chevron_left उद्योग पर्व अध्याय ६५
वैशम्पाय़न उवाच:
दुर्योधने धार्तराष्ट्रे तद्वचोऽप्रतिनन्दति |
१ क
वैशम्पाय़न उवाच:
तूष्णीम्भूतेषु सर्वेषु समुत्तस्थुर्नरेश्वराः ||
१ ख
वैशम्पाय़न उवाच:
उत्थितेषु महाराज पृथिव्यां सर्वराजसु |
२ क
वैशम्पाय़न उवाच:
रहिते सञ्जय़ं राजा परिप्रष्टुं प्रचक्रमे ||
२ ख
वैशम्पाय़न उवाच:
आशंसमानो विजय़ं तेषां पुत्रवशानुगः |
३ क
वैशम्पाय़न उवाच:
आत्मनश्च परेषां च पाण्डवानां च निश्चय़म् ||
३ ख
धृतराष्ट्र उवाच:
गावल्गणे व्रूहि नः सारफल्गु; स्वसेनाय़ां यावदिहास्ति किञ्चित् |
४ क
धृतराष्ट्र उवाच:
त्वं पाण्डवानां निपुणं वेत्थ सर्वं; किमेषां ज्याय़ः किमु तेषां कनीय़ः ||
४ ख
धृतराष्ट्र उवाच:
त्वमेतय़ोः सारवित्सर्वदर्शी; धर्मार्थय़ोर्निपुणो निश्चय़ज्ञः |
५ क
धृतराष्ट्र उवाच:
स मे पृष्टः सञ्जय़ व्रूहि सर्वं; युध्यमानाः कतरेऽस्मिन्न सन्ति ||
५ ख
सञ्जय़ उवाच:
न त्वां व्रूय़ां रहिते जातु किं चि; दसूय़ा हि त्वां प्रसहेत राजन् |
६ क
सञ्जय़ उवाच:
आनय़स्व पितरं संशितव्रतं; गान्धारीं च महिषीमाजमीढ ||
६ ख
सञ्जय़ उवाच:
तौ तेऽसूय़ां विनय़ेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चय़ज्ञौ |
७ क
सञ्जय़ उवाच:
तय़ोस्तु त्वां संनिधौ तद्वदेय़ं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम् ||
७ ख
वैशम्पाय़न उवाच:
ततस्तन्मतमाज्ञाय़ सञ्जय़स्यात्मजस्य च |
८ क
वैशम्पाय़न उवाच:
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपाय़नोऽव्रवीत् ||
८ ख
वैशम्पाय़न उवाच:
सम्पृच्छते धृतराष्ट्राय़ सञ्जय़; आचक्ष्व सर्वं यावदेषोऽनुय़ुङ्क्ते |
९ क
वैशम्पाय़न उवाच:
सर्वं यावद्वेत्थ तस्मिन्यथाव; द्याथातथ्यं वासुदेवेऽर्जुने च ||
९ ख