chevron_left आदि पर्व अध्याय ६५
वैशम्पाय़न उवाच:
ततो गच्छन्महावाहुरेकोऽमात्यान्विसृज्य तान् |
१ क
वैशम्पाय़न उवाच:
नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ||
१ ख
वैशम्पाय़न उवाच:
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम् |
२ क
वैशम्पाय़न उवाच:
उवाच क इहेत्युच्चैर्वनं संनादय़न्निव ||
२ ख
वैशम्पाय़न उवाच:
श्रुत्वाथ तस्य तं शव्दं कन्या श्रीरिव रूपिणी |
३ क
वैशम्पाय़न उवाच:
निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ||
३ ख
वैशम्पाय़न उवाच:
सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा |
४ क
वैशम्पाय़न उवाच:
स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ||
४ ख
वैशम्पाय़न उवाच:
आसनेनार्चय़ित्वा च पाद्येनार्घ्येण चैव हि |
५ क
वैशम्पाय़न उवाच:
पप्रच्छानामय़ं राजन्कुशलं च नराधिपम् ||
५ ख
वैशम्पाय़न उवाच:
यथावदर्चय़ित्वा सा पृष्ट्वा चानामय़ं तदा |
६ क
वैशम्पाय़न उवाच:
उवाच स्मय़मानेव किं कार्यं क्रिय़तामिति ||
६ ख
वैशम्पाय़न उवाच:
तामव्रवीत्ततो राजा कन्यां मधुरभाषिणीम् |
७ क
वैशम्पाय़न उवाच:
दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ||
७ ख
वैशम्पाय़न उवाच:
आगतोऽहं महाभागमृषिं कण्वमुपासितुम् |
८ क
वैशम्पाय़न उवाच:
क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ||
८ ख
शकुन्तलो उवाच:
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् |
९ क
शकुन्तलो उवाच:
मुहूर्तं सम्प्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् ||
९ ख
वैशम्पाय़न उवाच:
अपश्यमानस्तमृषिं तय़ा चोक्तस्तथा नृपः |
१० क
वैशम्पाय़न उवाच:
तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् ||
१० ख
वैशम्पाय़न उवाच:
विभ्राजमानां वपुषा तपसा च दमेन च |
११ क
वैशम्पाय़न उवाच:
रूपय़ौवनसम्पन्नामित्युवाच महीपतिः ||
११ ख
वैशम्पाय़न उवाच:
कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् |
१२ क
वैशम्पाय़न उवाच:
एवंरूपगुणोपेता कुतस्त्वमसि शोभने ||
१२ ख
वैशम्पाय़न उवाच:
दर्शनादेव हि शुभे त्वय़ा मेऽपहृतं मनः |
१३ क
वैशम्पाय़न उवाच:
इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने ||
१३ ख
वैशम्पाय़न उवाच:
एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे |
१४ क
वैशम्पाय़न उवाच:
उवाच हसती वाक्यमिदं सुमधुराक्षरम् ||
१४ ख
वैशम्पाय़न उवाच:
कण्वष्याहं भगवतो दुःषन्त दुहिता मता |
१५ क
वैशम्पाय़न उवाच:
तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः ||
१५ ख
दुःषन्त उवाच:
ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः |
१६ क
दुःषन्त उवाच:
चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः ||
१६ ख
दुःषन्त उवाच:
कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी |
१७ क
दुःषन्त उवाच:
संशय़ो मे महानत्र तं मे छेत्तुमिहार्हसि ||
१७ ख
शकुन्तलो उवाच:
यथाय़मागमो मह्यं यथा चेदमभूत्पुरा |
१८ क
शकुन्तलो उवाच:
शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः ||
१८ ख
शकुन्तलो उवाच:
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदय़त् |
१९ क
शकुन्तलो उवाच:
तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव ||
१९ ख
शकुन्तलो उवाच:
तप्यमानः किल पुरा विश्वामित्रो महत्तपः |
२० क
शकुन्तलो उवाच:
सुभृशं तापय़ामास शक्रं सुरगणेश्वरम् ||
२० ख
शकुन्तलो उवाच:
तपसा दीप्तवीर्योऽय़ं स्थानान्मां च्यावय़ेदिति |
२१ क
शकुन्तलो उवाच:
भीतः पुरन्दरस्तस्मान्मेनकामिदमव्रवीत् ||
२१ ख
शकुन्तलो उवाच:
गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे |
२२ क
शकुन्तलो उवाच:
श्रेय़ो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ||
२२ ख
शकुन्तलो उवाच:
असावादित्यसङ्काशो विश्वामित्रो महातपाः |
२३ क
शकुन्तलो उवाच:
तप्यमानस्तपो घोरं मम कम्पय़ते मनः ||
२३ ख
शकुन्तलो उवाच:
मेनके तव भारोऽय़ं विश्वामित्रः सुमध्यमे |
२४ क
शकुन्तलो उवाच:
संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ||
२४ ख
शकुन्तलो उवाच:
स मां न च्यावय़ेत्स्थानात्तं वै गत्वा प्रलोभय़ |
२५ क
शकुन्तलो उवाच:
चर तस्य तपोविघ्नं कुरु मे प्रिय़मुत्तमम् ||
२५ ख
शकुन्तलो उवाच:
रूपय़ौवनमाधुर्यचेष्टितस्मितभाषितैः |
२६ क
शकुन्तलो उवाच:
लोभय़ित्वा वरारोहे तपसः संनिवर्तय़ ||
२६ ख
मेनको उवाच:
महातेजाः स भगवान्सदैव च महातपाः |
२७ क
मेनको उवाच:
कोपनश्च तथा ह्येनं जानाति भगवानपि ||
२७ ख
मेनको उवाच:
तेजसस्तपसश्चैव कोपस्य च महात्मनः |
२८ क
मेनको उवाच:
त्वमप्युद्विजसे यस्य नोद्विजेय़महं कथम् ||
२८ ख
मेनको उवाच:
महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजय़त् |
२९ क
मेनको उवाच:
क्षत्रे जातश्च यः पूर्वमभवद्व्राह्मणो वलात् ||
२९ ख
मेनको उवाच:
शौचार्थं यो नदीं चक्रे दुर्गमां वहुभिर्जलैः |
३० क
मेनको उवाच:
यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ||
३० ख
मेनको उवाच:
वभार यत्रास्य पुरा काले दुर्गे महात्मनः |
३१ क
मेनको उवाच:
दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ||
३१ ख
मेनको उवाच:
अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम् |
३२ क
मेनको उवाच:
मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ||
३२ ख
मेनको उवाच:
मतङ्गं याजय़ां चक्रे यत्र प्रीतमनाः स्वय़म् |
३३ क
मेनको उवाच:
त्वं च सोमं भय़ाद्यस्य गतः पातुं शुरेश्वर ||
३३ ख
मेनको उवाच:
अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसम्पदा |
३४ क
मेनको उवाच:
प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः ||
३४ ख
मेनको उवाच:
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे |
३५ क
मेनको उवाच:
यथा मां न दहेत्क्रुद्धस्तथाज्ञापय़ मां विभो ||
३५ ख
मेनको उवाच:
तेजसा निर्दहेल्लोकान्कम्पय़ेद्धरणीं पदा |
३६ क
मेनको उवाच:
सङ्क्षिपेच्च महामेरुं तूर्णमावर्तय़ेत्तथा ||
३६ ख
मेनको उवाच:
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् |
३७ क
मेनको उवाच:
कथमस्मद्विधा वाला जितेन्द्रिय़मभिस्पृशेत् ||
३७ ख
मेनको उवाच:
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् |
३८ क
मेनको उवाच:
कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ||
३८ ख
मेनको उवाच:
यमश्च सोमश्च महर्षय़श्च; साध्या विश्वे वालखिल्याश्च सर्वे |
३९ क
मेनको उवाच:
एतेऽपि यस्योद्विजन्ते प्रभावा; त्कस्मात्तस्मान्मादृशी नोद्विजेत ||
३९ ख
मेनको उवाच:
त्वय़ैवमुक्ता च कथं समीप; मृषेर्न गच्छेय़महं सुरेन्द्र |
४० क
मेनको उवाच:
रक्षां तु मे चिन्तय़ देवराज; यथा त्वदर्थं रक्षिताहं चरेय़म् ||
४० ख
मेनको उवाच:
कामं तु मे मारुतस्तत्र वासः; प्रक्रीडिताय़ा विवृणोतु देव |
४१ क
मेनको उवाच:
भवेच्च मे मन्मथस्तत्र कार्ये; सहाय़भूतस्तव देवप्रसादात् ||
४१ ख
मेनको उवाच:
वनाच्च वाय़ुः सुरभिः प्रवाय़े; त्तस्मिन्काले तमृषिं लोभय़न्त्याः |
४२ क
मेनको उवाच:
तथेत्युक्त्वा विहिते चैव तस्मिं; स्ततो यय़ौ साश्रमं कौशिकस्य ||
४२ ख