chevron_left अनुशासन पर्व अध्याय ६६
युधिष्ठिर उवाच:
श्रुतं दानफलं तात यत्त्वय़ा परिकीर्तितम् |
१ क
युधिष्ठिर उवाच:
अन्नं तु ते विशेषेण प्रशस्तमिह भारत ||
१ ख
युधिष्ठिर उवाच:
पानीय़दानं परमं कथं चेह महाफलम् |
२ क
युधिष्ठिर उवाच:
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह ||
२ ख
भीष्म उवाच:
हन्त ते वर्तय़िष्यामि यथावद्भरतर्षभ |
३ क
भीष्म उवाच:
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम |
३ ख
भीष्म उवाच:
पानीय़दानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ||
३ ग
भीष्म उवाच:
यदन्नं यच्च पानीय़ं सम्प्रदाय़ाश्नुते नरः |
४ क
भीष्म उवाच:
न तस्मात्परमं दानं किञ्चिदस्तीति मे मतिः ||
४ ख
भीष्म उवाच:
अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः |
५ क
भीष्म उवाच:
तस्मादन्नं परं लोके सर्वदानेषु कथ्यते ||
५ ख
भीष्म उवाच:
अन्नाद्वलं च तेजश्च प्राणिनां वर्धते सदा |
६ क
भीष्म उवाच:
अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः ||
६ ख
भीष्म उवाच:
सावित्र्या ह्यपि कौन्तेय़ श्रुतं ते वचनं शुभम् |
७ क
भीष्म उवाच:
यतश्चैतद्यथा चैतद्देवसत्रे महामते ||
७ ख
भीष्म उवाच:
अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत |
८ क
भीष्म उवाच:
प्राणदानाद्धि परमं न दानमिह विद्यते ||
८ ख
भीष्म उवाच:
श्रुतं हि ते महावाहो लोमशस्यापि तद्वचः |
९ क
भीष्म उवाच:
प्राणान्दत्त्वा कपोताय़ यत्प्राप्तं शिविना पुरा ||
९ ख
भीष्म उवाच:
तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते |
१० क
भीष्म उवाच:
गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम् ||
१० ख
भीष्म उवाच:
अन्नं चापि प्रभवति पानीय़ात्कुरुसत्तम |
११ क
भीष्म उवाच:
नीरजातेन हि विना न किञ्चित्सम्प्रवर्तते ||
११ ख
भीष्म उवाच:
नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः |
१२ क
भीष्म उवाच:
अमृतं च सुधा चैव स्वाहा चैव वषट्तथा ||
१२ ख
भीष्म उवाच:
अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः |
१३ क
भीष्म उवाच:
यतः प्राणभृतां प्राणाः सम्भवन्ति विशां पते ||
१३ ख
भीष्म उवाच:
देवानाममृतं चान्नं नागानां च सुधा तथा |
१४ क
भीष्म उवाच:
पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः ||
१४ ख
भीष्म उवाच:
अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः |
१५ क
भीष्म उवाच:
तच्च सर्वं नरव्याघ्र पानीय़ात्सम्प्रवर्तते ||
१५ ख
भीष्म उवाच:
तस्मात्पानीय़दानाद्वै न परं विद्यते क्वचित् |
१६ क
भीष्म उवाच:
तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः ||
१६ ख
भीष्म उवाच:
धन्यं यशस्यमाय़ुष्यं जलदानं विशां पते |
१७ क
भीष्म उवाच:
शत्रूंश्चाप्यधि कौन्तेय़ सदा तिष्ठति तोय़दः ||
१७ ख
भीष्म उवाच:
सर्वकामानवाप्नोति कीर्तिं चैवेह शाश्वतीम् |
१८ क
भीष्म उवाच:
प्रेत्य चानन्त्यमाप्नोति पापेभ्यश्च प्रमुच्यते ||
१८ ख
भीष्म उवाच:
तोय़दो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते |
१९ क
भीष्म उवाच:
अक्षय़ान्समवाप्नोति लोकानित्यव्रवीन्मनुः ||
१९ ख