सञ्जय़ उवाच:
तद्देवनागासुरसिद्धसङ्घै; र्गन्धर्वय़क्षाप्सरसां च सङ्घैः |
१ क
सञ्जय़ उवाच:
व्रह्मर्षिराजर्षिसुपर्णजुष्टं; वभौ विय़द्विस्मय़नीय़रूपम् ||
१ ख
सञ्जय़ उवाच:
नानद्यमानं निनदैर्मनोज्ञै; र्वादित्रगीतस्तुतिभिश्च नृत्तैः |
२ क
सञ्जय़ उवाच:
सर्वेऽन्तरिक्षे ददृशुर्मनुष्याः; खस्थांश्च तान्विस्मय़नीय़रूपान् ||
२ ख
सञ्जय़ उवाच:
ततः प्रहृष्टाः कुरुपाण्डुय़ोधा; वादित्रपत्राय़ुधसिंहनादैः |
३ क
सञ्जय़ उवाच:
निनादय़न्तो वसुधां दिशश्च; स्वनेन सर्वे द्विषतो निजघ्नुः ||
३ ख
सञ्जय़ उवाच:
नानाश्वमातङ्गरथाय़ुताकुलं; वरासिशक्त्यृष्टिनिपातदुःसहम् |
४ क
सञ्जय़ उवाच:
अभीरुजुष्टं हतदेहसङ्कुलं; रणाजिरं लोहितरक्तमावभौ ||
४ ख
सञ्जय़ उवाच:
तथा प्रवृत्तेऽस्त्रभृतां पराभवे; धनञ्जय़श्चाधिरथिश्च साय़कैः |
५ क
सञ्जय़ उवाच:
दिशश्च सैन्यं च शितैरजिह्मगैः; परस्परं प्रोर्णुवतुः स्म दंशितौ ||
५ ख
सञ्जय़ उवाच:
ततस्त्वदीय़ाश्च परे च साय़कैः; कृतेऽन्धकारे विविदुर्न किञ्चन |
६ क
सञ्जय़ उवाच:
भय़ात्तु तावेव रथौ समाश्रय़ं; स्तमोनुदौ खे प्रसृता इवांशवः ||
६ ख
सञ्जय़ उवाच:
ततोऽस्त्रमस्त्रेण परस्परस्य तौ; विधूय़ वाताविव पूर्वपश्चिमौ |
७ क
सञ्जय़ उवाच:
घनान्धकारे वितते तमोनुदौ; यथोदितौ तद्वदतीव रेजतुः ||
७ ख
सञ्जय़ उवाच:
न चाभिमन्तव्यमिति प्रचोदिताः; परे त्वदीय़ाश्च तदावतस्थिरे |
८ क
सञ्जय़ उवाच:
महारथौ तौ परिवार्य सर्वतः; सुरासुरा वासवशम्वराविव ||
८ ख
सञ्जय़ उवाच:
मृदङ्गभेरीपणवानकस्वनै; र्निनादिते भारत शङ्खनिस्वनैः |
९ क
सञ्जय़ उवाच:
ससिंहनादौ वभतुर्नरोत्तमौ; शशाङ्कसूर्याविव मेघसम्प्लवे ||
९ ख
सञ्जय़ उवाच:
महाधनुर्मण्डलमध्यगावुभौ; सुवर्चसौ वाणसहस्ररश्मिनौ |
१० क
सञ्जय़ उवाच:
दिधक्षमाणौ सचराचरं जग; द्युगास्तसूर्याविव दुःसहौ रणे ||
१० ख
सञ्जय़ उवाच:
उभावजेय़ावहितान्तकावुभौ; जिघांसतुस्तौ कृतिनौ परस्परम् |
११ क
सञ्जय़ उवाच:
महाहवे वीरवरौ समीय़तु; र्यथेन्द्रजम्भाविव कर्णपाण्डवौ ||
११ ख
सञ्जय़ उवाच:
ततो महास्त्राणि महाधनुर्धरौ; विमुञ्चमानाविषुभिर्भय़ानकैः |
१२ क
सञ्जय़ उवाच:
नराश्वनागानमितौ निजघ्नतुः; परस्परं जघ्नतुरुत्तमेषुभिः ||
१२ ख
सञ्जय़ उवाच:
ततो विसस्रुः पुनरर्दिताः शरै; र्नरोत्तमाभ्यां कुरुपाण्डवाश्रय़ाः |
१३ क
सञ्जय़ उवाच:
सनागपत्त्यश्वरथा दिशो गता; स्तथा यथा सिंहभय़ाद्वनौकसः ||
१३ ख
सञ्जय़ उवाच:
ततस्तु दुर्योधनभोजसौवलाः; कृपश्च शारद्वतसूनुना सह |
१४ क
सञ्जय़ उवाच:
महारथाः पञ्च धनञ्जय़ाच्युतौ; शरैः शरीरान्तकरैरताडय़न् ||
१४ ख
सञ्जय़ उवाच:
धनूंषि तेषामिषुधीन्हय़ान्ध्वजा; न्रथांश्च सूतांश्च धनञ्जय़ः शरैः |
१५ क
सञ्जय़ उवाच:
समं च चिच्छेद पराभिनच्च ता; ञ्शरोत्तमैर्द्वादशभिश्च सूतजम् ||
१५ ख
सञ्जय़ उवाच:
अथाभ्यधावंस्त्वरिताः शतं रथाः; शतं च नागार्जुनमातताय़िनः |
१६ क
सञ्जय़ उवाच:
शकास्तुखारा यवनाश्च सादिनः; सहैव काम्वोजवरैर्जिघांसवः ||
१६ ख
सञ्जय़ उवाच:
वराय़ुधान्पाणिगतान्करैः सह; क्षुरैर्न्यकृन्तंस्त्वरिताः शिरांसि च |
१७ क
सञ्जय़ उवाच:
हय़ांश्च नागांश्च रथांश्च युध्यतां; धनञ्जय़ः शत्रुगणं तमक्षिणोत् ||
१७ ख
सञ्जय़ उवाच:
ततोऽन्तरिक्षे सुरतूर्यनिस्वनाः; ससाधुवादा हृषितैः समीरिताः |
१८ क
सञ्जय़ उवाच:
निपेतुरप्युत्तमपुष्पवृष्टय़ः; सुरूपगन्धाः पवनेरिताः शिवाः ||
१८ ख
सञ्जय़ उवाच:
तदद्भुतं देवमनुष्यसाक्षिकं; समीक्ष्य भूतानि विसिष्मिय़ुर्नृप |
१९ क
सञ्जय़ उवाच:
तवात्मजः सूतसुतश्च न व्यथां; न विस्मय़ं जग्मतुरेकनिश्चय़ौ ||
१९ ख
सञ्जय़ उवाच:
अथाव्रवीद्द्रोणसुतस्तवात्मजं; करं करेण प्रतिपीड्य सान्त्वय़न् |
२० क
सञ्जय़ उवाच:
प्रसीद दुर्योधन शाम्य पाण्डवै; रलं विरोधेन धिगस्तु विग्रहम् ||
२० ख
सञ्जय़ उवाच:
हतो गुरुर्व्रह्मसमो महास्त्रवि; त्तथैव भीष्मप्रमुखा नरर्षभाः |
२१ क
सञ्जय़ उवाच:
अहं त्ववध्यो मम चापि मातुलः; प्रशाधि राज्यं सह पाण्डवैश्चिरम् ||
२१ ख
सञ्जय़ उवाच:
धनञ्जय़ः स्थास्यति वारितो मय़ा; जनार्दनो नैव विरोधमिच्छति |
२२ क
सञ्जय़ उवाच:
युधिष्ठिरो भूतहिते सदा रतो; वृकोदरस्तद्वशगस्तथा यमौ ||
२२ ख
सञ्जय़ उवाच:
त्वय़ा च पार्थैश्च परस्परेण; प्रजाः शिवं प्राप्नुय़ुरिच्छति त्वय़ि |
२३ क
सञ्जय़ उवाच:
व्रजन्तु शेषाः स्वपुराणि पार्थिवा; निवृत्तवैराश्च भवन्तु सैनिकाः ||
२३ ख
सञ्जय़ उवाच:
न चेद्वचः श्रोष्यसि मे नराधिप; ध्रुवं प्रतप्तासि हतोऽरिभिर्युधि |
२४ क
सञ्जय़ उवाच:
इदं च दृष्टं जगता सह त्वय़ा; कृतं यदेकेन किरीटमालिना |
२४ ख
सञ्जय़ उवाच:
यथा न कुर्याद्वलभिन्न चान्तको; न च प्रचेता भगवान्न यक्षराट् ||
२४ ग
सञ्जय़ उवाच:
अतोऽपि भूय़ांश्च गुणैर्धनञ्जय़ः; स चाभिपत्स्यत्यखिलं वचो मम |
२५ क
सञ्जय़ उवाच:
तवानुय़ात्रां च तथा करिष्यति; प्रसीद राजञ्जगतः शमाय़ वै ||
२५ ख
सञ्जय़ उवाच:
ममापि मानः परमः सदा त्वय़ि; व्रवीम्यतस्त्वां परमाच्च सौहृदात् |
२६ क
सञ्जय़ उवाच:
निवारय़िष्यामि हि कर्णमप्यहं; यदा भवान्सप्रणय़ो भविष्यति ||
२६ ख
सञ्जय़ उवाच:
वदन्ति मित्रं सहजं विचक्षणा; स्तथैव साम्ना च धनेन चार्जितम् |
२७ क
सञ्जय़ उवाच:
प्रतापतश्चोपनतं चतुर्विधं; तदस्ति सर्वं त्वय़ि पाण्डवेषु च ||
२७ ख
सञ्जय़ उवाच:
निसर्गतस्ते तव वीर वान्धवाः; पुनश्च साम्ना च समाप्नुहि स्थिरम् |
२८ क
सञ्जय़ उवाच:
त्वय़ि प्रसन्ने यदि मित्रतामिय़ु; र्ध्रुवं नरेन्द्रेन्द्र तथा त्वमाचर ||
२८ ख
सञ्जय़ उवाच:
स एवमुक्तः सुहृदा वचो हितं; विचिन्त्य निःश्वस्य च दुर्मनाव्रवीत् |
२९ क
सञ्जय़ उवाच:
यथा भवानाह सखे तथैव त; न्ममापि च ज्ञापय़तो वचः शृणु ||
२९ ख
सञ्जय़ उवाच:
निहत्य दुःशासनमुक्तवान्वहु; प्रसह्य शार्दूलवदेष दुर्मतिः |
३० क
सञ्जय़ उवाच:
वृकोदरस्तद्धृदय़े मम स्थितं; न तत्परोक्षं भवतः कुतः शमः ||
३० ख
सञ्जय़ उवाच:
न चापि कर्णं गुरुपुत्र संस्तवा; दुपारमेत्यर्हसि वक्तुमच्युत |
३१ क
सञ्जय़ उवाच:
श्रमेण युक्तो महताद्य फल्गुन; स्तमेष कर्णः प्रसभं हनिष्यति ||
३१ ख
सञ्जय़ उवाच:
तमेवमुक्त्वाभ्यनुनीय़ चासकृ; त्तवात्मजः स्वाननुशास्ति सैनिकान् |
३२ क
सञ्जय़ उवाच:
समाघ्नताभिद्रवताहितानिमा; न्सवाणशव्दान्किमु जोषमास्यते ||
३२ ख