वैशम्पाय़न उवाच:
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् |
१ क
वैशम्पाय़न उवाच:
उपाय़ाद्वृष्णिभिः सार्धं पुरं वारणसाह्वय़म् ||
१ ख
वैशम्पाय़न उवाच:
समय़ं वाजिमेधस्य विदित्वा पुरुषर्षभः |
२ क
वैशम्पाय़न उवाच:
यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति ||
२ ख
वैशम्पाय़न उवाच:
रौक्मिणेय़ेन सहितो युय़ुधानेन चैव ह |
३ क
वैशम्पाय़न उवाच:
चारुदेष्णेन साम्वेन गदेन कृतवर्मणा ||
३ ख
वैशम्पाय़न उवाच:
सारणेन च वीरेण निशठेनोल्मुकेन च |
४ क
वैशम्पाय़न उवाच:
वलदेवं पुरस्कृत्य सुभद्रासहितस्तदा ||
४ ख
वैशम्पाय़न उवाच:
द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः |
५ क
वैशम्पाय़न उवाच:
समाश्वासय़ितुं चापि क्षत्रिय़ा निहतेश्वराः ||
५ ख
वैशम्पाय़न उवाच:
तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः |
६ क
वैशम्पाय़न उवाच:
प्रत्यगृह्णाद्यथान्याय़ं विदुरश्च महामनाः ||
६ ख
वैशम्पाय़न उवाच:
तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभः |
७ क
वैशम्पाय़न उवाच:
विदुरेण महातेजास्तथैव च युय़ुत्सुना ||
७ ख
वैशम्पाय़न उवाच:
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय़ |
८ क
वैशम्पाय़न उवाच:
जज्ञे तव पिता राजन्परिक्षित्परवीरहा ||
८ ख
वैशम्पाय़न उवाच:
स तु राजा महाराज व्रह्मास्त्रेणाभिपीडितः |
९ क
वैशम्पाय़न उवाच:
शवो वभूव निश्चेष्टो हर्षशोकविवर्धनः ||
९ ख
वैशम्पाय़न उवाच:
हृष्टानां सिंहनादेन जनानां तत्र निस्वनः |
१० क
वैशम्पाय़न उवाच:
आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् ||
१० ख
वैशम्पाय़न उवाच:
ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा |
११ क
वैशम्पाय़न उवाच:
युय़ुधानद्वितीय़ो वै व्यथितेन्द्रिय़मानसः ||
११ ख
वैशम्पाय़न उवाच:
ततस्त्वरितमाय़ान्तीं ददर्श स्वां पितृष्वसाम् |
१२ क
वैशम्पाय़न उवाच:
क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः ||
१२ ख
वैशम्पाय़न उवाच:
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् |
१३ क
वैशम्पाय़न उवाच:
सविक्रोशं सकरुणं वान्धवानां स्त्रिय़ो नृप ||
१३ ख
वैशम्पाय़न उवाच:
ततः कृष्णं समासाद्य कुन्ती राजसुता तदा |
१४ क
वैशम्पाय़न उवाच:
प्रोवाच राजशार्दूल वाष्पगद्गदय़ा गिरा ||
१४ ख
वैशम्पाय़न उवाच:
वासुदेव महावाहो सुप्रजा देवकी त्वय़ा |
१५ क
वैशम्पाय़न उवाच:
त्वं नो गतिः प्रतिष्ठा च त्वदाय़त्तमिदं कुलम् ||
१५ ख
वैशम्पाय़न उवाच:
यदुप्रवीर योऽय़ं ते स्वस्रीय़स्यात्मजः प्रभो |
१६ क
वैशम्पाय़न उवाच:
अश्वत्थाम्ना हतो जातस्तमुज्जीवय़ केशव ||
१६ ख
वैशम्पाय़न उवाच:
त्वय़ा ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन |
१७ क
वैशम्पाय़न उवाच:
अहं सञ्जीवय़िष्यामि मृतं जातमिति प्रभो ||
१७ ख
वैशम्पाय़न उवाच:
सोऽय़ं जातो मृतस्तात पश्यैनं पुरुषर्षभ |
१८ क
वैशम्पाय़न उवाच:
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव ||
१८ ख
वैशम्पाय़न उवाच:
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा |
१९ क
वैशम्पाय़न उवाच:
सहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि ||
१९ ख
वैशम्पाय़न उवाच:
अस्मिन्प्राणाः समाय़त्ताः पाण्डवानां ममैव च |
२० क
वैशम्पाय़न उवाच:
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे ||
२० ख
वैशम्पाय़न उवाच:
अभिमन्योश्च भद्रं ते प्रिय़स्य सदृशस्य च |
२१ क
वैशम्पाय़न उवाच:
प्रिय़मुत्पादय़ाद्य त्वं प्रेतस्यापि जनार्दन ||
२१ ख
वैशम्पाय़न उवाच:
उत्तरा हि प्रिय़ोक्तं वै कथय़त्यरिसूदन |
२२ क
वैशम्पाय़न उवाच:
अभिमन्योर्वचः कृष्ण प्रिय़त्वात्ते न संशय़ः ||
२२ ख
वैशम्पाय़न उवाच:
अव्रवीत्किल दाशार्ह वैराटीमार्जुनिः पुरा |
२३ क
वैशम्पाय़न उवाच:
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति ||
२३ ख
वैशम्पाय़न उवाच:
गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति |
२४ क
वैशम्पाय़न उवाच:
अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम् ||
२४ ख
वैशम्पाय़न उवाच:
इत्येतत्प्रणय़ात्तात सौभद्रः परवीरहा |
२५ क
वैशम्पाय़न उवाच:
कथय़ामास दुर्धर्षस्तथा चैतन्न संशय़ः ||
२५ ख
वैशम्पाय़न उवाच:
तास्त्वां वय़ं प्रणम्येह याचामो मधुसूदन |
२६ क
वैशम्पाय़न उवाच:
कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम् ||
२६ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा तु वार्ष्णेय़ं पृथा पृथुललोचना |
२७ क
वैशम्पाय़न उवाच:
उच्छ्रित्य वाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि ||
२७ ख
वैशम्पाय़न उवाच:
अव्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः |
२८ क
वैशम्पाय़न उवाच:
स्वस्रीय़ो वासुदेवस्य मृतो जात इति प्रभो ||
२८ ख
वैशम्पाय़न उवाच:
एवमुक्ते ततः कुन्तीं प्रत्यगृह्णाज्जनार्दनः |
२९ क
वैशम्पाय़न उवाच:
भूमौ निपतितां चैनां सान्त्वय़ामास भारत ||
२९ ख