सञ्जय़ उवाच:
तस्मिन्सुतुमुले युद्धे वर्तमाने भय़ावहे |
१ क
सञ्जय़ उवाच:
धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत ||
१ ख
सञ्जय़ उवाच:
संमृजानो धनुः श्रेष्ठं ज्यां विकर्षन्पुनः पुनः |
२ क
सञ्जय़ उवाच:
अभ्यवर्तत द्रोणस्य रथं रुक्मविभूषितम् ||
२ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं तदाय़ान्तं द्रोणस्यान्तचिकीर्षय़ा |
३ क
सञ्जय़ उवाच:
परिवव्रुर्महाराज पाञ्चालाः पाण्डवैः सह ||
३ ख
सञ्जय़ उवाच:
तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम् |
४ क
सञ्जय़ उवाच:
पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे ||
४ ख
सञ्जय़ उवाच:
वलार्णवौ ततस्तौ तु समेय़ातां निशामुखे |
५ क
सञ्जय़ उवाच:
वातोद्धूतौ क्षुव्धसत्त्वौ भैरवौ सागराविव ||
५ ख
सञ्जय़ उवाच:
ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः |
६ क
सञ्जय़ उवाच:
विव्याध हृदय़े तूर्णं सिंहनादं ननाद च ||
६ ख
सञ्जय़ उवाच:
तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संय़ुगे |
७ क
सञ्जय़ उवाच:
चिच्छेदान्येन भल्लेन धनुरस्य महाप्रभम् ||
७ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ |
८ क
सञ्जय़ उवाच:
उत्ससर्ज धनुस्तूर्णं सन्दश्य दशनच्छदम् ||
८ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान् |
९ क
सञ्जय़ उवाच:
आददेऽन्यद्धनुः श्रेष्ठं द्रोणस्यान्तचिकीर्षय़ा ||
९ ख
सञ्जय़ उवाच:
विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा |
१० क
सञ्जय़ उवाच:
द्रोणस्यान्तकरं घोरं व्यसृजत्साय़कं ततः ||
१० ख
सञ्जय़ उवाच:
स विसृष्टो वलवता शरो घोरो महामृधे |
११ क
सञ्जय़ उवाच:
भासय़ामास तत्सैन्यं दिवाकर इवोदितः ||
११ ख
सञ्जय़ उवाच:
तं दृष्ट्वा तु शरं घोरं देवगन्धर्वमानवाः |
१२ क
सञ्जय़ उवाच:
स्वस्त्यस्तु समरे राजन्द्रोणाय़ेत्यव्रुवन्वचः ||
१२ ख
सञ्जय़ उवाच:
तं तु साय़कमप्राप्तमाचार्यस्य रथं प्रति |
१३ क
सञ्जय़ उवाच:
कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत् ||
१३ ख
सञ्जय़ उवाच:
स छिन्नो वहुधा राजन्सूतपुत्रेण मारिष |
१४ क
सञ्जय़ उवाच:
निपपात शरस्तूर्णं निकृत्तः कर्णसाय़कैः ||
१४ ख
सञ्जय़ उवाच:
छित्त्वा तु समरे वाणं शरैः संनतपर्वभिः |
१५ क
सञ्जय़ उवाच:
धृष्टद्युम्नं रणे कर्णो विव्याध दशभिः शरैः ||
१५ ख
सञ्जय़ उवाच:
पञ्चभिर्द्रोणपुत्रस्तु स्वय़ं द्रोणश्च सप्तभिः |
१६ क
सञ्जय़ उवाच:
शल्यश्च नवभिर्वाणैस्त्रिभिर्दुःशासनस्तथा ||
१६ ख
सञ्जय़ उवाच:
दुर्योधनश्च विंशत्या शकुनिश्चापि पञ्चभिः |
१७ क
सञ्जय़ उवाच:
पाञ्चाल्यं त्वरिताविध्यन्सर्व एव महारथाः ||
१७ ख
सञ्जय़ उवाच:
स विद्धः सप्तभिर्वीरैर्द्रोणत्राणार्थमाहवे |
१८ क
सञ्जय़ उवाच:
सर्वानसम्भ्रमाद्राजन्प्रत्यविध्यत्त्रिभिस्त्रिभिः |
१८ ख
सञ्जय़ उवाच:
द्रोणं द्रौणिं च कर्णं च विव्याध तव चात्मजम् ||
१८ ग
सञ्जय़ उवाच:
ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर्मृधे |
१९ क
सञ्जय़ उवाच:
विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः ||
१९ ख
सञ्जय़ उवाच:
द्रुमसेनस्तु सङ्क्रुद्धो राजन्विव्याध पत्रिणा |
२० क
सञ्जय़ उवाच:
त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाव्रवीत् ||
२० ख
सञ्जय़ उवाच:
स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः |
२१ क
सञ्जय़ उवाच:
स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरणैर्युधि ||
२१ ख
सञ्जय़ उवाच:
भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम् |
२२ क
सञ्जय़ उवाच:
उन्ममाथ शिरः काय़ाद्द्रुमसेनस्य वीर्यवान् ||
२२ ख
सञ्जय़ उवाच:
तच्छिरो न्यपतद्भूमौ सन्दष्टौष्ठपुटं रणे |
२३ क
सञ्जय़ उवाच:
महावातसमुद्धूतं पक्वं तालफलं यथा ||
२३ ख
सञ्जय़ उवाच:
तांश्च विद्ध्वा पुनर्वीरान्वीरः सुनिशितैः शरैः |
२४ क
सञ्जय़ उवाच:
राधेय़स्याच्छिनद्भल्लैः कार्मुकं चित्रय़ोधिनः ||
२४ ख
सञ्जय़ उवाच:
न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा |
२५ क
सञ्जय़ उवाच:
निकर्तनमिवात्युग्रो लाङ्गूलस्य यथा हरिः ||
२५ ख
सञ्जय़ उवाच:
सोऽन्यद्धनुः समादाय़ क्रोधरक्तेक्षणः श्वसन् |
२६ क
सञ्जय़ उवाच:
अभ्यवर्षच्छरौघैस्तं धृष्टद्युम्नं महावलम् ||
२६ ख
सञ्जय़ उवाच:
दृष्ट्वा तु कर्णं संरव्धं ते वीराः षड्रथर्षभाः |
२७ क
सञ्जय़ उवाच:
पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसय़ा ||
२७ ख
सञ्जय़ उवाच:
षण्णां योधप्रवीराणां तावकानां पुरस्कृतम् |
२८ क
सञ्जय़ उवाच:
मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि ||
२८ ख
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु दाशार्हो विकिरञ्शरान् |
२९ क
सञ्जय़ उवाच:
धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत ||
२९ ख
सञ्जय़ उवाच:
तमाय़ान्तं महेष्वासं सात्यकिं युद्धदुर्मदम् |
३० क
सञ्जय़ उवाच:
राधेय़ो दशभिर्वाणैः प्रत्यविध्यदजिह्मगैः ||
३० ख
सञ्जय़ उवाच:
तं सात्यकिर्महाराज विव्याध दशभिः शरैः |
३१ क
सञ्जय़ उवाच:
पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाव्रवीत् ||
३१ ख
सञ्जय़ उवाच:
स सात्यकेस्तु वलिनः कर्णस्य च महात्मनः |
३२ क
सञ्जय़ उवाच:
आसीत्समागमो घोरो वलिवासवय़ोरिव ||
३२ ख
सञ्जय़ उवाच:
त्रासय़ंस्तलघोषेण क्षत्रिय़ान्क्षत्रिय़र्षभः |
३३ क
सञ्जय़ उवाच:
राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत ||
३३ ख
सञ्जय़ उवाच:
कम्पय़न्निव घोषेण धनुषो वसुधां वली |
३४ क
सञ्जय़ उवाच:
सूतपुत्रो महाराज सात्यकिं प्रत्ययोधय़त् ||
३४ ख
सञ्जय़ उवाच:
विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि |
३५ क
सञ्जय़ उवाच:
कर्णः शरशतैश्चापि शैनेय़ं प्रत्यविध्यत ||
३५ ख
सञ्जय़ उवाच:
तथैव युय़ुधानोऽपि वृष्णीनां प्रवरो रथः |
३६ क
सञ्जय़ उवाच:
अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम् ||
३६ ख
सञ्जय़ उवाच:
तावकाश्च महाराज कर्णपुत्रश्च दंशितः |
३७ क
सञ्जय़ उवाच:
सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः ||
३७ ख
सञ्जय़ उवाच:
अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य चाभिभो |
३८ क
सञ्जय़ उवाच:
अविध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे ||
३८ ख
सञ्जय़ उवाच:
तेन वाणेन निर्विद्धो वृषसेनो विशां पते |
३९ क
सञ्जय़ उवाच:
न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान् ||
३९ ख
सञ्जय़ उवाच:
ततः कर्णो हतं मत्वा वृषसेनं महारथः |
४० क
सञ्जय़ उवाच:
पुत्रशोकाभिसन्तप्तः सात्यकिं प्रत्यपीडय़त् ||
४० ख
सञ्जय़ उवाच:
पीड्यमानस्तु कर्णेन युय़ुधानो महारथः |
४१ क
सञ्जय़ उवाच:
विव्याध वहुभिः कर्णं त्वरमाणः पुनः पुनः ||
४१ ख
सञ्जय़ उवाच:
स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः |
४२ क
सञ्जय़ उवाच:
सहस्तावापधनुषी तय़ोश्चिच्छेद सात्वतः ||
४२ ख
सञ्जय़ उवाच:
तावन्ये धनुषी सज्ये कृत्वा शत्रुभय़ङ्करे |
४३ क
सञ्जय़ उवाच:
युय़ुधानमविध्येतां समन्तान्निशितैः शरैः ||
४३ ख
सञ्जय़ उवाच:
वर्तमाने तु सङ्ग्रामे तस्मिन्वीरवरक्षय़े |
४४ क
सञ्जय़ उवाच:
अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः ||
४४ ख
सञ्जय़ उवाच:
श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निस्वनम् |
४५ क
सञ्जय़ उवाच:
सूतपुत्रोऽव्रवीद्राजन्दुर्योधनमिदं वचः ||
४५ ख
सञ्जय़ उवाच:
एष सर्वाञ्शिवीन्हत्वा मुख्यशश्च नरर्षभान् |
४६ क
सञ्जय़ उवाच:
पौरवांश्च महेष्वासान्गाण्डीवनिनदो महान् ||
४६ ख
सञ्जय़ उवाच:
श्रूय़ते रथघोषश्च वासवस्येव नर्दतः |
४७ क
सञ्जय़ उवाच:
करोति पाण्डवो व्यक्तं कर्मौपय़िकमात्मनः ||
४७ ख
सञ्जय़ उवाच:
एषा विदीर्यते राजन्वहुधा भारती चमूः |
४८ क
सञ्जय़ उवाच:
विप्रकीर्णान्यनीकानि नावतिष्ठन्ति कर्हिचित् ||
४८ ख
सञ्जय़ उवाच:
वातेनेव समुद्धूतमभ्रजालं विदीर्यते |
४९ क
सञ्जय़ उवाच:
सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे ||
४९ ख
सञ्जय़ उवाच:
द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः |
५० क