chevron_left सभा पर्व अध्याय ६४
कर्ण उवाच:
या नः श्रुता मनुष्येषु स्त्रिय़ो रूपेण संमताः |
१ क
कर्ण उवाच:
तासामेतादृशं कर्म न कस्याञ्चन शुश्रुमः ||
१ ख
कर्ण उवाच:
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति |
२ क
कर्ण उवाच:
द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् ||
२ ख
कर्ण उवाच:
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् |
३ क
कर्ण उवाच:
पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत् ||
३ ख
वैशम्पाय़न उवाच:
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः |
४ क
वैशम्पाय़न उवाच:
स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः ||
४ ख
वैशम्पाय़न उवाच:
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽव्रवीत् |
५ क
वैशम्पाय़न उवाच:
अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ||
५ ख
वैशम्पाय़न उवाच:
अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते |
६ क
वैशम्पाय़न उवाच:
देहे त्रितय़मेवैतत्पुरुषस्योपजाय़ते ||
६ ख
वैशम्पाय़न उवाच:
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् |
७ क
वैशम्पाय़न उवाच:
धनञ्जय़ कथं स्वित्स्यादपत्यमभिमृष्टजम् ||
७ ख
अर्जुन उवाच:
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः |
८ क
अर्जुन उवाच:
भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः ||
८ ख
अर्जुन उवाच:
स्मरन्ति सुकृतान्येव न वैराणि कृतानि च |
९ क
अर्जुन उवाच:
सन्तः प्रतिविजानन्तो लव्ध्वा प्रत्ययमात्मनः ||
९ ख
भीम उवाच:
इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान् |
१० क
भीम उवाच:
अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत ||
१० ख
भीम उवाच:
किं नो विवदितेनेह किं नः क्लेशेन भारत |
११ क
भीम उवाच:
अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम् ||
११ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः |
१२ क
वैशम्पाय़न उवाच:
मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत ||
१२ ख
वैशम्पाय़न उवाच:
सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा |
१३ क
वैशम्पाय़न उवाच:
स्विद्यते च महावाहुरन्तर्दाहेन वीर्यवान् ||
१३ ख
वैशम्पाय़न उवाच:
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप |
१४ क
वैशम्पाय़न उवाच:
सधूमः सस्फुलिङ्गार्चिः पावकः समजाय़त ||
१४ ख
वैशम्पाय़न उवाच:
भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् |
१५ क
वैशम्पाय़न उवाच:
युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः ||
१५ ख
वैशम्पाय़न उवाच:
युधिष्ठिरस्तमावार्य वाहुना वाहुशालिनम् |
१६ क
वैशम्पाय़न उवाच:
मैवमित्यव्रवीच्चैनं जोषमास्स्वेति भारत ||
१६ ख
वैशम्पाय़न उवाच:
निवार्य तं महावाहुं कोपसंरक्तलोचनम् |
१७ क
वैशम्पाय़न उवाच:
पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः ||
१७ ख