chevron_left शल्य पर्व अध्याय ६४
सञ्जय़ उवाच:
वातिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम् |
१ क
सञ्जय़ उवाच:
हतशिष्टास्ततो राजन्कौरवाणां महारथाः ||
१ ख
सञ्जय़ उवाच:
विनिर्भिन्नाः शितैर्वाणैर्गदातोमरशक्तिभिः |
२ क
सञ्जय़ उवाच:
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः |
२ ख
सञ्जय़ उवाच:
त्वरिता जवनैरश्वैराय़ोधनमुपागमन् ||
२ ग
सञ्जय़ उवाच:
तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम् |
३ क
सञ्जय़ उवाच:
प्रभग्नं वाय़ुवेगेन महाशालं यथा वने ||
३ ख
सञ्जय़ उवाच:
भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम् |
४ क
सञ्जय़ उवाच:
महागजमिवारण्ये व्याधेन विनिपातितम् ||
४ ख
सञ्जय़ उवाच:
विवर्तमानं वहुशो रुधिरौघपरिप्लुतम् |
५ क
सञ्जय़ उवाच:
यदृच्छय़ा निपतितं चक्रमादित्यगोचरम् ||
५ ख
सञ्जय़ उवाच:
महावातसमुत्थेन संशुष्कमिव सागरम् |
६ क
सञ्जय़ उवाच:
पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम् ||
६ ख
सञ्जय़ उवाच:
रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम् |
७ क
सञ्जय़ उवाच:
वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः |
७ ख
सञ्जय़ उवाच:
यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम् ||
७ ग
सञ्जय़ उवाच:
भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम् |
८ क
सञ्जय़ उवाच:
सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा ||
८ ख
सञ्जय़ उवाच:
ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम् |
९ क
सञ्जय़ उवाच:
मोहमभ्यागमन्सर्वे कृपप्रभृतय़ो रथाः ||
९ ख
सञ्जय़ उवाच:
अवतीर्य रथेभ्यस्तु प्राद्रवन्राजसंनिधौ |
१० क
सञ्जय़ उवाच:
दुर्योधनं च सम्प्रेक्ष्य सर्वे भूमावुपाविशन् ||
१० ख
सञ्जय़ उवाच:
ततो द्रौणिर्महाराज वाष्पपूर्णेक्षणः श्वसन् |
११ क
सञ्जय़ उवाच:
उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम् ||
११ ख
सञ्जय़ उवाच:
न नूनं विद्यतेऽसह्यं मानुष्ये किञ्चिदेव हि |
१२ क
सञ्जय़ उवाच:
यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः ||
१२ ख
सञ्जय़ उवाच:
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम् |
१३ क
सञ्जय़ उवाच:
कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने ||
१३ ख
सञ्जय़ उवाच:
दुःशासनं न पश्यामि नापि कर्णं महारथम् |
१४ क
सञ्जय़ उवाच:
नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ ||
१४ ख
सञ्जय़ उवाच:
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चन |
१५ क
सञ्जय़ उवाच:
लोकानां च भवान्यत्र शेते पांसुषु रूषितः ||
१५ ख
सञ्जय़ उवाच:
एष मूर्धावसिक्तानामग्रे गत्वा परन्तपः |
१६ क
सञ्जय़ उवाच:
सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम् ||
१६ ख
सञ्जय़ उवाच:
क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव |
१७ क
सञ्जय़ उवाच:
सा च ते महती सेना क्व गता पार्थिवोत्तम ||
१७ ख
सञ्जय़ उवाच:
दुर्विज्ञेय़ा गतिर्नूनं कार्याणां कारणान्तरे |
१८ क
सञ्जय़ उवाच:
यद्वै लोकगुरुर्भूत्वा भवानेतां दशां गतः ||
१८ ख
सञ्जय़ उवाच:
अध्रुवा सर्वमर्त्येषु ध्रुवं श्रीरुपलक्ष्यते |
१९ क
सञ्जय़ उवाच:
भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम् ||
१९ ख
सञ्जय़ उवाच:
तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः |
२० क
सञ्जय़ उवाच:
उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः ||
२० ख
सञ्जय़ उवाच:
विमृज्य नेत्रे पाणिभ्यां शोकजं वाष्पमुत्सृजन् |
२१ क
सञ्जय़ उवाच:
कृपादीन्स तदा वीरान्सर्वानेव नराधिपः ||
२१ ख
सञ्जय़ उवाच:
ईदृशो मर्त्यधर्मोऽय़ं धात्रा निर्दिष्ट उच्यते |
२२ क
सञ्जय़ उवाच:
विनाशः सर्वभूतानां कालपर्याय़कारितः ||
२२ ख
सञ्जय़ उवाच:
सोऽय़ं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः |
२३ क
सञ्जय़ उवाच:
पृथिवीं पालय़ित्वाहमेतां निष्ठामुपागतः ||
२३ ख
सञ्जय़ उवाच:
दिष्ट्या नाहं परावृत्तो युद्धे कस्याञ्चिदापदि |
२४ क
सञ्जय़ उवाच:
दिष्ट्याहं निहतः पापैश्छलेनैव विशेषतः ||
२४ ख
सञ्जय़ उवाच:
उत्साहश्च कृतो नित्यं मय़ा दिष्ट्या युय़ुत्सता |
२५ क
सञ्जय़ उवाच:
दिष्ट्या चास्मि हतो युद्धे निहतज्ञातिवान्धवः ||
२५ ख
सञ्जय़ उवाच:
दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षय़ात् |
२६ क
सञ्जय़ उवाच:
स्वस्तिय़ुक्तांश्च कल्यांश्च तन्मे प्रिय़मनुत्तमम् ||
२६ ख
सञ्जय़ उवाच:
मा भवन्तोऽनुतप्यन्तां सौहृदान्निधनेन मे |
२७ क
सञ्जय़ उवाच:
यदि वेदाः प्रमाणं वो जिता लोका मय़ाक्षय़ाः ||
२७ ख
सञ्जय़ उवाच:
मन्यमानः प्रभावं च कृष्णस्यामिततेजसः |
२८ क
सञ्जय़ उवाच:
तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात् ||
२८ ख
सञ्जय़ उवाच:
स मय़ा समनुप्राप्तो नास्मि शोच्यः कथञ्चन |
२९ क
सञ्जय़ उवाच:
कृतं भवद्भिः सदृशमनुरूपमिवात्मनः |
२९ ख
सञ्जय़ उवाच:
यतितं विजय़े नित्यं दैवं तु दुरतिक्रमम् ||
२९ ग
सञ्जय़ उवाच:
एतावदुक्त्वा वचनं वाष्पव्याकुललोचनः |
३० क
सञ्जय़ उवाच:
तूष्णीं वभूव राजेन्द्र रुजासौ विह्वलो भृशम् ||
३० ख
सञ्जय़ उवाच:
तथा तु दृष्ट्वा राजानं वाष्पशोकसमन्वितम् |
३१ क
सञ्जय़ उवाच:
द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षय़े ||
३१ ख
सञ्जय़ उवाच:
स तु क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च |
३२ क
सञ्जय़ उवाच:
वाष्पविह्वलय़ा वाचा राजानमिदमव्रवीत् ||
३२ ख
सञ्जय़ उवाच:
पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा |
३३ क
सञ्जय़ उवाच:
न तथा तेन तप्यामि यथा राजंस्त्वय़ाद्य वै ||
३३ ख
सञ्जय़ उवाच:
शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो |
३४ क
सञ्जय़ उवाच:
इष्टापूर्तेन दानेन धर्मेण सुकृतेन च ||
३४ ख
सञ्जय़ उवाच:
अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः |
३५ क
सञ्जय़ उवाच:
सर्वोपाय़ैर्हि नेष्यामि प्रेतराजनिवेशनम् |
३५ ख
सञ्जय़ उवाच:
अनुज्ञां तु महाराज भवान्मे दातुमर्हति ||
३५ ग
सञ्जय़ उवाच:
इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः |
३६ क
सञ्जय़ उवाच:
मनसः प्रीतिजननं कृपं वचनमव्रवीत् |
३६ ख
सञ्जय़ उवाच:
आचार्य शीघ्रं कलशं जलपूर्णं समानय़ ||
३६ ग
सञ्जय़ उवाच:
स तद्वचनमाज्ञाय़ राज्ञो व्राह्मणसत्तमः |
३७ क
सञ्जय़ उवाच:
कलशं पूर्णमादाय़ राज्ञोऽन्तिकमुपागमत् ||
३७ ख
सञ्जय़ उवाच:
तमव्रवीन्महाराज पुत्रस्तव विशां पते |
३८ क
सञ्जय़ उवाच:
ममाज्ञय़ा द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम् |
३८ ख
सञ्जय़ उवाच:
सेनापत्येन भद्रं ते मम चेदिच्छसि प्रिय़म् ||
३८ ग
सञ्जय़ उवाच:
राज्ञो निय़ोगाद्योद्धव्यं व्राह्मणेन विशेषतः |
३९ क
सञ्जय़ उवाच:
वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः ||
३९ ख
सञ्जय़ उवाच:
राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः |
४० क
सञ्जय़ उवाच:
द्रौणिं राज्ञो निय़ोगेन सेनापत्येऽभ्यषेचय़त् ||
४० ख
सञ्जय़ उवाच:
सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम् |
४१ क
सञ्जय़ उवाच:
प्रय़यौ सिंहनादेन दिशः सर्वा विनादय़न् ||
४१ ख
सञ्जय़ उवाच:
दुर्योधनोऽपि राजेन्द्र शोणितौघपरिप्लुतः |
४२ क
सञ्जय़ उवाच:
तां निशां प्रतिपेदेऽथ सर्वभूतभय़ावहाम् ||
४२ ख
सञ्जय़ उवाच:
अपक्रम्य तु ते तूर्णं तस्मादाय़ोधनान्नृप |
४३ क
सञ्जय़ उवाच:
शोकसंविग्नमनसश्चिन्ताध्यानपराभवन् ||
४३ ख