chevron_left द्रोण पर्व अध्याय ६५
धृतराष्ट्र उवाच:
तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना |
१ क
धृतराष्ट्र उवाच:
के नु तत्र रणे वीराः प्रत्युदीय़ुर्धनञ्जय़म् ||
१ ख
धृतराष्ट्र उवाच:
आहो स्विच्छकटव्यूहं प्रविष्टा मोघनिश्चय़ाः |
२ क
धृतराष्ट्र उवाच:
द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभय़ाः ||
२ ख
सञ्जय़ उवाच:
तथार्जुनेन सम्भग्ने तस्मिंस्तव वले तदा |
३ क
सञ्जय़ उवाच:
हतवीरे हतोत्साहे पलाय़नकृतक्षणे ||
३ ख
सञ्जय़ उवाच:
पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः |
४ क
सञ्जय़ उवाच:
न तत्र कश्चित्सङ्ग्रामे शशाकार्जुनमीक्षितुम् ||
४ ख
सञ्जय़ उवाच:
ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम् |
५ क
सञ्जय़ उवाच:
दुःशासनो भृशं क्रुद्धो युद्धाय़ार्जुनमभ्ययात् ||
५ ख
सञ्जय़ उवाच:
स काञ्चनविचित्रेण कवचेन समावृतः |
६ क
सञ्जय़ उवाच:
जाम्वूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः ||
६ ख
सञ्जय़ उवाच:
नागानीकेन महता ग्रसन्निव महीमिमाम् |
७ क
सञ्जय़ उवाच:
दुःशासनो महाराज सव्यसाचिनमावृणोत् ||
७ ख
सञ्जय़ उवाच:
ह्रादेन गजघण्टानां शङ्खानां निनदेन च |
८ क
सञ्जय़ उवाच:
ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् ||
८ ख
सञ्जय़ उवाच:
भूर्दिशश्चान्तरिक्षं च शव्देनासीत्समावृतम् |
९ क
सञ्जय़ उवाच:
स मुहूर्तं प्रतिभय़ो दारुणः समपद्यत ||
९ ख
सञ्जय़ उवाच:
तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् |
१० क
सञ्जय़ उवाच:
व्यालम्वहस्तान्संरव्धान्सपक्षानिव पर्वतान् ||
१० ख
सञ्जय़ उवाच:
सिंहनादेन महता नरसिंहो धनञ्जय़ः |
११ क
सञ्जय़ उवाच:
गजानीकममित्राणामभितो व्यधमच्छरैः ||
११ ख
सञ्जय़ उवाच:
महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् |
१२ क
सञ्जय़ उवाच:
किरीटी तद्गजानीकं प्राविशन्मकरो यथा ||
१२ ख
सञ्जय़ उवाच:
काष्ठातीत इवादित्यः प्रतपन्युगसङ्क्षय़े |
१३ क
सञ्जय़ उवाच:
ददृशे दिक्षु सर्वासु पार्थः परपुरञ्जय़ः ||
१३ ख
सञ्जय़ उवाच:
खुरशव्देन चाश्वानां नेमिघोषेण तेन च |
१४ क
सञ्जय़ उवाच:
तेन चोत्क्रुष्टशव्देन ज्यानिनादेन तेन च |
१४ ख
सञ्जय़ उवाच:
देवदत्तस्य घोषेण गाण्डीवनिनदेन च ||
१४ ग
सञ्जय़ उवाच:
मन्दवेगतरा नागा वभूवुस्ते विचेतसः |
१५ क
सञ्जय़ उवाच:
शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना ||
१५ ख
सञ्जय़ उवाच:
ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः |
१६ क
सञ्जय़ उवाच:
अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः ||
१६ ख
सञ्जय़ उवाच:
आरावं परमं कृत्वा वध्यमानाः किरीटिना |
१७ क
सञ्जय़ उवाच:
निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रय़ः ||
१७ ख
सञ्जय़ उवाच:
अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च |
१८ क
सञ्जय़ उवाच:
शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः ||
१८ ख
सञ्जय़ उवाच:
गजस्कन्धगतानां च पुरुषाणां किरीटिना |
१९ क
सञ्जय़ उवाच:
आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः ||
१९ ख
सञ्जय़ उवाच:
सकुण्डलानां पततां शिरसां धरणीतले |
२० क
सञ्जय़ उवाच:
पद्मानामिव सङ्घातैः पार्थश्चक्रे निवेदनम् ||
२० ख
सञ्जय़ उवाच:
यन्त्रवद्धा विकवचा व्रणार्ता रुधिरोक्षिताः |
२१ क
सञ्जय़ उवाच:
भ्रमत्सु युधि नागेषु मनुष्या विललम्विरे ||
२१ ख
सञ्जय़ उवाच:
केचिदेकेन वाणेन सुमुक्तेन पतत्रिणा |
२२ क
सञ्जय़ उवाच:
द्वौ त्रय़श्च विनिर्भिन्ना निपेतुर्धरणीतले ||
२२ ख
सञ्जय़ उवाच:
मौर्वीं धनुर्ध्वजं चैव युगानीषास्तथैव च |
२३ क
सञ्जय़ उवाच:
रथिनां कुट्टय़ामास भल्लैः संनतपर्वभिः ||
२३ ख
सञ्जय़ उवाच:
न सन्दधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन् |
२४ क
सञ्जय़ उवाच:
मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते ||
२४ ख
सञ्जय़ उवाच:
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः |
२५ क
सञ्जय़ उवाच:
मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले ||
२५ ख
सञ्जय़ उवाच:
उत्थितान्यगणेय़ानि कवन्धानि समन्ततः |
२६ क
सञ्जय़ उवाच:
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ||
२६ ख
सञ्जय़ उवाच:
सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे |
२७ क
सञ्जय़ उवाच:
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ||
२७ ख
सञ्जय़ उवाच:
सूपस्करैरधिष्ठानैरीषादण्डकवन्धुरैः |
२८ क
सञ्जय़ उवाच:
चक्रैर्विमथितैरक्षै भग्नैश्च वहुधा युगैः ||
२८ ख
सञ्जय़ उवाच:
वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः |
२९ क
सञ्जय़ उवाच:
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ||
२९ ख
सञ्जय़ उवाच:
निहतैर्वारणैरश्वैः क्षत्रिय़ैश्च निपातितैः |
३० क
सञ्जय़ उवाच:
अदृश्यत मही तत्र दारुणप्रतिदर्शना ||
३० ख
सञ्जय़ उवाच:
एवं दुःशासनवलं वध्यमानं किरीटिना |
३१ क
सञ्जय़ उवाच:
सम्प्राद्रवन्महाराज व्यथितं वै सनाय़कम् ||
३१ ख
सञ्जय़ उवाच:
ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः |
३२ क
सञ्जय़ उवाच:
द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् ||
३२ ख