वैशम्पाय़न उवाच:
ततस्तृतीय़े दिवसे भ्रातरः पञ्च पाण्डवाः |
१ क
वैशम्पाय़न उवाच:
स्नाताः शुक्लाम्वरधराः समय़े चरितव्रताः ||
१ ख
वैशम्पाय़न उवाच:
युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः |
२ क
वैशम्पाय़न उवाच:
अभिपद्मा यथा नागा भ्राजमाना महारथाः ||
२ ख
वैशम्पाय़न उवाच:
विराटस्य सभां गत्वा भूमिपालासनेष्वथ |
३ क
वैशम्पाय़न उवाच:
निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नय़ः ||
३ ख
वैशम्पाय़न उवाच:
तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः |
४ क
वैशम्पाय़न उवाच:
आजगाम सभां कर्तुं राजकार्याणि सर्वशः ||
४ ख
वैशम्पाय़न उवाच:
श्रीमतः पाण्डवान्दृष्ट्वा ज्वलतः पावकानिव |
५ क
वैशम्पाय़न उवाच:
अथ मत्स्योऽव्रवीत्कङ्कं देवरूपमवस्थितम् |
५ ख
वैशम्पाय़न उवाच:
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ||
५ ग
वैशम्पाय़न उवाच:
स किलाक्षातिवापस्त्वं सभास्तारो मय़ा कृतः |
६ क
वैशम्पाय़न उवाच:
अथ राजासने कस्मादुपविष्टोऽस्यलङ्कृतः ||
६ ख
वैशम्पाय़न उवाच:
परिहासेप्सय़ा वाक्यं विराटस्य निशम्य तत् |
७ क
वैशम्पाय़न उवाच:
स्मय़मानोऽर्जुनो राजन्निदं वचनमव्रवीत् ||
७ ख
वैशम्पाय़न उवाच:
इन्द्रस्याप्यासनं राजन्नय़मारोढुमर्हति |
८ क
वैशम्पाय़न उवाच:
व्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः ||
८ ख
वैशम्पाय़न उवाच:
अय़ं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः |
९ क
वैशम्पाय़न उवाच:
अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ||
९ ख
वैशम्पाय़न उवाच:
संसरन्ति दिशः सर्वा यशसोऽस्य गभस्तय़ः |
१० क
वैशम्पाय़न उवाच:
उदितस्येव सूर्यस्य तेजसोऽनु गभस्तय़ः ||
१० ख
वैशम्पाय़न उवाच:
एनं दश सहस्राणि कुञ्जराणां तरस्विनाम् |
११ क
वैशम्पाय़न उवाच:
अन्वय़ुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ||
११ ख
वैशम्पाय़न उवाच:
त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः |
१२ क
वैशम्पाय़न उवाच:
सदश्वैरुपसम्पन्नाः पृष्ठतोऽनुय़युः सदा ||
१२ ख
वैशम्पाय़न उवाच:
एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः |
१३ क
वैशम्पाय़न उवाच:
अस्तुवन्मागधैः सार्धं पुरा शक्रमिवर्षय़ः ||
१३ ख
वैशम्पाय़न उवाच:
एनं नित्यमुपासन्त कुरवः किङ्करा यथा |
१४ क
वैशम्पाय़न उवाच:
सर्वे च राजन्राजानो धनेश्वरमिवामराः ||
१४ ख
वैशम्पाय़न उवाच:
एष सर्वान्महीपालान्करमाहारय़त्तदा |
१५ क
वैशम्पाय़न उवाच:
वैश्यानिव महाराज विवशान्स्ववशानपि ||
१५ ख
वैशम्पाय़न उवाच:
अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् |
१६ क
वैशम्पाय़न उवाच:
उपजीवन्ति राजानमेनं सुचरितव्रतम् ||
१६ ख
वैशम्पाय़न उवाच:
एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूंश्च मानवान् |
१७ क
वैशम्पाय़न उवाच:
पुत्रवत्पालय़ामास प्रजा धर्मेण चाभिभो ||
१७ ख
वैशम्पाय़न उवाच:
एष धर्मे दमे चैव क्रोधे चापि यतव्रतः |
१८ क
वैशम्पाय़न उवाच:
महाप्रसादो व्रह्मण्यः सत्यवादी च पार्थिवः ||
१८ ख
वैशम्पाय़न उवाच:
श्रीप्रतापेन चैतस्य तप्यते स सुय़ोधनः |
१९ क
वैशम्पाय़न उवाच:
सगणः सह कर्णेन सौवलेनापि वा विभुः ||
१९ ख
वैशम्पाय़न उवाच:
न शक्यन्ते ह्यस्य गुणाः प्रसङ्ख्यातुं नरेश्वर |
२० क
वैशम्पाय़न उवाच:
एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः ||
२० ख
वैशम्पाय़न उवाच:
एवंय़ुक्तो महाराजः पाण्डवः पार्थिवर्षभः |
२१ क
वैशम्पाय़न उवाच:
कथं नार्हति राजार्हमासनं पृथिवीपतिः ||
२१ ख