वैशम्पाय़न उवाच:
ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवीञ्जय़ः |
१ क
वैशम्पाय़न उवाच:
सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत ||
१ ख
वैशम्पाय़न उवाच:
स तं रुधिरसंसिक्तमनेकाग्रमनागसम् |
२ क
वैशम्पाय़न उवाच:
भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम् ||
२ ख
वैशम्पाय़न उवाच:
ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः |
३ क
वैशम्पाय़न उवाच:
केनाय़ं ताडितो राजन्केन पापमिदं कृतम् ||
३ ख
विराट उवाच:
मय़ाय़ं ताडितो जिह्मो न चाप्येतावदर्हति |
४ क
विराट उवाच:
प्रशस्यमाने यः शूरे त्वय़ि षण्ढं प्रशंसति ||
४ ख
उत्तर उवाच:
अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम् |
५ क
उत्तर उवाच:
मा त्वा व्रह्मविषं घोरं समूलमपि निर्दहेत् ||
५ ख
वैशम्पाय़न उवाच:
स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः |
६ क
वैशम्पाय़न उवाच:
क्षमय़ामास कौन्तेय़ं भस्मच्छन्नमिवानलम् ||
६ ख
वैशम्पाय़न उवाच:
क्षमय़न्तं तु राजानं पाण्डवः प्रत्यभाषत |
७ क
वैशम्पाय़न उवाच:
चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम ||
७ ख
वैशम्पाय़न उवाच:
यदि ह्येतत्पतेद्भूमौ रुधिरं मम नस्ततः |
८ क
वैशम्पाय़न उवाच:
सराष्ट्रस्त्वं महाराज विनश्येथा न संशय़ः ||
८ ख
वैशम्पाय़न उवाच:
न दूषय़ामि ते राजन्यच्च हन्याददूषकम् |
९ क
वैशम्पाय़न उवाच:
वलवन्तं महाराज क्षिप्रं दारुणमाप्नुय़ात् ||
९ ख
वैशम्पाय़न उवाच:
शोणिते तु व्यतिक्रान्ते प्रविवेश वृहन्नडा |
१० क
वैशम्पाय़न उवाच:
अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत ||
१० ख
वैशम्पाय़न उवाच:
क्षमय़ित्वा तु कौरव्यं रणादुत्तरमागतम् |
११ क
वैशम्पाय़न उवाच:
प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः ||
११ ख
वैशम्पाय़न उवाच:
त्वय़ा दाय़ादवानस्मि कैकेय़ीनन्दिवर्धन |
१२ क
वैशम्पाय़न उवाच:
त्वय़ा मे सदृशः पुत्रो न भूतो न भविष्यति ||
१२ ख
वैशम्पाय़न उवाच:
पदं पदसहस्रेण यश्चरन्नापराध्नुय़ात् |
१३ क
वैशम्पाय़न उवाच:
तेन कर्णेन ते तात कथमासीत्समागमः ||
१३ ख
वैशम्पाय़न उवाच:
मनुष्यलोके सकले यस्य तुल्यो न विद्यते |
१४ क
वैशम्पाय़न उवाच:
यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः |
१४ ख
वैशम्पाय़न उवाच:
तेन भीष्मेण ते तात कथमासीत्समागमः ||
१४ ग
वैशम्पाय़न उवाच:
आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः |
१५ क
वैशम्पाय़न उवाच:
सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः |
१५ ख
वैशम्पाय़न उवाच:
तेन द्रोणेन ते तात कथमासीत्समागमः ||
१५ ग
वैशम्पाय़न उवाच:
आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि |
१६ क
वैशम्पाय़न उवाच:
अश्वत्थामेति विख्यातः कथं तेन समागमः ||
१६ ख
वैशम्पाय़न उवाच:
रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा |
१७ क
वैशम्पाय़न उवाच:
कृपेण तेन ते तात कथमासीत्समागमः ||
१७ ख
वैशम्पाय़न उवाच:
पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः |
१८ क
वैशम्पाय़न उवाच:
दुर्योधनेन ते तात कथमासीत्समागमः ||
१८ ख
उत्तर उवाच:
न मय़ा निर्जिता गावो न मय़ा निर्जिताः परे |
१९ क
उत्तर उवाच:
कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित् ||
१९ ख
उत्तर उवाच:
स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारय़त् |
२० क
उत्तर उवाच:
स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा ||
२० ख
उत्तर उवाच:
तेन ता निर्जिता गावस्तेन ते कुरवो जिताः |
२१ क
उत्तर उवाच:
तस्य तत्कर्म वीरस्य न मय़ा तात तत्कृतम् ||
२१ ख
उत्तर उवाच:
स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् |
२२ क
उत्तर उवाच:
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ||
२२ ख
उत्तर उवाच:
दुर्योधनं च समरे सनागमिव यूथपम् |
२३ क
उत्तर उवाच:
प्रभग्नमव्रवीद्भीतं राजपुत्रं महावलम् ||
२३ ख
उत्तर उवाच:
न हास्तिनपुरे त्राणं तव पश्यामि किञ्चन |
२४ क
उत्तर उवाच:
व्याय़ामेन परीप्सस्व जीवितं कौरवात्मज ||
२४ ख
उत्तर उवाच:
न मोक्ष्यसे पलाय़ंस्त्वं राजन्युद्धे मनः कुरु |
२५ क
उत्तर उवाच:
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ||
२५ ख
उत्तर उवाच:
स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् |
२६ क
उत्तर उवाच:
सचिवैः संवृतो राजा रथे नाग इव श्वसन् ||
२६ ख
उत्तर उवाच:
तत्र मे रोमहर्षोऽभूदूरुस्तम्भश्च मारिष |
२७ क
उत्तर उवाच:
यदभ्रघनसङ्काशमनीकं व्यधमच्छरैः ||
२७ ख
उत्तर उवाच:
तत्प्रणुद्य रथानीकं सिंहसंहननो युवा |
२८ क
उत्तर उवाच:
कुरूंस्तान्प्रहसन्राजन्वासांस्यपहरद्वली ||
२८ ख
उत्तर उवाच:
एकेन तेन वीरेण षड्रथाः परिवारिताः |
२९ क
उत्तर उवाच:
शार्दूलेनेव मत्तेन मृगास्तृणचरा वने ||
२९ ख
विराट उवाच:
क्व स वीरो महावाहुर्देवपुत्रो महाय़शाः |
३० क
विराट उवाच:
यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे ||
३० ख
विराट उवाच:
इच्छामि तमहं द्रष्टुमर्चितुं च महावलम् |
३१ क
विराट उवाच:
येन मे त्वं च गावश्च रक्षिता देवसूनुना ||
३१ ख
उत्तर उवाच:
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् |
३२ क
उत्तर उवाच:
स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ||
३२ ख
वैशम्पाय़न उवाच:
एवमाख्याय़मानं तु छन्नं सत्रेण पाण्डवम् |
३३ क
वैशम्पाय़न उवाच:
वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम् ||
३३ ख
वैशम्पाय़न उवाच:
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना |
३४ क
वैशम्पाय़न उवाच:
प्रददौ तानि वासांसि विराटदुहितुः स्वय़म् ||
३४ ख
वैशम्पाय़न उवाच:
उत्तरा तु महार्हाणि विविधानि तनूनि च |
३५ क
वैशम्पाय़न उवाच:
प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी ||
३५ ख
वैशम्पाय़न उवाच:
मन्त्रय़ित्वा तु कौन्तेय़ उत्तरेण रहस्तदा |
३६ क
वैशम्पाय़न उवाच:
इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे ||
३६ ख
वैशम्पाय़न उवाच:
ततस्तथा तद्व्यदधाद्यथावत्पुरुषर्षभ |
३७ क
वैशम्पाय़न उवाच:
सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः ||
३७ ख