वैशम्पाय़न उवाच:
एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुय़ोधनम् |
१ क
वैशम्पाय़न उवाच:
पुनरेव महाभागः सञ्जय़ं पर्यपृच्छत ||
१ ख
वैशम्पाय़न उवाच:
व्रूहि सञ्जय़ यच्छेषं वासुदेवादनन्तरम् |
२ क
वैशम्पाय़न उवाच:
यदर्जुन उवाच त्वां परं कौतूहलं हि मे ||
२ ख
सञ्जय़ उवाच:
वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जय़ः |
३ क
सञ्जय़ उवाच:
उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः ||
३ ख
सञ्जय़ उवाच:
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय़ |
४ क
सञ्जय़ उवाच:
द्रोणं कृपं च कर्णं च महाराजं च वाह्लिकम् ||
४ ख
सञ्जय़ उवाच:
द्रौणिं च सोमदत्तं च शकुनिं चापि सौवलम् |
५ क
सञ्जय़ उवाच:
दुःशासनं शलं चैव पुरुमित्रं विविंशतिम् ||
५ ख
सञ्जय़ उवाच:
विकर्णं चित्रसेनं च जय़त्सेनं च पार्थिवम् |
६ क
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम् ||
६ ख
सञ्जय़ उवाच:
सैन्धवं दुःसहं चैव भूरिश्रवसमेव च |
७ क
सञ्जय़ उवाच:
भगदत्तं च राजानं जलसन्धं च पार्थिवम् ||
७ ख
सञ्जय़ उवाच:
ये चाप्यन्ये पार्थिवास्तत्र योद्धुं; समागताः कौरवाणां प्रिय़ार्थम् |
८ क
सञ्जय़ उवाच:
मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते; समानीता धार्तराष्ट्रेण सूत ||
८ ख
सञ्जय़ उवाच:
यथान्याय़ं कौशलं वन्दनं च; समागता मद्वचनेन वाच्याः |
९ क
सञ्जय़ उवाच:
इदं व्रूय़ाः सञ्जय़ राजमध्ये; सुय़ोधनं पापकृतां प्रधानम् ||
९ ख
सञ्जय़ उवाच:
अमर्षणं दुर्मतिं राजपुत्रं; पापात्मानं धार्तराष्ट्रं सुलुव्धम् |
१० क
सञ्जय़ उवाच:
सर्वं ममैतद्वचनं समग्रं; सहामात्यं सञ्जय़ श्रावय़ेथाः ||
१० ख
सञ्जय़ उवाच:
एवं प्रतिष्ठाप्य धनञ्जय़ो मां; ततोऽर्थवद्धर्मवच्चापि वाक्यम् |
११ क
सञ्जय़ उवाच:
प्रोवाचेदं वासुदेवं समीक्ष्य; पार्थो धीमाँल्लोहितान्ताय़ताक्षः ||
११ ख
सञ्जय़ उवाच:
यथा श्रुतं ते वदतो महात्मनो; मधुप्रवीरस्य वचः समाहितम् |
१२ क
सञ्जय़ उवाच:
तथैव वाच्यं भवता हि मद्वचः; समागतेषु क्षितिपेषु सर्वशः ||
१२ ख
सञ्जय़ उवाच:
शराग्निधूमे रथनेमिनादिते; धनुःस्रुवेणास्त्रवलापहारिणा |
१३ क
सञ्जय़ उवाच:
यथा न होमः क्रिय़ते महामृधे; तथा समेत्य प्रय़तध्वमादृताः ||
१३ ख
सञ्जय़ उवाच:
न चेत्प्रय़च्छध्वममित्रघातिनो; युधिष्ठिरस्यांशमभीप्सितं स्वकम् |
१४ क
सञ्जय़ उवाच:
नय़ामि वः स्वाश्वपदातिकुञ्जरा; न्दिशं पितॄणामशिवां शितैः शरैः ||
१४ ख
सञ्जय़ उवाच:
ततोऽहमामन्त्र्य चतुर्भुजं हरिं; धनञ्जय़ं चैव नमस्य सत्वरः |
१५ क
सञ्जय़ उवाच:
जवेन सम्प्राप्त इहामरद्युते; तवान्तिकं प्रापय़ितुं वचो महत् ||
१५ ख