chevron_left आश्वमेधिक पर्व अध्याय ६४
व्राह्मणा ऊचुः:
क्रिय़तामुपहारोऽद्य त्र्यम्वकस्य महात्मनः |
१ क
व्राह्मणा ऊचुः:
कृत्वोपहारं नृपते ततः स्वार्थे यतामहे ||
१ ख
वैशम्पाय़न उवाच:
श्रुत्वा तु वचनं तेषां व्राह्मणानां युधिष्ठिरः |
२ क
वैशम्पाय़न उवाच:
गिरीशस्य यथान्याय़मुपहारमुपाहरत् ||
२ ख
वैशम्पाय़न उवाच:
आज्येन तर्पय़ित्वाग्निं विधिवत्संस्कृतेन ह |
३ क
वैशम्पाय़न उवाच:
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रय़यौ तदा ||
३ ख
वैशम्पाय़न उवाच:
स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप |
४ क
वैशम्पाय़न उवाच:
मोदकैः पाय़सेनाथ मांसैश्चोपाहरद्वलिम् ||
४ ख
वैशम्पाय़न उवाच:
सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि |
५ क
वैशम्पाय़न उवाच:
सर्वं स्विष्टकृतं कृत्वा विधिवद्वेदपारगः |
५ ख
वैशम्पाय़न उवाच:
किङ्कराणां ततः पश्चाच्चकार वलिमुत्तमम् ||
५ ग
वैशम्पाय़न उवाच:
यक्षेन्द्राय़ कुवेराय़ मणिभद्राय़ चैव ह |
६ क
वैशम्पाय़न उवाच:
तथान्येषां च यक्षाणां भूताधिपतय़श्च ये ||
६ ख
वैशम्पाय़न उवाच:
कृसरेण समांसेन निवापैस्तिलसंय़ुतैः |
७ क
वैशम्पाय़न उवाच:
शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिव ||
७ ख
वैशम्पाय़न उवाच:
कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः |
८ क
वैशम्पाय़न उवाच:
यय़ौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति ||
८ ख
वैशम्पाय़न उवाच:
पूजय़ित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च |
९ क
वैशम्पाय़न उवाच:
सुमनोभिर्विचित्राभिरपूपैः कृसरेण च ||
९ ख
वैशम्पाय़न उवाच:
शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः |
१० क
वैशम्पाय़न उवाच:
अर्चय़ित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्यवान् ||
१० ख
वैशम्पाय़न उवाच:
तेषां पुण्याहघोषेण तेजसा समवस्थितः |
११ क
वैशम्पाय़न उवाच:
प्रीतिमान्स कुरुश्रेष्ठः खानय़ामास तं निधिम् ||
११ ख
वैशम्पाय़न उवाच:
ततः पात्र्यः सकरकाः साश्मन्तकमनोरमाः |
१२ क
वैशम्पाय़न उवाच:
भृङ्गाराणि कटाहानि कलशान्वर्धमानकान् ||
१२ ख
वैशम्पाय़न उवाच:
वहूनि च विचित्राणि भाजनानि सहस्रशः |
१३ क
वैशम्पाय़न उवाच:
उद्धारय़ामास तदा धर्मराजो युधिष्ठिरः ||
१३ ख
वैशम्पाय़न उवाच:
तेषां लक्षणमप्यासीन्महान्करपुटस्तथा |
१४ क
वैशम्पाय़न उवाच:
त्रिलक्षं भाजनं राजंस्तुलार्धमभवन्नृप ||
१४ ख
वैशम्पाय़न उवाच:
वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशां पते |
१५ क
वैशम्पाय़न उवाच:
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हय़ाः ||
१५ ख
वैशम्पाय़न उवाच:
वारणाश्च महाराज सहस्रशतसंमिताः |
१६ क
वैशम्पाय़न उवाच:
शकटानि रथाश्चैव तावदेव करेणवः |
१६ ख
वैशम्पाय़न उवाच:
खराणां पुरुषाणां च परिसङ्ख्या न विद्यते ||
१६ ग
वैशम्पाय़न उवाच:
एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः |
१७ क
वैशम्पाय़न उवाच:
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम् ||
१७ ख
वैशम्पाय़न उवाच:
एतेष्वाधाय़ तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः |
१८ क
वैशम्पाय़न उवाच:
महादेवं प्रति यय़ौ पुरं नागाह्वय़ं प्रति ||
१८ ख
वैशम्पाय़न उवाच:
द्वैपाय़नाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् |
१९ क
वैशम्पाय़न उवाच:
गोय़ुते गोय़ुते चैव न्यवसत्पुरुषर्षभः ||
१९ ख
वैशम्पाय़न उवाच:
सा पुराभिमुखी राजञ्जगाम महती चमूः |
२० क
वैशम्पाय़न उवाच:
कृच्छ्राद्द्रविणभारार्ता हर्षय़न्ती कुरूद्वहान् ||
२० ख