२३ ख
इन्द्र उवाच:
इमामुर्वीं न जय़ेद्विक्रमेण; देवश्रेष्ठोऽसौ पुरा चेदमेय़ः |
२४ क
इन्द्र उवाच:
चातुर्वर्ण्यं चातुराश्रम्यधर्माः; सर्वे न स्युर्व्रह्मणो वै विनाशात् ||
२४ ख
इन्द्र उवाच:
दृष्टा धर्माः शतधा शाश्वतेन; क्षात्रेण धर्मेण पुनः प्रवृत्ताः |
२५ क
इन्द्र उवाच:
युगे युगे ह्यादिधर्माः प्रवृत्ता; लोकज्येष्ठं क्षत्रधर्मं वदन्ति ||
२५ ख
इन्द्र उवाच:
आत्मत्यागः सर्वभूतानुकम्पा; लोकज्ञानं मोक्षणं पालनं च |
२६ क
इन्द्र उवाच:
विषण्णानां मोक्षणं पीडितानां; क्षात्रे धर्मे विद्यते पार्थिवानाम् ||
२६ ख
इन्द्र उवाच:
निर्मर्यादाः काममन्युप्रवृत्ता; भीता राज्ञो नाधिगच्छन्ति पापम् |
२७ क
इन्द्र उवाच:
शिष्टाश्चान्ये सर्वधर्मोपपन्नाः; साध्वाचाराः साधु धर्मं चरन्ति ||
२७ ख
इन्द्र उवाच:
पुत्रवत्परिपाल्यानि लिङ्गधर्मेण पार्थिवैः |
२८ क
इन्द्र उवाच:
लोके भूतानि सर्वाणि विचरन्ति न संशय़ः ||
२८ ख
इन्द्र उवाच:
सर्वधर्मपरं क्षत्रं लोकज्येष्ठं सनातनम् |
२९ क
इन्द्र उवाच:
शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम् ||
२९ ख