chevron_left उद्योग पर्व अध्याय ६६
सञ्जय़ उवाच:
अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ |
१ क
सञ्जय़ उवाच:
कामादन्यत्र सम्भूतौ सर्वाभावाय़ संमितौ ||
१ ख
सञ्जय़ उवाच:
द्यामन्तरं समास्थाय़ यथाय़ुक्तं मनस्विनः |
२ क
सञ्जय़ उवाच:
चक्रं तद्वासुदेवस्य माय़या वर्तते विभो ||
२ ख
सञ्जय़ उवाच:
सापह्नवं पाण्डवेषु पाण्डवानां सुसंमतम् |
३ क
सञ्जय़ उवाच:
सारासारवलं ज्ञात्वा तत्समासेन मे शृणु ||
३ ख
सञ्जय़ उवाच:
नरकं शम्वरं चैव कंसं चैद्यं च माधवः |
४ क
सञ्जय़ उवाच:
जितवान्घोरसङ्काशान्क्रीडन्निव जनार्दनः ||
४ ख
सञ्जय़ उवाच:
पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः |
५ क
सञ्जय़ उवाच:
मनसैव विशिष्टात्मा नय़त्यात्मवशं वशी ||
५ ख
सञ्जय़ उवाच:
भूय़ो भूय़ो हि यद्राजन्पृच्छसे पाण्डवान्प्रति |
६ क
सञ्जय़ उवाच:
सारासारवलं ज्ञातुं तन्मे निगदतः शृणु ||
६ ख
सञ्जय़ उवाच:
एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः |
७ क
सञ्जय़ उवाच:
सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः ||
७ ख
सञ्जय़ उवाच:
भस्म कुर्याज्जगदिदं मनसैव जनार्दनः |
८ क
सञ्जय़ उवाच:
न तु कृत्स्नं जगच्छक्तं भस्म कर्तुं जनार्दनम् ||
८ ख
सञ्जय़ उवाच:
यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः |
९ क
सञ्जय़ उवाच:
ततो भवति गोविन्दो यतः कृष्णस्ततो जय़ः ||
९ ख
सञ्जय़ उवाच:
पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः |
१० क
सञ्जय़ उवाच:
विचेष्टय़ति भूतात्मा क्रीडन्निव जनार्दनः ||
१० ख
सञ्जय़ उवाच:
स कृत्वा पाण्डवान्सत्रं लोकं संमोहय़न्निव |
११ क
सञ्जय़ उवाच:
अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान् ||
११ ख
सञ्जय़ उवाच:
कालचक्रं जगच्चक्रं युगचक्रं च केशवः |
१२ क
सञ्जय़ उवाच:
आत्मय़ोगेन भगवान्परिवर्तय़तेऽनिशम् ||
१२ ख
सञ्जय़ उवाच:
कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च |
१३ क
सञ्जय़ उवाच:
ईशते भगवानेकः सत्यमेतद्व्रवीमि ते ||
१३ ख
सञ्जय़ उवाच:
ईशन्नपि महाय़ोगी सर्वस्य जगतो हरिः |
१४ क
सञ्जय़ उवाच:
कर्माण्यारभते कर्तुं कीनाश इव दुर्वलः ||
१४ ख
सञ्जय़ उवाच:
तेन वञ्चय़ते लोकान्माय़ाय़ोगेन केशवः |
१५ क
सञ्जय़ उवाच:
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ||
१५ ख