chevron_left शान्ति पर्व अध्याय ६५
इन्द्र उवाच:
एवंवीर्यः सर्वधर्मोपपन्नः; क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः |
१ क
इन्द्र उवाच:
पाल्यो युष्माभिर्लोकसिंहैरुदारै; र्विपर्यये स्यादभावः प्रजानाम् ||
१ ख
इन्द्र उवाच:
भुवः संस्कारं राजसंस्कारय़ोग; मभैक्षचर्यां पालनं च प्रजानाम् |
२ क
इन्द्र उवाच:
विद्याद्राजा सर्वभूतानुकम्पां; देहत्यागं चाहवे धर्ममग्र्यम् ||
२ ख
इन्द्र उवाच:
त्यागं श्रेष्ठं मुनय़ो वै वदन्ति; सर्वश्रेष्ठो यः शरीरं त्यजेत |
३ क
इन्द्र उवाच:
नित्यं त्यक्तं राजधर्मेषु सर्वं; प्रत्यक्षं ते भूमिपालाः सदैते ||
३ ख
इन्द्र उवाच:
वहुश्रुत्या गुरुशुश्रूषय़ा वा; परस्य वा संहननाद्वदन्ति |
४ क
इन्द्र उवाच:
नित्यं धर्मं क्षत्रिय़ो व्रह्मचारी; चरेदेको ह्याश्रमं धर्मकामः ||
४ ख
इन्द्र उवाच:
सामान्यार्थे व्यवहारे प्रवृत्ते; प्रिय़ाप्रिय़े वर्जय़न्नेव यत्नात् |
५ क
इन्द्र उवाच:
चातुर्वर्ण्यस्थापनात्पालनाच्च; तैस्तैर्योगैर्निय़मैरौरसैश्च ||
५ ख
इन्द्र उवाच:
सर्वोद्योगैराश्रमं धर्ममाहुः; क्षात्रं ज्येष्ठं सर्वधर्मोपपन्नम् |
६ क
इन्द्र उवाच:
स्वं स्वं धर्मं ये न चरन्ति वर्णा; स्तांस्तान्धर्मानय़थावद्वदन्ति ||
६ ख
इन्द्र उवाच:
निर्मर्यादे नित्यमर्थे विनष्टा; नाहुस्तान्वै पशुभूतान्मनुष्यान् |
७ क
इन्द्र उवाच:
यथा नीतिं गमय़त्यर्थलोभा; च्छ्रेय़ांस्तस्मादाश्रमः क्षत्रधर्मः ||
७ ख
इन्द्र उवाच:
त्रैविद्यानां या गतिर्व्राह्मणानां; यश्चैवोक्तोऽथाश्रमो व्राह्मणानाम् |
८ क
इन्द्र उवाच:
एतत्कर्म व्राह्मणस्याहुरग्र्य; मन्यत्कुर्वञ्शूद्रवच्छस्त्रवध्यः ||
८ ख
इन्द्र उवाच:
चातुराश्रम्यधर्माश्च वेदधर्माश्च पार्थिव |
९ क
इन्द्र उवाच:
व्राह्मणेनानुगन्तव्या नान्यो विद्यात्कथञ्चन ||
९ ख
इन्द्र उवाच:
अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते |
१० क
इन्द्र उवाच:
कर्मणा व्यज्यते धर्मो यथैव श्वा तथैव सः ||
१० ख
इन्द्र उवाच:
यो विकर्मस्थितो विप्रो न स सन्मानमर्हति |
११ क
इन्द्र उवाच:
कर्मस्वनुपय़ुञ्जानमविश्वास्यं हि तं विदुः ||
११ ख
इन्द्र उवाच:
एते धर्माः सर्ववर्णाश्च वीरै; रुत्क्रष्टव्याः क्षत्रिय़ैरेष धर्मः |
१२ क
इन्द्र उवाच:
तस्माज्ज्येष्ठा राजधर्मा न चान्ये; वीर्यज्येष्ठा वीरधर्मा मता मे ||
१२ ख
मान्धातो उवाच:
यवनाः किराता गान्धाराश्चीनाः शवरवर्वराः |
१३ क
मान्धातो उवाच:
शकास्तुषाराः कह्वाश्च पह्लवाश्चान्ध्रमद्रकाः ||
१३ ख
मान्धातो उवाच:
ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाश्च सर्वशः |
१४ क
मान्धातो उवाच:
व्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः ||
१४ ख
मान्धातो उवाच:
कथं धर्मं चरेय़ुस्ते सर्वे विषय़वासिनः |
१५ क
मान्धातो उवाच:
मद्विधैश्च कथं स्थाप्याः सर्वे ते दस्युजीविनः ||
१५ ख
मान्धातो उवाच:
एतदिच्छाम्यहं श्रोतुं भगवंस्तद्व्रवीहि मे |
१६ क
मान्धातो उवाच:
त्वं वन्धुभूतो ह्यस्माकं क्षत्रिय़ाणां सुरेश्वर ||
१६ ख
इन्द्र उवाच:
मातापित्रोर्हि कर्तव्या शुश्रूषा सर्वदस्युभिः |
१७ क
इन्द्र उवाच:
आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् ||
१७ ख
इन्द्र उवाच:
भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिः |
१८ क
इन्द्र उवाच:
वेदधर्मक्रिय़ाश्चैव तेषां धर्मो विधीय़ते ||
१८ ख
इन्द्र उवाच:
पितृय़ज्ञास्तथा कूपाः प्रपाश्च शय़नानि च |
१९ क
इन्द्र उवाच:
दानानि च यथाकालं द्विजेषु दद्युरेव ते ||
१९ ख
इन्द्र उवाच:
अहिंसा सत्यमक्रोधो वृत्तिदाय़ानुपालनम् |
२० क
इन्द्र उवाच:
भरणं पुत्रदाराणां शौचमद्रोह एव च ||
२० ख
इन्द्र उवाच:
दक्षिणा सर्वय़ज्ञानां दातव्या भूतिमिच्छता |
२१ क
इन्द्र उवाच:
पाकय़ज्ञा महार्हाश्च कर्तव्याः सर्वदस्युभिः ||
२१ ख
इन्द्र उवाच:
एतान्येवम्प्रकाराणि विहितानि पुरानघ |
२२ क
इन्द्र उवाच:
सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव ||
२२ ख
मान्धातो उवाच:
दृश्यन्ते मानवा लोके सर्ववर्णेषु दस्यवः |
२३ क
मान्धातो उवाच:
लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्वपि ||
२३ ख
इन्द्र उवाच:
विनष्टाय़ां दण्डनीतौ राजधर्मे निराकृते |
२४ क
इन्द्र उवाच:
सम्प्रमुह्यन्ति भूतानि राजदौरात्म्यतो नृप ||
२४ ख
इन्द्र उवाच:
असङ्ख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा |
२५ क
इन्द्र उवाच:
आश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन्कृते युगे ||
२५ ख
इन्द्र उवाच:
अशृण्वानाः पुराणानां धर्माणां प्रवरा गतीः |
२६ क
इन्द्र उवाच:
उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः ||
२६ ख
इन्द्र उवाच:
यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः |
२७ क
इन्द्र उवाच:
तदा धर्मो न चलते सद्भूतः शाश्वतः परः ||
२७ ख
इन्द्र उवाच:
परलोकगुरुं चैव राजानं योऽवमन्यते |
२८ क
इन्द्र उवाच:
न तस्य दत्तं न हुतं न श्राद्धं फलति क्वचित् ||
२८ ख
इन्द्र उवाच:
मानुषाणामधिपतिं देवभूतं सनातनम् |
२९ क
इन्द्र उवाच:
देवाश्च वहु मन्यन्ते धर्मकामं नरेश्वरम् ||
२९ ख
इन्द्र उवाच:
प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत् |
३० क
इन्द्र उवाच:
स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति ||
३० ख
इन्द्र उवाच:
प्रवृत्तस्य हि धर्मस्य वुद्ध्या यः स्मरते गतिम् |
३१ क
इन्द्र उवाच:
स मे मान्यश्च पूज्यश्च तत्र क्षत्रं प्रतिष्ठितम् ||
३१ ख
भीष्म उवाच:
एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः |
३२ क
भीष्म उवाच:
जगाम भवनं विष्णुरक्षरं परमं पदम् ||
३२ ख
भीष्म उवाच:
एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ |
३३ क
भीष्म उवाच:
कः क्षत्रमवमन्येत चेतनावान्वहुश्रुतः ||
३३ ख
भीष्म उवाच:
अन्याय़ेन प्रवृत्तानि निवृत्तानि तथैव च |
३४ क
भीष्म उवाच:
अन्तरा विलय़ं यान्ति यथा पथि विचक्षुषः ||
३४ ख
भीष्म उवाच:
आदौ प्रवर्तिते चक्रे तथैवादिपराय़णे |
३५ क
भीष्म उवाच:
वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ ||
३५ ख