chevron_left भीष्म पर्व अध्याय ६५
सञ्जय़ उवाच:
व्युषिताय़ां च शर्वर्यामुदिते च दिवाकरे |
१ क
सञ्जय़ उवाच:
उभे सेने महाराज युद्धाय़ैव समीय़तुः ||
१ ख
सञ्जय़ उवाच:
अभ्यधावंश्च सङ्क्रुद्धाः परस्परजिगीषवः |
२ क
सञ्जय़ उवाच:
ते सर्वे सहिता युद्धे समालोक्य परस्परम् ||
२ ख
सञ्जय़ उवाच:
पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव |
३ क
सञ्जय़ उवाच:
व्यूहौ च व्यूह्य संरव्धाः सम्प्रय़ुद्धाः प्रहारिणः ||
३ ख
सञ्जय़ उवाच:
अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः |
४ क
सञ्जय़ उवाच:
तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः ||
४ ख
सञ्जय़ उवाच:
स निर्ययौ रथानीकं पिता देवव्रतस्तव |
५ क
सञ्जय़ उवाच:
महता रथवंशेन संवृतो रथिनां वरः ||
५ ख
सञ्जय़ उवाच:
इतरेतरमन्वीय़ुर्यथाभागमवस्थिताः |
६ क
सञ्जय़ उवाच:
रथिनः पत्तय़श्चैव दन्तिनः सादिनस्तथा ||
६ ख
सञ्जय़ उवाच:
तान्दृष्ट्वा प्रोद्यतान्सङ्ख्ये पाण्डवाश्च यशस्विनः |
७ क
सञ्जय़ उवाच:
श्येनेन व्यूहराजेन तेनाजय़्येन संय़ुगे ||
७ ख
सञ्जय़ उवाच:
अशोभत मुखे तस्य भीमसेनो महावलः |
८ क
सञ्जय़ उवाच:
नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः ||
८ ख
सञ्जय़ उवाच:
शीर्षं तस्याभवद्वीरः सात्यकिः सत्यविक्रमः |
९ क
सञ्जय़ उवाच:
विधुन्वन्गाण्डिवं पार्थो ग्रीवाय़ामभवत्तदा ||
९ ख
सञ्जय़ उवाच:
अक्षौहिण्या समग्रा या वामपक्षोऽभवत्तदा |
१० क
सञ्जय़ उवाच:
महात्मा द्रुपदः श्रीमान्सह पुत्रेण संय़ुगे ||
१० ख
सञ्जय़ उवाच:
दक्षिणश्चाभवत्पक्षः कैकेय़ोऽक्षौहिणीपतिः |
११ क
सञ्जय़ उवाच:
पृष्ठतो द्रौपदेय़ाश्च सौभद्रश्चापि वीर्यवान् ||
११ ख
सञ्जय़ उवाच:
पृष्ठे समभवच्छ्रीमान्स्वय़ं राजा युधिष्ठिरः |
१२ क
सञ्जय़ उवाच:
भ्रातृभ्यां सहितो धीमान्यमाभ्यां चारुविक्रमः ||
१२ ख
सञ्जय़ उवाच:
प्रविश्य तु रणे भीमो मकरं मुखतस्तदा |
१३ क
सञ्जय़ उवाच:
भीष्ममासाद्य सङ्ग्रामे छादय़ामास साय़कैः ||
१३ ख
सञ्जय़ उवाच:
ततो भीष्मो महास्त्राणि पातय़ामास भारत |
१४ क
सञ्जय़ उवाच:
मोहय़न्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे ||
१४ ख
सञ्जय़ उवाच:
संमुह्यति तदा सैन्ये त्वरमाणो धनञ्जय़ः |
१५ क
सञ्जय़ उवाच:
भीष्मं शरसहस्रेण विव्याध रणमूर्धनि ||
१५ ख
सञ्जय़ उवाच:
परिसंवार्य चास्त्राणि भीष्ममुक्तानि संय़ुगे |
१६ क
सञ्जय़ उवाच:
स्वेनानीकेन हृष्टेन युद्धाय़ समवस्थितः ||
१६ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा भारद्वाजमभाषत |
१७ क
सञ्जय़ उवाच:
पूर्वं दृष्ट्वा वधं घोरं वलस्य वलिनां वरः |
१७ ख
सञ्जय़ उवाच:
भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः ||
१७ ग
सञ्जय़ उवाच:
आचार्य सततं त्वं हि हितकामो ममानघ |
१८ क
सञ्जय़ उवाच:
वय़ं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् ||
१८ ख
सञ्जय़ उवाच:
देवानपि रणे जेतुं प्रार्थय़ामो न संशय़ः |
१९ क
सञ्जय़ उवाच:
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ||
१९ ख
सञ्जय़ उवाच:
एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष |
२० क
सञ्जय़ उवाच:
अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः ||
२० ख
सञ्जय़ उवाच:
सात्यकिस्तु तदा द्रोणं वारय़ामास भारत |
२१ क
सञ्जय़ उवाच:
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ||
२१ ख
सञ्जय़ उवाच:
शैनेय़ं तु रणे क्रुद्धो भारद्वाजः प्रतापवान् |
२२ क
सञ्जय़ उवाच:
अविध्यन्निशितैर्वाणैर्जत्रुदेशे हसन्निव ||
२२ ख
सञ्जय़ उवाच:
भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत |
२३ क
सञ्जय़ उवाच:
संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् ||
२३ ख
सञ्जय़ उवाच:
ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष |
२४ क
सञ्जय़ उवाच:
भीमसेनं रणे क्रुद्धाश्छादय़ां चक्रिरे शरैः ||
२४ ख
सञ्जय़ उवाच:
तत्राभिमन्युः सङ्क्रुद्धो द्रौपदेय़ाश्च मारिष |
२५ क
सञ्जय़ उवाच:
विव्यधुर्निशितैर्वाणैः सर्वांस्तानुद्यताय़ुधान् ||
२५ ख
सञ्जय़ उवाच:
भीष्मद्रोणौ च सङ्क्रुद्धावापतन्तौ महावलौ |
२६ क
सञ्जय़ उवाच:
प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे ||
२६ ख
सञ्जय़ उवाच:
प्रगृह्य वलवद्वीरो धनुर्जलदनिस्वनम् |
२७ क
सञ्जय़ उवाच:
अभ्यवर्षच्छरैस्तूर्णं छादय़ानो दिवाकरम् ||
२७ ख
सञ्जय़ उवाच:
शिखण्डिनं समासाद्य भरतानां पितामहः |
२८ क
सञ्जय़ उवाच:
अवर्जय़त सङ्ग्रामे स्त्रीत्वं तस्यानुसंस्मरन् ||
२८ ख
सञ्जय़ उवाच:
ततो द्रोणो महाराज अभ्यद्रवत तं रणे |
२९ क
सञ्जय़ उवाच:
रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः ||
२९ ख
सञ्जय़ उवाच:
शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् |
३० क
सञ्जय़ उवाच:
अवर्जय़त सङ्ग्रामे युगान्ताग्निमिवोल्वणम् ||
३० ख
सञ्जय़ उवाच:
ततो वलेन महता पुत्रस्तव विशां पते |
३१ क
सञ्जय़ उवाच:
जुगोप भीष्ममासाद्य प्रार्थय़ानो महद्यशः ||
३१ ख
सञ्जय़ उवाच:
तथैव पाण्डवा राजन्पुरस्कृत्य धनञ्जय़म् |
३२ क
सञ्जय़ उवाच:
भीष्ममेवाभ्यवर्तन्त जय़े कृत्वा दृढां मतिम् ||
३२ ख
सञ्जय़ उवाच:
तद्युद्धमभवद्घोरं देवानां दानवैरिव |
३३ क
सञ्जय़ उवाच:
जय़ं च काङ्क्षतां नित्यं यशश्च परमाद्भुतम् ||
३३ ख