chevron_left अनुशासन पर्व अध्याय ६४
भीष्म उवाच:
सर्वान्कामान्प्रय़च्छन्ति ये प्रय़च्छन्ति काञ्चनम् |
१ क
भीष्म उवाच:
इत्येवं भगवानत्रिः पितामहसुतोऽव्रवीत् ||
१ ख
भीष्म उवाच:
पवित्रं शुच्यथाय़ुष्यं पितॄणामक्षय़ं च तत् |
२ क
भीष्म उवाच:
सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् ||
२ ख
भीष्म उवाच:
पानीय़दानं परमं दानानां मनुरव्रवीत् |
३ क
भीष्म उवाच:
तस्माद्वापीश्च कूपांश्च तडागानि च खानय़ेत् ||
३ ख
भीष्म उवाच:
अर्धं पापस्य हरति पुरुषस्येह कर्मणः |
४ क
भीष्म उवाच:
कूपः प्रवृत्तपानीय़ः सुप्रवृत्तश्च नित्यशः ||
४ ख
भीष्म उवाच:
सर्वं तारय़ते वंशं यस्य खाते जलाशय़े |
५ क
भीष्म उवाच:
गावः पिवन्ति विप्राश्च साधवश्च नराः सदा ||
५ ख
भीष्म उवाच:
निदाघकाले पानीय़ं यस्य तिष्ठत्यवारितम् |
६ क
भीष्म उवाच:
स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुते ||
६ ख
भीष्म उवाच:
वृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च |
७ क
भीष्म उवाच:
अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा ||
७ ख
भीष्म उवाच:
परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम् |
८ क
भीष्म उवाच:
रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् ||
८ ख
भीष्म उवाच:
फलकामो यशस्कामः पुष्टिकामश्च नित्यदा |
९ क
भीष्म उवाच:
घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् ||
९ ख
भीष्म उवाच:
घृतं मासे आश्वय़ुजि विप्रेभ्यो यः प्रय़च्छति |
१० क
भीष्म उवाच:
तस्मै प्रय़च्छतो रूपं प्रीतौ देवाविहाश्विनौ ||
१० ख
भीष्म उवाच:
पाय़सं सर्पिषा मिश्रं द्विजेभ्यो यः प्रय़च्छति |
११ क
भीष्म उवाच:
गृहं तस्य न रक्षांसि धर्षय़न्ति कदाचन ||
११ ख
भीष्म उवाच:
पिपासय़ा न म्रिय़ते सोपच्छन्दश्च दृश्यते |
१२ क
भीष्म उवाच:
न प्राप्नुय़ाच्च व्यसनं करकान्यः प्रय़च्छति ||
१२ ख
भीष्म उवाच:
प्रय़तो व्राह्मणाग्रेभ्यः श्रद्धय़ा परय़ा युतः |
१३ क
भीष्म उवाच:
उपस्पर्शनषड्भागं लभते पुरुषः सदा ||
१३ ख
भीष्म उवाच:
यः साधनार्थं काष्ठानि व्राह्मणेभ्यः प्रय़च्छति |
१४ क
भीष्म उवाच:
प्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः ||
१४ ख
भीष्म उवाच:
सिध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च |
१५ क
भीष्म उवाच:
उपर्युपरि शत्रूणां वपुषा दीप्यते च सः ||
१५ ख
भीष्म उवाच:
भगवांश्चास्य सुप्रीतो वह्निर्भवति नित्यशः |
१६ क
भीष्म उवाच:
न तं त्यजन्ते पशवः सङ्ग्रामे च जय़त्यपि ||
१६ ख
भीष्म उवाच:
पुत्राञ्छ्रिय़ं च लभते यश्छत्रं सम्प्रय़च्छति |
१७ क
भीष्म उवाच:
चक्षुर्व्याधिं न लभते यज्ञभागमथाश्नुते ||
१७ ख
भीष्म उवाच:
निदाघकाले वर्षे वा यश्छत्रं सम्प्रय़च्छति |
१८ क
भीष्म उवाच:
नास्य कश्चिन्मनोदाहः कदाचिदपि जाय़ते |
१८ ख
भीष्म उवाच:
कृच्छ्रात्स विषमाच्चैव विप्र मोक्षमवाप्नुते ||
१८ ग
भीष्म उवाच:
प्रदानं सर्वदानानां शकटस्य विशिष्यते |
१९ क
भीष्म उवाच:
एवमाह महाभागः शाण्डिल्यो भगवानृषिः ||
१९ ख