सञ्जय़ उवाच:
अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा |
१ क
सञ्जय़ उवाच:
भीमसेनभय़ादिच्छन्पुत्रांस्तारय़ितुं तव ||
१ ख
सञ्जय़ उवाच:
पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत |
२ क
सञ्जय़ उवाच:
कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ||
२ ख
सञ्जय़ उवाच:
तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभय़े |
३ क
सञ्जय़ उवाच:
अभवत्तुमुलः शव्दः संस्पृशन्गगनं महत् ||
३ ख
सञ्जय़ उवाच:
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः |
४ क
सञ्जय़ उवाच:
भेरीशङ्खनिनादैश्च तुमुलः समपद्यत ||
४ ख
सञ्जय़ उवाच:
युय़ुत्सवस्ते विक्रान्ता विजय़ाय़ महावलाः |
५ क
सञ्जय़ उवाच:
अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः ||
५ ख
सञ्जय़ उवाच:
शिरसां पात्यमानानां समरे निशितैः शरैः |
६ क
सञ्जय़ उवाच:
अश्मवृष्टिरिवाकाशे वभूव भरतर्षभ ||
६ ख
सञ्जय़ उवाच:
कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च |
७ क
सञ्जय़ उवाच:
पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ||
७ ख
सञ्जय़ उवाच:
विशिखोन्मथितैर्गात्रैर्वाहुभिश्च सकार्मुकैः |
८ क
सञ्जय़ उवाच:
सहस्ताभरणैश्चान्यैरभवच्छादिता मही ||
८ ख
सञ्जय़ उवाच:
कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः |
९ क
सञ्जय़ उवाच:
मुखैश्च चन्द्रसङ्काशै रक्तान्तनय़नैः शुभैः ||
९ ख
सञ्जय़ उवाच:
गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते |
१० क
सञ्जय़ उवाच:
आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुन्धरा ||
१० ख
सञ्जय़ उवाच:
रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशितैः |
११ क
सञ्जय़ उवाच:
आय़ुधानां च निर्घोषः स्तनय़ित्नुसमोऽभवत् ||
११ ख
सञ्जय़ उवाच:
स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः |
१२ क
सञ्जय़ उवाच:
प्रावर्तत कुरूणां च पाण्डवानां च भारत ||
१२ ख
सञ्जय़ उवाच:
तस्मिन्महाभय़े घोरे तुमुले लोमहर्षणे |
१३ क
सञ्जय़ उवाच:
ववर्षुः शरवर्षाणि क्षत्रिय़ा युद्धदुर्मदाः ||
१३ ख
सञ्जय़ उवाच:
क्रोशन्ति कुञ्जरास्तत्र शरवर्षप्रतापिताः |
१४ क
सञ्जय़ उवाच:
तावकानां परेषां च संय़ुगे भरतोत्तम |
१४ ख
सञ्जय़ उवाच:
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ||
१४ ग
सञ्जय़ उवाच:
उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः |
१५ क
सञ्जय़ उवाच:
तावकानां परेषां च योधानां भरतर्षभ ||
१५ ख
सञ्जय़ उवाच:
अश्वानां कुञ्जराणां च रथानां चातिवर्तताम् |
१६ क
सञ्जय़ उवाच:
सङ्घाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते ||
१६ ख
सञ्जय़ उवाच:
गदाभिरसिभिः प्रासैर्वाणैश्च नतपर्वभिः |
१७ क
सञ्जय़ उवाच:
जघ्नुः परस्परं तत्र क्षत्रिय़ाः कालचोदिताः ||
१७ ख
सञ्जय़ उवाच:
अपरे वाहुभिर्वीरा निय़ुद्धकुशला युधि |
१८ क
सञ्जय़ उवाच:
वहुधा समसज्जन्त आय़सैः परिघैरिव ||
१८ ख
सञ्जय़ उवाच:
मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते |
१९ क
सञ्जय़ उवाच:
अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह ||
१९ ख
सञ्जय़ उवाच:
विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः |
२० क
सञ्जय़ उवाच:
अन्योन्यमभिधावन्त परस्परवधैषिणः ||
२० ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा कलिङ्गैर्वहुभिर्वृतः |
२१ क
सञ्जय़ उवाच:
पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ||
२१ ख
सञ्जय़ उवाच:
तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् |
२२ क
सञ्जय़ उवाच:
भीष्ममभ्यद्रवन्क्रुद्धा रणे रभसवाहनाः ||
२२ ख